This page has not been fully proofread.

६३०
 
कादम्बरी ।
 
[ कथायाम्-
अहं हि तथा कृतार्तप्रलापामपि त्वामेकाकिनीं समुत्सृज्य वयस्यनेहादाबद्धपरिकर: 'क मे
प्रियसुहृदमपहृत्य गच्छसि इत्यभिधाय तं पुरुषमनुबनञ्जवेनोदपतम् । स तु मे प्रतिवचन-
मदत्त्वैव गीर्वाणवर्त्मनि विस्मयोत्फुल्लनयनैरवलोक्यमानो वैमानिकैः, अवगुण्ठितमुखीभिरव-
मुच्यमानगगनमार्गो दिव्याङ्गनाभिः, अभिसारिकाभिरालोलतार केक्षणाभिरितस्ततः प्रणम्य-
मानस्तारकाभिः, अम्बरसरः कुमुदाकरमतिक्रम्य तारागणं चन्द्रिकाभिरामसकललोकं चन्द्र-
लोकमगच्छत् । तत्र च महोदयाख्यायां सभायामिन्दुकान्तमये महति पर्यङ्के तत्पुण्डरीकशरीरं
स्थापयित्वा मामवादीत् – 'कपिञ्जल, जानीहि मां चन्द्रमसम् । अहं खलूदयं गतो जगद्-
नुमहाय स्वव्यापारमनुतिष्ठन् अनेन ते प्रियवयस्येन काम । पराधाज्जीवितमुत्सृजता निरपराधः
संशप्त: 'दुरात्मन्निन्दुहतक, यथाहं त्वया करैः संतापित उत्पन्नानुरागः सन्नसंप्राप्तहृदयवल्ल-
भासमागमसुखः प्राणैर्वियोजितस्तथा त्वमपि कर्मभूमिभूतेऽस्मिन्भारते वर्षे जन्मनि जन्म-
"
 
श्रूयतामाकर्ण्यताम् । अहं हि तथा तेन प्रकारेण कृतो विहित आर्तो दीनः प्रलापः प्रियाश्रित
काल्पनिकव्याहारो यया सा तामपि लामेका किनीमसहायां समुत्सृज्य त्यक्त्वा वयस्य स्नेहान्मित्रप्री-
तेराबद्धः परिकरः कटिप्रदेशो येन सः । केति । कुत्र मे मम प्रियसुहृदं वल्लभवयस्यमिममपह-
त्यापहरणं कृत्वा गच्छसि प्रयासीत्यभिधायेत्युक्त्वा तं पुरुषमनुबध्नन्ननुधावजवेन वेगेनोदपतमूर्ध्वमग-
च्छम् । स तु पुमान्मे मम प्रतिवचनं प्रत्युत्तरमदत्त्वैवाकथयित्वैव गीर्वाणवर्त्मन्याकाशे विस्मयेनाश्चर्येणोत्फु-
छानि विकसितानि नयनानि नेत्राणि येषां तैर्वैमानिकैर्विमानवासिभिः सुरैरवलोक्यमानो वीक्ष्यमाणोऽवगु-
ण्ठितान्याच्छादितानि मुखानि यासां ताभिर्दिव्याङ्गनाभिरभिसारिकाभिर्याः स्वयमेव प्रियमभियान्ति ता अभि-
सारिका स्ताभिरवमुच्यमानस्त्यज्यमानो गमनमार्गो यस्य सः । आलोलाञ्चञ्चलास्तारकाः कनीनिका येष्वेतादृशे
ईक्षणे यासां ताभिस्तारका भिस्तारारा भिरितस्ततः प्रणम्यमानो नमस्क्रियमाणः । अम्बरमेव सरस्तस्मिन्कुमुदा-
करमिव । कुमुदसमूहमिवेत्यर्थः । एवंविधं तारागणं तारकासमूहमतिक्रम्योल्लङ्घय चन्द्रिका ज्योत्स्ना तयाभि-
रामो रमणीयः सकललोकः समग्रजनो यस्मिन्नेतादृशं चन्द्रलोकमगच्छदगमत् । तत्र चेति । चन्द्रलोके
महोदया इत्याख्या यस्याः सा तथा तस्यां सभायां संसदीन्दुकान्तस्तेन निष्पन्न इन्दुकान्तमये महत्यायते
पर्यङ्के पत्यके तत्पुण्डरीकशरीरं स्थापयित्वा न्यस्य मामवादीदवोचत् । हे कपिल, चन्द्रमसं ग्रहं
मां जानीह्यवबुद्धयस्व । स्वव्यापार परिभ्रमणलक्षण मनुतिष्ठन्कुर्वजगतोऽनुग्रहायाभ्युपपत्तयेऽहमुदयं गतः ।
अनेन ते तव प्रियवयस्येन कामापराधात्कन्दर्पागसो जीवितमुत्सृजता त्यजताहं निरपराधोऽपि निरागाः
संशप्तः शापविषयीकृतः । तदेव दर्शयन्नाह - दुरात्मन्निति । हे दुरात्मन हे दुष्टात्मन्, हे इन्दुहतक, यथाहं
त्वया करै; किरणैः संतापितः पीडितः उत्पन्नः संजातोऽनुरागोऽनुरतिर्यस्यैवंभूतः सन् असंप्राप्तमलब्धं हृदय-
चल्लभस्य समागमसुख येन सः, प्राणैरसुभिर्वियोजितः पृथकृतः, तथा त्वमपि भवानपि कर्मभूमितां भूते प्राप्ते
'यन्त्रैव क्रियते कर्म कर्मभूमिरतो मता । यत्रैव भुज्यते तद्धि भोगभूमिस्तु ससपरा ॥" इत्युक्तः । अकर्मभूमिः
कर्मभूमि: संपद्यत इति कर्मभूमीभूत इति वा । अस्मिन्भारते वर्षे भरतक्षेत्रे जन्मनि जन्मन्येवोत्पन्नानुरागः
 
4
 
टिप्प० - 1 तारकाणामपि तारकाः, ता अपि आलोलाः, किं कारणमालोलवे ? नेदं बोद्धुमपि प्रभ-
वति टीकाकारः । अस्तु, 'दिव्याङ्गनाभि' रित्यस्याग्रे-'त्यज्यमानोऽभिसारिकाभिरालोलतारकेक्षणाभिः',
इति पाठः । मा द्राक्षीदिति भयेन विलोलतारके ईक्षणे यासामीदृशीभिः अभिसारिकाभिः परिहियमाण
इति तदर्थः । 2 वल्लभाया इत्युचितम्, मूलं विस्मृतवान् हन्त ।
 
पाठा०- -१ दिव्याङ्गनाभिसारिकाभि: २ चन्द्राभिराम ३ उदयगत: ४ अनुकुर्वन् ५ संताध्य ६ प्राप्त