कादम्बरी /661
This page has not been fully proofread.
६२८
कादम्बरी ।
प्रत्ययार्थमा ज्ञापक्षयादास्ताम् । नैतदग्निना संस्कर्तव्यम् । नोदके प्रक्षेप्तव्यम् । नापि वा
समुत्स्रष्टव्यम् । यत्नतः परिपालनीयमा समागमप्राप्तेः' इति । तां तु श्रुत्वा किमेतदिति
विस्मिताक्षिप्तहृदयः सर्व ऐव परिजनो गगनतलनिवेशित निर्निमेषलोचनो लिखित इव पत्र-
लेखावर्जमतिष्ठत् । पत्रलेखा तु तेन तस्य ज्योतिषस्तुषारशीतले नाहाद
हेतुना स्पर्शेन लब्ध-
संज्ञोत्थायाssविष्टेव वेगाद्धावित्वा पॅरिषद्कहस्तादाच्छिद्येन्द्रायुधम् 'अस्मद्विधानां यथा
तथा भवतु, त्वं पुनरेवमेकाकिनि विना वाहनं दूरं प्रस्थिते देवे क्षणमध्यवस्थातुं न शोभंसे'
इत्यभिदधाना तेनैवेन्द्रायुधेन सहात्मानमच्छोदसरस्यक्षिपत् ।
[ कथायाम्-
B
अथ तयोर्निमज्जनसमयानन्तरमेव तस्मात्सरसः सलिलाच्छैवलोत्करमिव शिरसि लमं
गलज्जल बिन्दु संदोह मँयथालम्बिदीर्घशिखं मुखोपरि परस्परासक्तेरसंस्कारम लिनतया चोपै-
सूचित चिरोर्ध्वबन्धं जटाकलापमुहन्, जलार्द्रदेहासक्तेन बिसतन्तुमयेनेव ब्रह्मसूत्रेणोद्भास-
मानः, म्लानौरविन्दनीलपलाशपृष्ठपाण्डुरेण जीर्णमन्दारवल्कलेनाबद्धपरिकरः, करेणानना-
पक्षयाच्छापक्षयं मर्यादी कृत्यात्रैवास्मिन्नेव स्थल भरतां तिष्ठतु । एतच्छरीरमन्निना वहिना न संस्कर्तव्यं न संस्कारः
कार्यः, नोदके जले प्रक्षेप्तव्यं प्रक्षेपः कार्यः, नापि वा समुत्स्रष्टव्यं त्यजनीयम् । आसमागमप्राप्तेर्यावत्संगमं यत्नतः
परिपालनीयम् । महोद्यमेन रक्षणीयमित्यर्थः । तां तु पूर्वोक्तां वाणीं श्रुत्वाकर्ण्य किमेतदिति विस्मितेन विस्मये-
नाक्षिप्तहृदयश्चमत्कृतचेताः सर्व एव परिजनो गगनतले निवेशिते स्थापिते निर्निमेषै निमेषोन्मेषरहिते लोचने
नेत्रे येन सः । अत एव लिखित इव चित्रित इव पत्रलेखां वर्जयिलातिष्ठत् । पत्रलेखा तु तेन तस्य ज्योति-
षस्तुषारवद्धिमवच्छीतलेनाहादहेतुना प्रमोदकारकेण स्पर्शेन संश्लेषेण लब्धसंज्ञा प्राप्तचैतन्योत्थायोत्थानं कृत्वा
विष्टेव भूतग्रस्तेव वेगाज्जवाद्धावित्वा धावनं कृत्वा परिबद्धकहस्तादश्वपालककरादिन्द्रायुधमाच्छिय बलाद्गृहीत्वा-
प्यस्मद्विधानामस्मत्सदृशानां यथा तथा भवतु । त्वं पुनरेका किनि विना वाहनं यानं विना दूरं प्रस्थिते चलिते
देवे क्षणमपि समयमात्रमप्यवस्थातुमवस्थितिं कर्तुं न शोभसे न शोभां प्राप्नोषीत्यभिदधानेति ब्रुवाणा तेनैवे-
न्द्रायुधेन सहात्मानं स्वमच्छोदसरस्येवाक्षिपच्चिक्षेप ।
अथेति । अच्छोदसरसि पातानन्तरं तयोः पत्रलेखातुरङ्गमयोर्निमज्जनसमयो ब्रुडनकालस्तस्मादनन्तरं
पश्चादेव तस्मात्सरसस्तटाकस्य सलिलादम्भसखापसकुमारको मुनिबालकः सहसैवैकपद एवोदतिष्ठदुत्थितो
बभूव । किं कुर्वन् । जटाकलापं सटासमूहमुद्वहन्धारयन् । कृष्णत्वसाम्यादुत्प्रेक्षते - शिरसि मस्तके लग्नं
विलग्नं शैवलोत्करमिव शैवालसमूहमिव गलत्क्षरज्जलबिन्दूनां संदोहो यस्मिन्स तथा । न यथास्थानमालम्बत
इत्येवंशीलं तत्तथा, दीर्घायता शिखा चूडा यस्य तत्तथा । मुखस्य वदनस्योपर्युपरिष्टात्परमन्योन्यमासक्तेः
संश्लेषाद संस्कारेण केशमार्जनाभावेन मलिनतया चोपसूचितो ज्ञापितश्चिरकालीन ऊर्ध्वबन्धो यस्य तत्तथा ।
पुनः कीदृशः । ब्रह्मसूत्रेण यज्ञोपवीतेनोद्भासमान उत्प्राबल्येन शोभमानः । कीदृशेन ब्रह्मसूत्रेण । जलेनाम्भसाई
उन्नो देहः शरीरं तत्रासक्तेन संबद्धेन । अत एवोत्प्रेक्षते-बिसतन्तुमयेनेव तन्तुलतन्तुनिष्पन्नेव । पुनः कीदृक् ।
जीर्णं चिरकालीनं यन्मन्दारस्य वल्कलं चोचं तेनाबद्धः परिकरो येन सः । कीदृशेन । म्लानान्य र विन्दानि
६ दृष्टयः.
टिप्प० - 1 विना वाहनम्, एकाकिनि देवे दूरं प्रस्थिते सति, इत्यन्वयः । 2 अम्लानमित्येवोचितम् ।
पाठा० •१ संप्रत्ययार्थम्. २ संस्कार्यम्. ३ उदके वा क्षेप्तव्यमुत्स्रष्टव्यं प्रयत्नतः ४ विस्मय ५ एव गगन.
७ परिवर्धक. ८ अस्मिन्विध्यतां यथा ते तथा त्वं पुनरप्पेवमेकाकिनि देवे विना वाहनं दूरं प्रस्थिते क्षण-
मध्यवस्थातुं न शोभस इत्यभिदधाना तेनैव; अस्मद्विधा तु यथा त्वं पुनरेवमेकाकी विना वाहनं दूरं प्रस्थिते देवे क्षण-
मपि न तिष्ठन्शोभस इत्यभिदधाने तेनैव. ९ सरःसलिलात्. १० अयथातथालम्बि ११ उद्भासमान: १२ अम्लान,
१३ अरविन्दिनीपलाश, १४ पाण्डुना.