This page has not been fully proofread.

शूद्रकस्नानम् ]
 
पूर्वभागः ।
 
३३
 

 
हंसमारुरोह । ततस्ताः काश्चिन्मरकत केलशप्रभाश्यामायमाना नलिन्य इव मूर्तिमत्यः
पत्रपुटैः काश्चिद्रजत कलशहस्ता रजन्य इव पूर्णचन्द्रमण्डल विनिर्गतेन ज्योत्स्नाप्रवाहेण,
कश्चित्कलशोत्क्षेपश्रमस्वेदार्द्रशरीरा जलदेवता इव स्फाटिकैः कलशैस्तीर्थजलेन, काश्चिन्म-
लयसरित इव चन्दनरसमिश्रेण सलिलेन, काश्चिदुत्क्षिप्त कलशपार्श्वविन्यस्तहस्त पल्लवाः प्रकी-
र्यमांणनखमयूखजालकाः प्रत्यङ्गुलिविवर विनिर्गतजलधाराः सलिलयत्रदेवता इव, काश्चि
ज्जाड्यमपनेतुमाक्षिप्तबालातपेनेव दिवसश्रिय इव कनककलशहस्ताः कुङ्कुमजलेन वाराङ्गना
यथायथं राजानमभिषिषिचुः । अनन्तरमुदपादि च रैफोटयन्निव श्रुतिपथमनेकप्रहतपटु-
रोहति । तत इति । आरोहणानन्तरं ता वारयोषितो यथायथं यथायोग्यं राजानमभिषिषिचुरभिषेकं चक्रुः । इतौं
वारयोषितो विशेषयन्नाह -काश्चिदिति । काश्चित् काश्चन मरकतमणिनिर्मितो यः कलशः कुम्भस्तस्य प्रभा कान्ति-
•स्तया श्यामायमानाः श्यामवदाचरिताः नलिन्य इव पद्मिन्य इव मूर्तिमत्यो नीलत्वसाम्यात्तद्रूपधारिण्यः पत्रपुटैः
पर्णसंपुटै: राजानमभित्रिषिचुरिति सर्वत्र । अन्याः काश्चन रजतस्य रूप्यस्य कलशः कुम्भो हस्ते पाणौ यासां
तास्तथा । का इव ! पूर्णचन्द्रमण्डलात्समग्रशशिबिम्बाद्विनिर्गतेन निःसृतेन ज्योत्स्नाप्रवाहेण कौमुदीरयेण शोभमाना
रजन्य इव त्रियामा इव । अन्याः काश्चन कलशस्य कुम्भस्य चोत्क्षेप उत्पाटनं तस्माद्यः श्रमस्तेन यः खेदो
धर्मजलं तेनार्द्रं स्विन्नं शरीरं देहो यासां ताः स्फाटिकैः स्फटिकसंबन्धिभिः कलशैस्तीर्थजलेन तीर्थाम्भसा च
सहिता जलदेवता जलाधिष्ठात्र्य इव । काश्चिदिति । अन्याः काश्चन चन्दनस्य मलयजस्य रसो द्रवस्तेन मिश्रण
संयुक्तेन सलिलेन स्नानं चक्रुः । का इव । मलयसरित इव मलयाचलनद्य इव । ता अपि चन्दनरसमिश्रसलिला:
स्युः । काश्चिदिति । अन्याः काश्चनोत्क्षिप्त उत्पाटितो यः कलशस्तस्य पार्श्वयोर्वामदक्षिणयोर्विन्यस्ताः स्थापिता
हस्तपढ़वा: करकिसलयानि याभिस्ताः, प्रकीर्यमाणानीतस्ततो विक्षिप्यमाणानि नखमयूखजालकानि पुनर्भवदीप्तिचया
याभिस्ताः । प्रत्यञ्जलि प्रतिकरशाखं यानि विवराणि छिद्राणि तेभ्यो विनिर्गता जलधारा पानीयसंततिर्यासां ताः ।
का इष । सलिलयन्त्रदेवता इव । ता अप्येवंविधाः स्युरित्यर्थः । काश्चिदिति । अन्याः काश्चन कनकस्य सुवर्णस्य
कलशो हस्ते यासां ताः । का इव । दिवसत्रिय इव वासरलक्ष्मीरिव । केनेव । जाड्यं शीतमपनेतुं दूरी कर्तुमाक्षिप्त
आकर्षितो यो बालातपो नव्यालोकरतेनेव कुङ्कुमजलेन केसरवारिणा । अत्र कुङ्कुमजलबालातपयोरुपमानोपमेयभावः ।
अन्वयस्तु प्रागेवोक्तः । अनन्तरमिति । अभिषेकानन्तरं स्नानशङ्खानां ध्वनिः शब्द उदपायुत्पन्नोऽभूत् । 'पद
गतौ' इत्यस्य लुङि रूपम्। किं कुर्वन्निव । श्रुतिपथं कर्णेमार्ग स्फोटयन्निव द्विधा कुर्वन्निव । पुनः कीदृक् ।
 

 
टिप्प० -- 1 जलदेवता इव काश्चित स्फाटिकैः कलशैः ( स्फटिककलशद्वारा ) तीर्थजलेन अभिषि-
पितुः, तीर्थजलाभिषेकं चक्रुरित्यर्थ उचितः । 2 कारयामासुरित्याशयः । 3 करनखेभ्यः कान्तिकिरणा-
स्तथा निरगच्छन् यथा जलयन्नदेवतानाम् (जलनिर्झरणार्थं निर्मितयन्नपुत्तलिकानाम् ) हस्ताङ्गुलिविव-
रेभ्यो जलधारा एव मन्ये निष्पतन्तीत्युत्प्रेक्षाशयः ।
 
पाठा०
 
^१ काश्चन. २ शकल. ३ क्रमेण ४ आस्फोटयन्निव.