This page has not been fully proofread.

आकाशवाण्या कादम्बर्याः सान्त्वनम् ] उत्तरभागः ।
 
६२७
 
न्तरसमागमाय' इत्यभिधायोत्पद्यमानपुलककेसरोद्भासिनी, असमसाध्वसानिलाहता, उत्क-
म्पोत्तरङ्ग्यमाणा, आनन्दबाष्प वेगोर्मितरला, संगलत्स्वेदमकरन्दबिन्दुनिस्यन्दिनी, मुकुलाय-
माननयनकुमुदा कुमुदिनीव चन्द्रापीडचन्द्रास्तमय विधुरा, तदवस्थेऽपि हृदयवल्लभे समागम-
सुखमिवानुभवन्ती सरभसमुपरि पर्यस्तचिकुरहस्तोद्वान्तकुसुमनिवहेन मूर्ध्नार्चयित्वा चन्द्रा-
पीडचरणौ स्रवत्स्वेदामृतार्द्राभ्यां केराभ्यामुत्क्षिप्याङ्केन धृतवती ।
 

 
अथ तत्करस्पर्शेनोसत इव चन्द्रापीडदेहाज्झटिति तुहिनमयमिव संकलमेव तं प्रदेशं
कुर्वाणमव्यक्तरूपं किमपि चन्द्रधवलं ज्योतिरिवोजगाम अनन्तरं चान्तरिक्ष क्षरन्तीवामृ-
तमशरीरिणी वागश्रूयत — 'वत्से महाश्वेते, पुनरपि त्वं मयैव समाश्वासितव्या वर्तसे ।
तेत्ते पुण्डरीकशरीर मल्लोके मत्तेजसाप्याय्यमानमविनाशि भूयस्त्वत्समागमनाय तिष्ठत्येव ।
इदमपरं मत्तेजोमयं स्वत एवाविनाशि विशेषतोऽमुना कादम्बरीकरस्पर्शेनाप्याय्यमानं चन्द्रा-
पीडशरीरं शापदोषाद्विमुक्तमध्येन्तरात्मना कृतशरीरसंक्रान्तेयोंगिन इव शरीरमत्रैव भवत्योः
 
भवान्तरे समागमाय मेलापकाय प्रियसखी मामन्त्रये निमन्त्रये । इत्यभिधायेत्युक्त्वोत्पद्यमानः संजायमानो
यः पुलको रोमाञ्चः स एव केसरं कुङ्कुमं तेनोद्भासिनी शोभमानाऽसमं विषमं यत्साध्वसं भयं तस्मादनिलः
श्वासप्रवृद्धिस्तेनाहता ताडिता, उत्कम्पेनोत्तरयमाणो मौनयमाना, आनन्दबाष्पजेगोमिं भिईर्षाथुरंह स्तरंगेस्तरला
चञ्चला, सम्यक्प्रकारेण गलन्स्खेदो घर्मजलं स एव मकरन्दबिन्दुस्तस्य निस्यन्दिनी क्षरणशीला मुकुलायमाने
संकोचं प्राप्यमाणे नयने एव कुमुदे यस्याः सा कुमुदिनीव कैरविणीव चन्द्रापीड इव चन्द्रः शशाङ्कस्तस्यास्त
मयोऽस्तमनं तेन विधुरा दुःखिला । 'विधुरं प्रेत्यभावे स्यात्कष्टविश्लेषयोरपि' इति विश्वः । तदवस्थेऽपि तादृशरू-
पेपि हृदयवल्लभे प्राणप्रिये समागमसुखमिव मेलापकसातमिवानुभवन्ती साक्षात्कुर्वन्ती सरभसमुपरि पर्यस्तो निप
तितो यश्चिकुरहस्तः केशकलापस्तस्मादुद्वान्तः कुसुमानां पुष्पाणां निवहो येनैवंविधेन मूर्ध्ना शिरसा चन्द्रापीडस्य
चरणौ पादावर्चयित्वा पूजां कृत्वा स्रवन्क्षरन्यः स्वेद एवामृतद्रवस्तेनार्द्राभ्यामुन्नाभ्यां कराभ्यामुत्क्षिप्योत्थाप्या-
ङ्केन क्रोडेन घृतक्ती धारितवती । अथेति चरणन्यसनानन्तरं तस्याः कादम्बर्या: करस्पर्शेन पाणिसंश्लेषेणो-
च्छुसत इव उज्जीवत इव चन्द्रापीडदेहाज्झटिति शीघ्रं सकलमेव समग्रमेव तं प्रदेशं तुहिनमयमिव हिम-
निर्मितमिव कुर्वाणं विदधानमव्यक्तरूपमप्रकटस्वरूपं चन्द्रवद्धवलं शुभ्रं ज्योतिस्तेज इवोजगाम प्रादुर्बभूव ।
 
अनन्तरं तदनन्तरं चान्तरिक्ष आकाशेऽमृतं पीयूषं क्षरन्तीव सवन्तीवाशरीरिणी वाग्वाण्यश्रूयताकत ।
एतदेव स्पष्टीकुर्वनाह-वत्ले इति । हे वत्से हे पुत्रि महाश्वेते, पुनरपि त्वं मयैव समाश्वासितव्याश्वासनां कारितव्या
वर्तसे । तत्ते तव पुण्डरीकशरीरं मल्होके मत्तेजसा मद्धाम्नाप्याध्यमानं शीतलीक्रियमाणमत एवाविनाश्य विनश्वरं
भूयः पुनरपि त्वया सह समागमो मेला पस्तस्मै तिष्ठत्येव । इदमपरमन्यन्मत्तेजसा निष्पन्नं मत्तेजोमयमतः स्वत
एव स्वभावत एवाविनाश्यविनश्वरं विशेषतः कादम्बरीकरस्पर्शनाप्याय्यमानं शीतलीक्रियमाणं चन्द्रापीडशरीरं
शापदोषाद्विमुक्तमपि रहितमप्यन्तरात्मना मध्यवर्तिना जीवेन कृता विहिता शरीरे देहान्तरे संक्रान्तिः संक्र-
मणं तस्य योगिन इव आपरमाणुवेदिनो योगिनस्तस्येव भवत्योर्महाश्वेता कादम्बर्योः प्रत्ययार्थं विश्वासार्थमाशा-
टिप्प० - 1 'कुमुदिनीव' इति उपमानुरोधेन 'नयने कुमुदे इव' इत्युपमितसमास एवोचितः ।
2 'चन्द्रापीडश्चन्द्र इव' इत्युचितम् । 3 आत्मना कृता शरीरे ( अपरस्य पुरुषस्य शरीरे ) संक्रान्तिः
प्रवेशो येन तस्य, अन्यस्मिन् शरीरे कृतप्रवेशस्य योगिनः पूर्वशरीरं यथा तिष्ठति तथेत्याशयः ।
 
पाठा० ---१ उत्पुज्यमान २ हस्ताभ्याम् ३ समुच्छ्रसित ४ सकलमपि ५ कुर्वत. ६ एद.
८ समाश्वासिता, ९ पुण्डरीक० १० समागमाय, ११ चन्द्रापीडस्य शरीरम्. १२ आत्मना.
 
७ अन्तरिक्ष.
 
1