2023-12-26 05:20:52 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
६३०
कादम्बरी ।
[ कथायाम्-
अहं हि तथा कृतार्तप्रलापामपि त्वामेकाकिनीं समुत्सृज्य वयस्यस्नेहादाबद्धपरिकर: 'कक्व मे
प्रियसुहृदमपहृत्य गच्छसि' इत्यभिधाय तं पुरुषमनुबध्नञ्जवेनोदपतम् । स तु मे प्रतिवचन-
मदत्त्वैव गीर्वाणवर्त्मनि विस्मयोत्फुल्लनयनैरवलोक्यमानो वैमा- निकैः, अवगुण्ठितमुखीभिरव-
मुच्यमानगगनमार्गो [^१]दिव्याङ्ग- नाभिः, अभिसारिकाभिरालोलतार केक्षणाभिरितस्ततः प्रणम्य-
मानमान- स्तारकाभिः, अम्बरसरः कुमुदाकरमतिक्रम्य तारागणं चन्द्रिकाभि- रामसकललोकं चन्द्र-
लोकमगच्छत् । तत्र च महोदयाख्यायां सभा- यामिन्दुकान्तमये महति पर्यङ्के तत्पुण्डरीकशरीरं
स्थापयित्वा मा- मवादीत् – 'कपिञ्जल, जानीहि मां चन्द्रमसम् । अहं [^३]खलूदयं गतो जगद्-
दनुमग्रहाय स्वव्यापार [^४]मनुतिष्ठन् अनेन ते प्रियवयस्येन काम । मापराधाज्जीवितमुत्सृजता निरपराधः
संशप्त: 'दुरात्मन्निन्दुहत- क, यथाहं त्वया करैः [^५]संतापित उत्पन्नानुरागः सन्नसंप्राप्त हृद- यवल्ल-
भासमागमसुखः प्राणैर्वियोजितस्तथा त्वमपि कर्मभूमिभूते- ऽस्मिन्भारते वर्षे जन्मनि [^६]जन्म-
"
[ टि ]-- श्रूयतामाकर्ण्यताम् । अहं हि तथा तेन प्रकारेण कृतो विहित आर्तो दीनः प्रलापः प्रियाश्रित
काल्पनिकव्याहारो यया सा तामपि लात्वामेका किनीमसहायां समुत्सृज्य त्यक्त्वा वयस्य स्नेहा- न्मित्रप्री-
तेराबद्धः परिकरः कटिप्रदेशो येन सः । केति । कुत्र मे
मम प्रियसुहृदं वल्लभवयस्यमिममपह-
त्यापहरणं कृत्वा गच्छसि प्रयासीत्यभिधायेत्युक्त्वा तं पुरुषमनुबध्नन्ननुधावञ्जवेन वेगेनोदप- तमूर्ध्वमग-
च्छम् । स तु पुमान्मे मम प्रतिवचनं प्रत्युत्तरमदत्त्वैवा- कथयित्वैव गीर्वाणवर्त्मन्याकाशे विस्मयेनाश्चर्येणोत्फु-
छाल्लानि विक- सितानि नयनानि नेत्राणि येषां तैर्वैमानिकैर्विमानवासिभिः सुरैरव- लोक्यमानो वीक्ष्यमाणोऽवगु-
ण्ठितान्याच्छादितानि मुखानि यासां ताभिर्दिव्याङ्गनाभिरभिसारिकाभिर्याः स्वयमेव प्रियमभियान्ति ता अभि-
सारिका स्ताभिरवमुच्यमानस्त्यज्यमानो गमनमार्गो यस्य सः । आलोलाञ्श्चञ्चलास्तारकाः कनीनिका येष्वेतादृशे
ईक्षणे यासां ताभिस्तारका भिस्तारारा [^1]ताभिस्तारकाभिस्ताराभिरितस्ततः प्रणम्यमानो नमस्क्रिय- माणः । अम्बरमेव सरस्तस्मिन्कुमुदा-
करमिव । कुमुदसमूह- मिवेत्यर्थः । एवंविधं तारागणं तारकासमूहमतिक्रम्योल्लङ्घघ्य चन्द्रिका ज्योत्स्ना तयाभि-
रामो रमणीयः सकललोकः समग्रजनो यस्मिन्नेतादृशं चन्द्रलोकमगच्छदगमत् । तत्र चेति । चन्द्रलोके
महोदया इत्याख्या यस्याः सा तथा तस्यां सभायां संसदीन्दुकान्त- स्तेन निष्पन्न इन्दुकान्तमये महत्यायते
पर्यङ्के पत्यल्यङ्के तत्पुण्डरीक- शरीरं स्थापयित्वा न्यस्य मामवादीदवोचत् । हे कपिल, चन्द्रमसं ग्रहं
मां जानीह्यवबुद्धध्यस्व । स्वव्यापाररं परिभ्रमणलक्षण मनुति- ष्ठन्कुर्वञ्जगतोऽनुग्रहायाभ्युपपत्तयेऽहमुदयं गतः ।
अनेन ते तव प्रियवयस्येन कामापराधात्कन्दर्पागसो जीवितमुत्सृजता त्यजताहं निरपराधोऽपि निरागाः
संशप्तः शापविषयीकृतः । तदेव दर्शयन्नाह - दुरात्मन्निति । हे दुरात्मन हे दुष्टात्मन्, हे इन्दुहतक, यथाहं
त्वया करै;: किरणैः संतापितः पीडितः उत्पन्नः संजातोऽनुरागोऽनुरति- र्यस्यैवंभूतः सन् असंप्राप्तमलब्धं हृदय-
च [^2]वल्लभस्य समागम- सुखखं येन सः, प्राणैरसुभिर्वियोजितः पृथक्कृतः, तथा त्वमपि भवा- नपि कर्मभूमितां भूते प्राप्ते
'यन्त्रैव क्रियते कर्म कर्मभूमिरतो मता । यत्रैव भुज्यते तद्धि भोगभूमिस्तु सससापरा ॥" इत्युक्तः । अकर्मभूमिः
कर्मभूमि: संपद्यत इति कर्मभूमीभूत इति वा । अस्मिन्भारते वर्षे भरतक्षेत्रे जन्मनि जन्मन्येवोत्पन्नानुरागः
4
टिप्प० -
[^1]F. तारकाणामपि तारकाः, ता अपि आलोलाः, किं कारणमालोलत्वे ? नेदं बोद्धुमपि प्रभ-
वति टीकाकारः । अस्तु, 'दिव्याङ्गनाभि' रित्यस्याग्रे-'त्यज्यमानोऽभिसारिकाभिरालोलतार- केक्षणाभिः',
इति पाठः । मा द्राक्षीदिति भयेन विलोलतारके ईक्षणे यासामीदृशीभिः अभिसारिकाभिः परिहिह्रियमाण
इति तदर्थः ।
[^2]F. वल्लभाया इत्युचितम्, मूलं विस्मृतवान् हन्त ।
पाठा०- -
[^१]G. दिव्याङ्गनाभिसारिकाभि: .
[^२]G. चन्द्राभिराम .
[^३]G. उदयगत: .
[^४]G. अनुकुर्वन् .
[^५]G. संताध्य प्य.
[^६ प्राप्त
]G. प्राप्त.