2023-12-26 05:57:43 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६२८
 
कादम्बरी ।
 
[^१]प्रत्ययार्थमा ज्ञाशापक्षयादास्ताम् । नैतदग्निना [^२]संस्कर्तव्यम् । [^३]नोदके प्रक्षेप्तव्यम् । नापि वा
समुत्स्रष्टव्यम् । यत्नतः परिपा- लनीयमा समागमप्राप्तेः' इति । तां तु श्रुत्वा किमेतदिति
[^४]वि- स्मिताक्षिप्तहृदयः सर्व [^५]एव परिजनो गगनतलनिवेशित निर्नि- मेष [^६]लोचनो लिखित इव पत्र-
लेखावर्जमतिष्ठत् । पत्रलेखा तु तेन तस्य ज्योतिषस्तुषारशीतले नाहाह्ला
हेतुना स्पर्शेन लब्ध-
संज्ञो- त्थायाssऽऽविष्टेव वेगाद्धावित्वा पॅ[^७]परिषद्कबद्धहस्तादाच्छिद्येन्द्रायुधम् [^८]'अस्मद्विधानां यथा
तथा भवतु, त्वं पुनरेवमेकाकिनि विना वाहनं दूरं प्रस्थिते देवे क्षणमध्यवस्थातुं न शोभंसे'
इत्यभिदधाना तेनैवेन्द्रायुधेन सहात्मानमच्छोदसरस्यक्षिपत् ।
 
[ कथायाम्-
B
 

 
अथ तयोर्निमज्जनसमयानन्तरमेव तस्मा [^९]त्सरसः सलिलाच्छै-
वलोत्करमिव शिरसि लमं
ग्नं गलज्जल बिन्दु संदोह मँ[^१०]मयथालम्बि- दीर्घशिखं मुखोपरि परस्परासक्तेरसंस्कारम लिनतया चोपै-
[^११]प-
सूचित चिरोर्ध्वबन्धं जटाकलापमुद्वहन्, जलार्द्रदेहासक्तेन बिस- तन्तुमयेनेव ब्रह्मसूत्रेणोद्भास-
मानः, [^१२]म्लानौना [^१२]रविन्दनील- पलाशपृष्ठ [^१४]पाण्डुरेण जीर्णमन्दारवल्कलेनाबद्धपरिकरः, करेणानना-

 
[ टि ]--
पक्षयाच्छापक्षयं मर्यादी कृत्यात्रैवास्मिन्नेव स्थल भरतां तिष्ठतु । एतच्छरीरमन्ग्निना वहिह्निना न संस्कर्तव्यं न संस्कारः
कार्यः, नोदके जले प्रक्षेप्तव्यं प्रक्षेपः कार्यः, नापि वा समुत्स्रष्टव्यं त्यजनी- यम् । आसमागमप्राप्तेर्यावत्संगमं यत्नतः
परिपालनीयम् । महोद्य- मेन रक्षणीयमित्यर्थः । तां तु पूर्वोक्तां वाणीं श्रुत्वाकर्ण्य किमेतदिति विस्मितेन विस्मये-
नाक्षिप्तहृदयश्चमत्कृतचेताः सर्व एव परिजनो गगनतले निवेशिते स्थापिते निर्निमेषैषे निमेषोन्मेषरहिते लोचने

नेत्रे येन सः । अत एव लिखित इव चित्रित इव पत्रलेखां वर्जयिलात्वा- तिष्ठत् । पत्रलेखा तु तेन तस्य ज्योति-
षस्तुषारवद्धिमवच्छीतलेनाहा- ह्लादहेतुना प्रमोदकारकेण स्पर्शेन संश्लेषेण लब्धसंज्ञा प्राप्तचैत- न्योत्थायोत्थानं कृत्वा
विष्टेव भूतग्रस्तेव वेगाज्जवाद्धावित्वा धावनं कृत्वा परिबद्धकहस्तादश्वपालककरादिन्द्रायुधमाच्छिद्य बलाद्गृ- हीत्वा-
प्यस्मद्विधानामस्मत्सदृशानां यथा तथा भवतु । त्वं पुन- [^1]रेका किनि विना वाहनं यानं विना दूरं प्रस्थिते चलिते
देवे क्षणमपि समयमात्रमप्यवस्थातुमवस्थितिं कर्तुं न शोभसे न शोभां प्राप्नोषीत्यभिदधानेति ब्रुवाणा तेनैवे-
न्द्रायुधेन सहात्मानं स्वमच्छोद- सरस्येवाक्षिपच्चिक्षेप ।
 

 
अथेति । अच्छोदसरसि पातानन्तरं तयोः पत्रलेखातुरङ्गमयोर्निम-
ज्जनसमयो ब्रुडनकालस्तस्मादनन्तरं
पश्चादेव तस्मात्सरसस्तटा- कस्य सलिलादम्भसखापसकुमारको मुनिबालकः सहसैवैकपद एवोदतिष्ठदुत्थितो
बभूव । किं कुर्वन् । जटाकलापं सटासमूहमुद्व- हन्धारयन् । कृष्णत्वसाम्यादुत्प्रेक्षते - शिरसि मस्तके लग्नं
विलग्नं शैवलोत्करमिव शैवालसमूहमिव गलत्क्षरज्जलबिन्दूनां संदोहो यस्मिन्स तथा । न यथास्थानमालम्बत
इत्येवंशीलं तत्तथा, दीर्घायता शिखा चूडा यस्य तत्तथा । मुखस्य वदनस्योपर्युपरिष्टात्परमन्योन्य- मासक्तेः
संश्लेषाद संस्कारेण केशमार्जनाभावेन मलिनतया चोप- सूचितो ज्ञापितश्चिरकालीन ऊर्ध्वबन्धो यस्य तत्तथा ।
पुनः कीदृशः । ब्रह्मसूत्रेण यज्ञोपवीतेनोद्भासमान उत्प्राबल्येन शोभमानः । कीदृ- शेन ब्रह्मसूत्रेण । जलेनाम्भसा
र्द्रं उन्नो देहः शरीरं तत्रासक्तेन संब- द्धेन । अत एवोत्प्रेक्षते-बिसतन्तुमयेनेव तन्तुलतन्तुनिष्पन्नेव । पुनः कीदृक् ।
जीर्णं चिरकालीनं यन्मन्दारस्य वल्कलं चोच्चं तेनाबद्धः परिकरो येन सः । कीदृशेन । [^2]म्लानान्यविन्दानि
 

 
[^1]F. विना वाहनम्, एकाकिनि देवे दूरं प्रस्थिते सति, इत्यन्वयः ।
[^2]F. अम्लानमित्येवोचितम् ।
 
[^१]G. संप्रत्ययार्थम्.
[^२]G. संस्कार्यम्.
[^३]G. उदके वा क्षेप्तव्यमुत्स्रष्टव्यं प्रयत्नतः.
[^४]G. विस्मय.
[^५]G. एव गगन.
[^
]G. दृष्टयः.
 
टिप्प० - 1 विना वाहनम्, एकाकिनि देवे दूरं प्रस्थिते सति, इत्यन्वयः । 2 अम्लानमित्येवोचितम् ।
पाठा० •१ संप्रत्ययार्थम्. २ संस्कार्यम्. ३ उदके वा क्षेप्तव्यमुत्स्रष्टव्यं प्रयत्नतः ४ विस्मय ५ एव गगन.

[^
]G. परिवर्धक.
[^
]G. अस्मिन्विध्यतां यथा ते तथा त्वं पुनरप्पेयेवमेकाकिनि देवे विना वाहनं दूरं प्रस्थिते क्षण-
मध्यवस्थातुं न शोभस इत्यभिदधाना तेनैव; अस्मद्विधा तु यथा त्वं पुनरेवमेकाकी विना वाहनं दूरं प्रस्थिते देवे क्षण-
मपि न तिष्ठन्ञ्शोभस इत्यभिदधाने तेनैव.
[^
]G. सरःसलिलात्.
[^
१०]G. अयथातथालम्बि .
[^
११]G. उद्भासमान: .
[^
१२]G. अम्लान,
.
[^
१३]G. अरविन्दिनीपलाश, .
[^
१४]G. पाण्डुना.