2023-12-25 11:28:02 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

अच्छोदान्निःसृतस्य कपिजलस्य वृत्तम् ] उत्तरभागः ।
 
न्येवोत्पन्नानुरागोऽप्राप्तसमागमसुखस्ती [^१]व्रतरां हृदयवेदना- मनुभूय जीवितमुत्स्र [^२]क्ष्यसि' इति ।
अहं तु तेनास्य शापहुत- भुजा [^३]झटिति [^४]ज्वैलित इव [^५]निरैगाम् । किमनेनात्म- दोषानुबन्धेन निर्वि-
वेकबुद्धिना शप्तोऽस्मीत्युत्पन्नकोप : 'स्त्वमपि मत्तुल्य [^६]दुःखसुख एव भविष्यसि ' इति प्रतिशाप-
मस्मै प्राय- च्छम् । अपगतामर्श्च विवेकमागतया बुद्ध्या विमृशन्महाश्वेता- व्यतिकरमस्याधि-
गतवानस्मि । वत्सा तु महाश्वेता मन्मयूखसंभ- वादप्सरसः कुलालब्धजन्मनि गौर्यामुत्पन्ना।
तै
[^७]तया चायं भर्ता स्वयं
वृतः । अनेन [^८]च स्वयंकृता देवास् [^९]त्पदोषान्मया सह मर्त्यलोके वारद्वयम-
वश्यमुत्पत्तव्यम् । अन्यथा जन्मनि [^१०]- न्मन्येषा वीप्सैव न चरितार्था भवति । [^११]तद्यावदयं
शांप
[^१२]शाप- दोपाषादपैति तावदस्यात्मना विरहितस्य शरीरस्य मा विनाशोऽभूदि- ति मयेदमुत्क्षिप्य
समानीतम् । वत्सा च महाश्वेता समाश्वासिता । तदिदमत्र मत्तेजसौ [^१३]साप्याय्यमानमा शापक्ष-
यास्थितम् । अधुना त्वं [^१४]गत्वेवैनं वृत्तान्तं श्वेतकेतवे निवेदय । महाप्रभावोऽसौ कदाचिदत्र
प्रतिक्रियां काञ्चिदपि करोति' इत्युक्त्वा मां व्यसर्जयत्
 

 
[ टि ]--
संजातानुरतिरप्राप्तहृदयवाहमा वल्लभासमागमसुखोऽलब्धप्राण- प्रिया मेलाप कसौख्यस्तीव्रतरां वेदनामतिकठिनाम साता-
मनुभूय जीवितं प्राणितमुत्त्स्रक्ष्यसि त्यक्ष्यसीति । अहं त्वस्य पुण्डरीकस्य तेन शापहुतभुजा शापवह्निना
झटिति शीघ्रं ज्वलित इव दग्ध इव [^1]निरगां निरगच्छम् । किमनेन पुण्डरीकेण । आत्मदोषस्या- नुबन्धः संबन्धो
यस्मिन्स तेन निर्विवेकबुद्धिना तत्त्वातत्त्वविचार- वियुक्तमतिना शप्तोऽहमस्मीति हेतोरुत्पन्नः प्रादुर्भूतः कोपो
यस्य सोऽहं त्वमपि भवानपि मत्तुल्यदुःखसुख एव मत्सदृशकृच्छ्रसौख्य एव भविष्यसीति प्रतिशापम स्मै
पुण्डरीकाय प्रायच्छमदासिषम् । अपगतो दूरीभूतोऽमर्षः क्रोधो यस्मात्स तथा । एवंविधश्चाहं विवेकैः[^2]विवेक: पृथगा.
त्मता तमागतया प्राप्तया बुद्ध्या प्रतिभया विमृशन्विचारयन्नस्य पुण्डरीकस्य महाश्वेताव्यतिकरं गान्धर्व पुत्री-

वृत्
तान्तमधिगतवाञ्ज्ञातवानस्मि । वत्सा तु महाश्वेता मन्मयूखसंभ- वान्मदीयकान्तिसमुत्पन्नादप्सरसः स्वर्गिवध्वाः
कुलादभिजनालब्ध- जन्मनि प्राप्तोद्भवायां गौर्यामुत्पन्ना संजाता । 'सजातीयगणे गोत्रे देहेऽपि कथितं
कुलम्' इति विश्वः । तया च महाश्वेतया चायं भर्ता पुण्डरीकः स्वयं वृतः । अनेन च पुण्डरीकेण च स्वयं-
कृतादेवात्म- दोषादेव मया सह चन्द्रमसा सार्धं वारद्वयं मर्त्यलोके मनुष्यक्षेत्रेऽव- श्यमुत्पत्तव्यम् । अन्यथोक्त
विपर्यये जन्मनि जन्मन्येषा वीप्सैत्र न चरितार्था कृतार्था भवति । तद्यावदयं पुण्डरीकः शापदोषादपैति दूरी -
भवति तावत्कालमस्य पुण्डरीकस्यात्मना जीवेन विरहितस्य शरीरस्य मा विनाशोऽभूदिति हेतोर्मया चन्द्रमसेद-
मुक्षिप्योत्पाट्य समानीतम् । वत्सा च महाश्वेता समाश्वासिता । अत्र तल्पे तदिदं शरीरं मत्तेजसा मद्धाम्ना-
प्याय्यमानं शीतली क्रियमाणमा शापक्षया- च्छापक्षयपर्यन्तं स्थितम् । अधुना त्वं गत्वैनं वृत्तान्तं श्वेतकेतवे
मुनी- श्वराय निवेदय । असौ महाप्रभावः कदाचिदत्र कांचित्प्रतिक्रियामपि प्रतीकारमपि करोति । इत्युक्त्वा मां
कपिञ्जलं व्यसर्जयद्गमनाज्ञां दत्तवान् ।
 
टिप्प० -

 
[^
1]F. उदयं गतश्चन्द्रः कस्मिन् गर्ते पतितोऽभूद् योऽधुना 'निर- गात्' ? सर्वेयं लीला टीकाकार-
चूडामणे: । 'निरागाः' इति पाठः । निरागाः (निरपराध:) अहं शापाग्निना झटिति उद्दीपित वेत्युत्प
-
न्
नकोपः प्रतिज्ञाशापं प्रायच्छमित्यर्थः, एकं च वाक्यम् ।
[^
2]F. मोहाद्विरुद्वो ( अर्थात् तात्विकः) विचार एव
विवेकः । टीकाकारपुंगवस्तु - देहात्मनोः पृथक्तया परिज्ञानं वैदान्तिक विवेकं सर्वत्रोद्घोषयतीति महाभाग्यं
 
ग्रन्थस्यास्य ।
 
पाठा० -

 
[^
]G. तीव्रतमाम् .
[^
]G. उत्स्रजिष्यति.
[^
]G. झगिति; धगिति.
[^
]G. समुद्दीपित; उद्दीपित.
[^
]G. निरगात.
त्.
[^
]G. सुखदुःख.
[^
]G. अनया.
[^
]G. च संप्रति .
[^
]G. शापदोषात्.
[^
१०]G. जन्मनीति, .
[^
११]G. तत्तथा; तद्यावत् .
[^
१२]G. शापदीपो व्यपैति.

[^
१३]G. आप्यायितम् .
[^
१४]G. वृत्तान्तमिमम्.