कादम्बरी /665
This page has not been fully proofread.
६३२
कादम्बरी ।
[ कथायाम् -
अहं तु विना वयस्येन शोकावेगान्धो गीर्वाणवर्त्मनि धावन्नन्यतममतिक्रोधनं वैमा-
निकमलङ्घयम् । स तु मां दहन्निव रोषहुतभुजा भृकुटीविकरालेन चक्षुषा निरीक्ष्याब्रवीत् -
'दुरात्मन्, मिथ्यातपोबलगर्वित, यदेवमतिविस्तीर्णे गगनमार्गे त्वयाहमुद्दामप्रचारिणा तुरं-
गमेणेवोपैलङ्गितस्तस्मात्तुरंगम एव भूत्वा मीलोकेवतर' इति । अहं तु तमुद्राष्पपक्षमा कृता-
जलिरवदम् - 'भगवन्, वयस्यशोकान्धेन त्वं मयोल्लङ्गितो नावज्ञया । तत्प्रसीद । उपसं-
हर शापमाशु त्वमिमम्' इति । स तु मां पुनरवादीत् - 'र्यन्मयोक्तं तन्नान्यथा भवितुम-
र्हति । तदेतत्ते करोमि । कियन्तमपि कालं यस्यैव वाहनतामुपयास्यसि तस्यैवावसाने
स्नात्वा विगतशापो भविष्यसि' इति ।
एवमुक्तस्तु पुनस्तमहमवदम् – 'भगवन् यद्येवं ततो विज्ञापयामि । तेनापि मंप्रियव-
यस्येन पुण्डरीकेण चन्द्रमसा सह शापदोषान्मर्त्यलोक एवोत्पत्तव्यम् । तदेतावन्तमपि भग-
बान्प्रसादं करोतु मे दिव्येन चक्षुषावलोक्य, यथा तुरङ्गमत्वेऽपि मे तेनैव प्रियवयस्येन
सहाऽवियोगेन कालो यायात्' इति । स त्वेवमुक्तो मुहूर्तमिव ध्यात्वा पुनर्मामवादीत्
– 'अनया
C
4
अहं तु वयस्येन मित्रेण विना शोकस्य शुच आवेगस्तैनान्धो गताक्षो गीर्वाणवर्त्मनि देवपथि धावंस्त्वरय
गच्छन्नन्यतमं वैमानिकानां मध्येऽन्यमतिकोधनमत्यन्तकोपनं वैमानिकं देवमलङ्घयं व्यतिक्रमम् । स तु वैमा-
निको मां रोषहुतभुजा क्रोधवहिना दहन्निव भस्मीकुर्वन्निव भृकुटिभ्रूकुटिस्तया विकरालेन विकृतेन । भीषणे-
नेति यावत् । चक्षुषा नेत्रेण निरीक्ष्यावलोक्याब्रवीदवोचत् । हे दुरात्मन् दुष्टात्मन्, मिथ्या वृथा तपोबलेन
तपस्तेजसा गर्वित गर्व प्राप्त, यदेवमति विस्तीर्णेऽतिवितते गगनमार्गे व्योमपथि त्वया भवताहमुद्दामप्रचारिणो-
द्धतग मनशीलेन तुरंगमेणेवाश्वेनेवोपलङ्घित उल्लङ्गितस्तस्मात्त्वं मर्त्यलोके तुरंगम एव ययुरेव भूत्वा मर्त्यलोके
मनुष्यभूमाववतरावतारं गृहाणेति । अहं तु तं वैमानिक मुदूर्ध्वं बाप्पो यस्मिन्नेतादृशं पक्ष्म यस्य स तथा कृताञ्जलिः
संयोजितपाणिरवदमब्रुवम् । हे भगवन्, वयस्यस्य मित्रस्य शोकः शुक् तेनान्धस्तन मया त्वमुल्लङ्घितो नावशया-
शातनया । तदिति हेत्वर्थे । प्रसीद प्रसन्नो भव । त्वमिमं शापमाशूपसंहर निवर्तय । स तु वैमानिकः पुनर्द्वि-
तीयवारमवादीदब्रवीत् । यन्मयोक्तं कथितं तदन्यथा कथितादन्यद्भवितुं नार्हति । तत्तस्माद्धेतोरेतत्ते तव
करोम्यनुतिष्ठामि । कियन्तमपि कालमनेहसं यस्यैव पुंसो वाहनतां युग्यतामुपयास्यस्युपगमिष्यसि तस्यैव
पुंसोऽवसानेऽन्ते स्नात्वा रूपनं कृत्वा विगतशापः शापनिर्मुक्तो भविष्यसि इति ।
एवमुक्तस्तु पुनस्तं वैमानिकमहमवदम् -- हे भगवन्, यद्येवं ततो हेतोर्विज्ञापयामि विज्ञप्तिं करोमि । किं तदि-
त्याह —तेनेति । तेनापि मत्प्रियवयस्येन पुण्डरीकेण चन्द्रमसा चन्द्रेण सह शापदोषान्मर्त्यलोक एवोत्पा
तव्यं जन्म ग्रहीतव्यम् । तत्तस्मात्कारणादेतावन्तमपीयन्मात्रमपि भगवान्मे मम प्रसादं करोतु दिव्येन चक्षुषा
ज्ञानलोचनेनावलोक्य निरीक्ष्य यथा तुरंगमत्वेप्यश्वत्वेऽपि तेनैव प्रियवयस्येन सहावियोगेनं संयुक्तेन कालोऽ-
नेहा यायाद्गच्छेदिति । स त्वेवं पूर्वोक्त प्रकारेणोक्तः कथितो मुहूर्तमिव ध्यात्वा ध्यानं कृत्वा पुनर्मांमवादीदभ्य-
टिप्प० - 1 पुनः पुत्वं प्रदर्श्यते । 'ययुरश्वोऽश्वमेधीयः' इति कोपादश्वमेधाश्व एव ययुः, न तु
अश्वसामान्यम् ।
पाठा० -१ विनाकृतः २ शोकावेशान्ध:.
६ अवशायाः; अवज्ञानात्. ७ इमं शापमुपसंहरेति.
१० तम् .. ११ मे प्रिय.
३ गीर्वाणवर्त्मना. ४ उल्लवितः. ५ इति वोढव्यं त्वया.
८ दत्त एव शापः संप्रति मया नान्यथा. ९ बाह्यताम्.