कादम्बरी /658
This page has not been fully proofread.
कादम्बर्या विलापः ]
उत्तरभागः ।
६२५
पुत्रकस्य मे भवनाङ्गणे सहकारपोतस्य त्वया मञ्चिन्तयैव माधवीलतया सहोद्वाहमङ्गलं स्वय
मेव निर्वर्तनीयम् । मञ्चरणतललालितैस्याशोकविटपस्य कर्णपूरार्थमपि न पलॅवः खण्डनीयः ।
मत्संवर्तिताया मालयाः कुसुमानि देवतार्चनायैवोच्चेयानि । वासभवने मे शिरोभागनिहितः
कामदेवपटः पाटनीयः । मया स्वयं रोपित वृक्षा यथा फलं गृह्णन्ति तथा संवर्धनीयाः ।
पञ्जरबन्धदुःखाइसकी कालिन्दी सारिका शुकश्च परिहासो द्वावपि मोक्तव्यौ । मदकशा-
यिनी नकुलिका स्वाक एव शाययितव्या । पुत्रको मे बालहरिणस्तरलकः काश्चित्तपोवने
समर्पणीयः । पाणितलसंवर्धित मे जीवंजीव मिथुनं क्रीडापर्वते यथा न विपद्यते तथा कर्त-
व्यम् । पादसहसंचारी हंसको यथा न हन्यते केनचित्तथा विधेयैः । अपरिचित गृह वैसतिः
सा च बलाद्विधृता तपस्विनी वनमानुषी वन एवोत्स्रष्टव्या । क्रीडापर्वतकः कस्मैचिदुप-
शान्ताय तपस्विने प्रतिपादयितव्यः । शरीरोपकरणानि मे ब्राह्मणेभ्यः प्रतिपादनीयानि ।
वीणा पुनरात्मन एवाकप्रणयिनी कार्या। अपरमपि यत्ते रोचते तदपि स्वीकर्तव्यम् । अहं
।
लेखा तथा करिष्यसीत्यर्थः । मे मम पुत्रकस्य भवनाङ्गणे सहकारपोतस्य त्वया भवत्या मच्चिन्तयैव मम चिन्तयैव
माधवीलत्यातिमुक्तकलतया सहोद्वाहमङ्गलं विवाह कल्याणं खयमेवात्मनैव निर्वर्तनीयं करणीयम् । 'आम्रचूतो
रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । मञ्चरणयोर्मंदमयो स्तलमधोभागस्तेन लालितस्य पालितस्याशोकविट-
पस्य ककेल्लिवृक्षस्य कर्णपूरार्थमपि श्रवणभूषणार्थमपि न पलवः किसलयः खण्डनीयश्छेदनीयः । मत्संवर्धि-
ताया मयैव वृद्धिं नीताया मालत्या जात्याः कुसुमानि पुष्पाणि देवतार्चनायैव देवपूजार्थमेवोच्चयानि ग्राह्याणि ।
वासभवने निवाससद्मनि मे मम शिरोभागे मस्तकप्रदेशे निहितः स्थापितः कामदेवपटः पाटनीयः खण्डशः
कार्य: । मया स्वयमात्मना रोपिता उप्ताश्तवृक्षा आम्रवृक्षा यथा फलं गृह्णन्ति तथा संवर्धनीया वृद्धिं प्राप-
णीयाः । पञ्जरबन्धदुःखाद्वराक्यनाथा कालिन्दीनाम्नी सारिका पीतपादा शुकश्च परिहासाख्यो द्वावपि
मोक्तव्यौ मोचनीयौ । मदकशायिनी मदीयकोडशयनकारिणी नकुलिका पिङ्गलिका खाक एक स्वकीय क्रोड
एव शाययितव्या शयनं कारयितव्या । मे मम पुत्रकस्तरलकञ्चञ्चलो बालहरिणः शिशुकुरङ्गः कस्मिंश्चित्तपो-
वने मुनिस्थाने समर्पणीयः प्रदातव्यः । मे मम पाणितलेन करतलेन संवर्धितं वृद्धिं प्रापितं जीवंजी व कमि -
थुनं विषदर्शनमृत्युकयुग्मं चकोरयुगल क्रीडापर्वते यथा न विपद्यते विलयं न याति तथा कर्तव्यं तथा
विधेयम् । पादाभ्यां सहसंचारी हंसको यथा केनचिन्न हन्यते न व्यापाद्यते तथा विधेयः कर्तव्यः ।
अपरिचिता' गृहवसतिः सौधावस्थानं ययैवंविधा तपस्विनी वराकी वनमानुषी बलाद्धठाद्विष्ठता गृहीता सा
च वन एवोत्स्रष्टव्या मोच्या । क्रीडापर्वतकः 'पवयी' इति प्राकृतलोके । कस्मैचिदनिर्दिष्टनाम्न उपशान्ताय
शीतलप्रकृतये तपस्विने मुनीश्वराय प्रतिपादयितव्यः प्रदातव्यः । शरीरस्य देहस्य मे ममोपकरणानि
ब्राह्मणेभ्यो विप्रेभ्यः प्रतिपादनीयानि दातव्यानि । वीणा वलकी पुनरात्मनः स्वस्यैवाङ्के प्रणयः स्नेहो यस्याः
सैवंविधा कार्या । अपरमप्यन्यदपि यद्वस्तु ते तव रोचते रुचिविषयीभवति तदपि वस्तु स्वीकर्तव्यमङ्गी-
कार्यम् । अहं कादम्बरी पुनरिममात्मानमेतैः शीतलवस्तुभिः कृत्वा दग्धैशेषं ज्वलितोर्वरितमुज्वला
टिप्प० -- 1 न प्रसङ्गः सम्यक् । अत एव – 'मञ्चितया' (मत्पालितया ) इति पाठः । 2 पुष्पिती-
कृतस्य 'पादाघातादशोक : ० ' इति । 3 प्रियषियोगावस्थायां शीतलैरव्येभिर्वस्तुभिर्मम शरीरमदात,
दग्धशेषमेव तच्छरीरं संप्रति चितानले निर्वापयामीत्याशयः ।
पाठा०
- १ इव. २ निवर्तनीयम् ३ बालाशोक. ४ पलवलवः ५ वृक्षकाः ६ कचित् ७ जीवंजीवक.
८ क्रीडापर्वतके, ९ कार्यम्. १० चारी. ११ विधेयम्. १२ वसति तपस्विनी बलाद्धृता; निवासा बलाद्विधृता तप-
स्विनी• १३ सर्वाण्येव ब्राह्मणसात्कर्तव्यानि १४ कर्तव्या.
७९ का०
a