This page has not been fully proofread.

६२९
 
कपिझलस्यागमनम् ]
 
उत्तरभागः ।
 

 
वरोधिनीर्जटाः समुत्सारयन, अश्रुजलच्छलेनाच्छोदसरः सलिलमिवान्तः प्रविष्टमाताम्राभ्या-
मुद्रहंल्लोचनाभ्याम् उद्विग्राकृतिस्तापसकुमारकः सहसैवोद तिष्ठत् । उत्थाय च दूरत एवोद्दा-
मबाष्पजलनिरोधपर्याकुलयाप्येलब्धलक्ष्यया दृष्टया विलोकयन्तीं महाश्वेतामुपसृत्य शोकगद्ग-
दमवादीत् - 'गन्धर्वराजपुत्रि, जन्मान्तरादिवागतोऽपि प्रत्यभिज्ञायतेऽयं जनो न वा' इति ।
 
सा त्वेवं पृष्टा शोकानन्दमध्यवर्तिनी ससंघममुत्थाय कृतपादवन्दना प्रत्यवादीत् -
'भगवम्कपिजल, अहमेवंविधाऽपुण्यवती या भवन्तमपि न प्रत्यभिजानामि ? अथ युक्तैवे-
दृशी मय्यनात्मज्ञायां संभावना याहमेकान्तत एंव व्यामोहहता स्वर्ग गतेऽपि देवे पुण्ड-
रीके जीवामि । तत्कथय केनासावुत्क्षिप्य नीतः ? किमर्थ वा नीतः ? किं वास्य वृत्तम् ?
क वर्तते ? किं वा तवोपजातम् ? येनैतावतापि कालेन वार्तापि न दत्ता । कुतो वा त्वमे-
काकी देवेन विना समागतः ?
 
स त्वेवं पृष्टो महाश्वेतया विस्मयोन्मुखेन कादम्बरीपरिजनेन चन्द्रापीडानुगामिना चं
राजपुत्रलोकेनोपर्युपरि पातिना वीक्ष्यमाणः प्रत्यवादीत् – "गन्धर्वराजपुत्रि, श्रूयताम् ।
 
कमलानि तेषां नीलपलाशानि पत्राणि तेषां पृष्ठं पृष्ठभागस्तद्वत्पाण्डुरेण श्वेतेन । किं कुर्वन् । करेण हस्तेन
समुत्सारयन्दूरीकुर्वन् । काः । जटाः । जटाः कीदृशी: । आननमवरुन्धन्तीत्येवंशीला आननावरोधिन्यस्ताः ।
अश्रुजलच्छलेन नेत्राम्बुमिषेणाच्छोदसरसः सलिलं पानीयमन्तः प्रविष्टमिवाताम्राभ्यामीषद्रक्ताभ्यां लोचनाभ्यां
नेत्राभ्यामुद्वहन्धारयन् । उद्विग्नोद्वेगं प्राप्ता आकृतिराकारो यस्य स तथा । अम्भसस्तापसकुमारक उदतिष्ठदि-
त्यन्वयस्तु प्रागेवोक्तः । उत्थाय चोत्थानं कृत्वा च दूरत एवोद्दाममत्युग्रं यद्वाष्पजलमश्रुपानीयं तस्य निरोधः
प्रतिबन्धस्तेन पर्याकुलयापि व्याकुलयाप्यलब्धमप्राप्तं लक्ष्यं वेध्यं ययैवंविधया दृष्टया दृशा विलोकयन्तीं
पश्यन्तीं महाश्वेतामुपसृत्य समीपे गत्वा शोकेन गद्गदमव्यक्ताक्षरं यथा स्यात्तथावादीदब्रवीत् । हे गन्धर्वरा-
जपुत्रि, जन्मान्तरादागतोऽप्ययं जनस्त्वया प्रत्यभिज्ञायत उपलक्ष्यते न वेति ।
 
सा तु महाश्वेता त्वेवं पृष्टा प्रश्नविषयीकृता शोकश्चानन्दश्च शोकानन्दौ तयोर्मध्यवर्तिनी ससंभ्रमं सादरं यथा
स्यात्तथोत्थाय कृतं पादवन्दनं चरणनमस्कृतिर्यया सैवंविधा प्रत्यवादीत्प्रत्यब्रवीत् । हे भगवन्कपिञ्जल, अहमे-
वंविधाऽपुण्यवती या भवन्तमपि त्वामपि न प्रत्यभिजानामि नोपलक्षयामि । अथ मध्यनात्मज्ञायामात्मज्ञान-
वर्जितायामीदृशी संभावना युक्तैव न्याय्यैव या महाश्वेताह मेकान्तत एव व्यामोहोऽज्ञानं तेन हता पीडिता स्वर्ग
गतेऽपि देवलोकं प्राप्तेऽपि देवे पूज्ये पुण्डरीके जीवामि प्राणिमि । तदिति हेत्वर्थे । कथय प्रतिपादय केन
पुंसासौ पुण्डरीक उत्क्षिप्योत्थाप्य जीतः । किमर्थ वा किंप्रयोजनं वा नीतः । किं वास्य पुण्डरीकस्य वृत्तं चरि-
त्रम् । क्व कुत्र वर्तते । तव भवतः किं वोपजातं किं जज्ञे, येनैतावतापि कालेनानेहसा वार्तापि किंवदन्त्यपि
न दत्ता । कुतो वा कस्मात्प्रदेशाद्वा त्वमेकाक्यसहायो देवेन पुण्डरीकेण विना समागतोऽत्रायातः ।
 
स तु कपिजलो महाश्वेतयैवं पृष्टो नियोजित उपरि चोपरि चोपर्युपरि पतितुं शीलं यस्य स तेनेत्युभयोविं-
शेषणम् । विस्मयेनाश्चर्येणोदूर्ध्वं मुखमाननं यस्यैवंभूतेन कादम्बरीपरिजनेन गन्धर्व पुत्रीपरिच्छदेन चन्द्रापीड
मनुगच्छतीत्येवंशीलेन राजपुत्रलोकेन च वीक्ष्यमाणो विलोक्यमानः प्रत्यवादीत्प्रत्यब्रवीत् । हे गन्धर्वराजपुत्रि,
 
टिप्प० - 1 लुप्तबुद्धिष्टीकाकार: । पर्याकुलत्वे अलब्धलक्ष्यत्वं स्वत एवेति, 'अपि' पदस्य न स्वार-
स्यम् । तस्मात् 'आबद्धलक्ष्यया ( लक्ष्यं प्रति व्यापारितया )' इत्येव पाठः ।
 
४ ससंभ्रमाकुलम्.
पाठा० -१ आताम्रायताभ्याम्. २ बद्धलक्षया. ३ जन्मान्तरागत; जन्मान्तरगतः
८ एकान्ते, ९ इव १० वार्तामपि न दत्तवानसि
५ प्रमाणा. ६ त्वयाप्यात्मनः कारणादेवं संभाविता, ७ अथवा,
११ कुतोऽपि, १२ एवागतोऽसीति,