2023-12-25 08:46:31 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६३२
 
कादम्बरी ।
 
[ कथायाम् -
 
अहं तु [^१]विना वयस्येन [^२]शोकावेगान्धो [^३]गीर्वाणवर्त्मनि धावन्नन्यतममतिक्रोधनं वैमा-
निकमलङ्घयम् । स तु मां दहन्निव रोषहुतभुजा भृकुटीविकरालेन चक्षुषा निरीक्ष्याब्रवीत् -
'दुरात्मन्, मिथ्यातपोबलगर्वित, यदेवमतिविस्तीर्णे गगनमार्गे त्वयाहमुद्दाम- प्रचारिणा तुरं-
गमेणेवोपै [^४]पलङ्गितस्तस्मात्तुरंगम एव भूत्वा मीमर्त्य- लोकेवतर' [^५]इति । अहं तु तमुद्राबाष्पपक्षमा कृता-
ञ्जलिरवदम् - 'भगवन्, वयस्यशोकान्धेन त्वं मयोल्लङ्गितो [^६]नावज्ञया । तत्प्र- सीद ।[^७] उपसं-
हर शापमाशु त्वमिमम्' इति । स तु मां पुनर- वादीत् - [^८]'र्यन्मयोक्तं तन्नान्यथा भवितुम-
र्हति । तदेतत्ते करोमि । कियन्तमपि कालं यस्यैव [^९]वाहनतामुपयास्यसि तस्यैवावसाने

स्नात्वा विगतशापो भविष्यसि' इति ।
 

 
एवमुक्तस्तु पुन [^१०]स्तमहमवदम् – 'भगवन् यद्येवं ततो विज्ञा- पयामि । तेनापि मं[^११]मत्प्रियव-
यस्येन पुण्डरीकेण चन्द्रमसा सह शापदोषान्मर्त्यलोक एवोत्पत्तव्यम् । तदेतावन्तमपि भग-
बा
वान्प्रसादं करोतु मे दिव्येन चक्षुषावलोक्य, यथा तुरङ्गमत्वेऽपि मे तेनैव प्रिय- वयस्येन
सहाऽवियोगेन कालो यायात्' इति । स त्वेवमुक्तो मुहूर्त- मिव ध्यात्वा पुनर्मामवादीत्
– 'अनया
 
C
 
4
 

 
[ टि ]--
अहं तु वयस्येन मित्रेण विना शोकस्य शुच आवेगस्तैतेनान्धो गताक्षो गीर्वाणवर्त्मनि देवपथि धावंस्त्वरय
गच्छन्नन्यतमं वैमानि- कानां मध्येऽन्यमतिकोक्रोधनमत्यन्तकोपनं वैमानिकं देवमलङ्घयं व्यतिक्रमम् । स तु वैमा-
निको मां रोषहुतभुजा क्रोधवहिह्निना दहन्निव भस्मीकुर्वन्निव भृकुटिर्भ्रूकुटिस्तया विकरालेन विकृतेन । भीषणे-
नेति यावत् । चक्षुषा नेत्रेण निरीक्ष्यावलोक्याब्रवीदवोचत् । हे दुरा- त्मन् दुष्टात्मन्, मिथ्या वृथा तपोबलेन
तपस्तेजसा गर्वित गर्वतं गर्वं प्राप्त, यदेवमति विस्तीर्णेऽतिवितते गगनमार्गे व्योमपथि त्वया भवताह- मुद्दामप्रचारिणो-
द्धतग मनशीलेन तुरंगमेणेवाश्वेनेवोपलङ्घित उल्ल- ङ्गिघितस्तस्मात्त्वं मर्त्यलोके तुरंगम एव [^1]ययुरेव भूत्वा मर्त्यलोके

मनुष्यभूमाववतरावतारं गृहाणेति । अहं तु तं वैमानिक मुदूर्ध्वं बाप्पो यस्मिन्नेतादृशं पक्ष्म यस्य स तथा कृताञ्जलिः
संयोजित- पाणिरवदमब्रुवम् । हे भगवन्, वयस्यस्य मित्रस्य शोकः शुक् तेनान्धस्तेन मया त्वमुल्लङ्घितो नावशया-
ज्ञयाशातनया । तदिति हेत्वर्थे । प्रसीद प्रसन्नो भव । त्वमिमं शापमाशूपसंहर निवर्तय । स तु वैमानिकः पुनर्द्वि-
तीयवारमवादीदब्रवीत् । यन्मयोक्तं कथितं तदन्यथा कथितादन्यद्भवितुं नार्हति । तत्तस्माद्धेतोरेतत्ते तव
करो- म्यनुतिष्ठामि । कियन्तमपि कालमनेहसं यस्यैव पुंसो वाहनतां युग्यतामुपयास्यस्युपगमिष्यसि तस्यैव
पुंसोऽवसानेऽन्ते स्नात्वा रू
स्न
पनं कृत्वा विगतशापः शापनिर्मुक्तो भविष्यसि इति ।
 

 
एवमुक्तस्तु पुनस्तं वैमानिकमहमवदम् -- हे भगवन्, यद्येवं ततो हेतोर्विज्ञापयामि विज्ञप्तिं करोमि । किं तदि-
त्याह —तेनेति । तेनापि मत्प्रियवयस्येन पुण्डरीकेण चन्द्रमसा चन्द्रेण सह शापदोषान्मर्त्य- लोक एवोत्पा
त्तव्यं जन्म ग्रहीतव्यम् । तत्तस्मात्कारणादेतावन्तम-
पीयन्मात्रमपि भगवान्मे मम प्रसादं करोतु दिव्येन चक्षुषा
ज्ञानलो- चनेनावलोक्य निरीक्ष्य यथा तुरंगमत्वेप्यश्वत्वेऽपि तेनैव प्रियवयस्ये- न सहावियोगेनं संयुक्तेन कालोऽ-
नेहा यायाद्गच्छेदिति । स त्वेवं पूर्वोक्त प्रकारेणोक्तः कथितो मुहूर्तमिव ध्यात्वा ध्यानं कृत्वा पुनर्मांमा- मवादीदभ्य-
टिप्प० -

 
[^
1]F. पुनः पुङ्गवत्वं प्रदर्श्यते । 'ययुरश्वोऽश्वमेधीयः' इति कोपा-
दश्वमेधाश्व एव ययुः, न तु
 
अश्वसामान्यम् ।
 
पाठा० -

 
[^
]G. विनाकृतः .
[^
]G. शोकावेशान्ध:.
६ अवशायाः; अवज्ञानात्. ७ इमं शापमुपसंहरेति.
१० तम् .. ११ मे प्रिय.
 

[^
]G. गीर्वाणवर्त्मना.
[^
]G. उल्लविङ्घितः.
[^
]G. इति वोढव्यं त्वया.
 

[^६]G. अवशायाः; अवज्ञानात्.
[^७]G. इमं शापमुपसंहरेति.
[^
]G. दत्त एव शापः संप्रति मया नान्यथा.
[^
]G. बाह्यताम्.
 

[^१०]G. तम्.
[^११]G. मे प्रिय.