2023-12-29 17:41:06 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
६२४
कादम्बरी
[ कथायाम -
1
१
,
मात्रेण लघुघूकृत्य पातयामि । कथं स्वर्गगमनोन्मुखस्य देवस्य रुदि- तेनामङ्गलं करोमि । कथं
वा पादधूलिरिव पादावनुगन्तुमुद्यता हर्ष- स्थानेऽपि रोदिमि । किं मे दुःखमेवंविधम् । अधुना
तु मे सर्व दुःखान्येव दूरीभूतानि । किमद्यापि रुद्यते । यदर्थथं कुलकक्रमो न गणितः, गुरबो
वो नापेक्षिताः, धर्मो नानुरुद्धः, [^१]जनवादान्न भीतम्, लज्जा परित्यक्ता, मदनोपचारैः सखीजन:
खेदितः, दुःखिता मे प्रियसखी महाश्वेता, तस्याः कृते प्रतिज्ञातमन्यथा जातं मे[^२]मयेत्ये- तदपि
वेतसि न कृतम्, तस्मिन्मदर्थमेवोज्झितप्राणे प्राणेश्वरे, प्राणा- न्प्रतिपालयन्ती त्वयैवं किमु-
काक्ताहम् । [^३]अस्मिन्समये मैर[^४]मर- णमेव जीवितम् । जीवितं पुनर्भरणम् । तद्यदि ममोपरि स्नेहं
करो- षि मत्प्रियं हितं वा तै, [^५]तन्ममोपरि स्नेहाबद्धयापि प्रियसख्या तथा कर्तव्यं यथा न
तातोऽम्बा [^६]च मच्छोकादात्मानं परित्यजतः, यथा च मयि, वैच्[^७]वाञ्छितं मनोरथं त्वयि पूर-
यतः, [^८]परलोक- गताया अपि मे जलाञ्जलिदानाय पुत्रकस्त्वयिभवः । यथा [^९]च मे सखीजनः
परिजनो वा न स्मरति, शून्यं वा मै [^१०]मद्भवनमालोक्य न दिशो गृह्णन्ति तथा करिष्यसि ।
9
१
[ टि ]-- ममात्मानमश्रुपातमात्रेण नेत्राम्बुनिर्गमनेन तत्किमिति किमर्थं लघूंघूकृत्य पातयामि । स्वर्गगमन उन्मुखस्याभि
मुखस्य देवस्य चन्द्रापीडस्य रुदिना श्रुपातेन कथममङ्गलमशिवं करोमि । पादधूलिरिव चरणरज इव पादाव-
नु॑नुगन्तुमुद्यता कथं वा हर्षस्थाने रोदिमि रुदनं करोमि एवंविधं किं मे दुःखम् । अधुना तु मे मम सर्वदुःखा-
न्येव दूरीभूतानि । मिकिमद्यापि मया रुचते । यदर्थं यत्कृते कुलकक्रमोऽन्वयस्थितिर्न गणितो नापेक्षितः । गुरवो
हिताहित प्राप्ति- परिहारोपवे देष्टारो नापेक्षिता न समीहिताः । धर्मो नानुरुद्धो न निय- न्त्रितः । जनवादात्कौली नान
न्न भीतं न त्रस्तम् । 'स्यात्कौलीनं लोक- वादे' इत्यमरः । लज्जा त्रपा परित्यक्ता मुक्ता । मदनोपचारैः कामोपशम -
मक्रियाभिः सखीजनः खेदितः खेदं प्रापितः । दुःखिता पीडिता मे मम प्रियसखी महाश्वेता । तस्या महाश्वे-
तायाः कृते प्रतिज्ञातमङ्गीकृतं तदन्यथा वैपरीत्येन जातं मयेत्येतदपि चेतसि न कृतम् । मदर्थथं कादम्बर्या एवो-
ज्झितप्राणे व्यक्तजीविते तस्मिंश्चन्द्रा- पीडाख्ये प्राणेश्वरे प्राणानसून्प्रतिपालयन्ती रे[^1]रक्षन्ती त्वयैवं भवत्या किमु
क्ताहं किं भणिता । अस्मिन्समये सांप्रतकाले मरण- मेव जीवितं प्राणत्यागमेव [^2]प्राणितम् । जीवितं पुनर्मरणं प्राण-
त्यागः । त्रपाजनकत्वात् । तद्यदि ममोपरि स्नेहं प्रीतिं मत्प्रियं मद्व-
ल्लभं हितमा यतिसुन्दरं वा त्वं करोषि विद-
धासि त [^3]न्मम कादम्बर्या उपरि यः स्नेहः प्रेम तेनाबद्धया संदानितयापि प्रिय- सख्या वल्लभवयस्या ( स्यया )
तथा कर्तव्यं तथा विधेयं यथा तातश्चित्ररथोऽम्बा मदिरा च मच्छोकान्मद्विरहजनितदुःखादात्मानं न परि-
त्यजतः प्राणमोक्षणं न कुरुतः । यथा मयि वाञ्छितं मनोरथ- मभिलषितं कामं त्वयि पूरयतः परिपूर्णांकुरुतः ।
परलोकगताया अन्यभवं प्राप्ताया अपि मे मम जलाञ्जलिदानाय मृतस्य पानीयप्र-
दाना [^4]यायं पुत्रकस्त्वयि भवः ।
यथा च मे मम सखीजनः परि- जनो वा परिच्छदलोको वा दुःखाभिभूतो मृभृत्यजनो न स्मरति न स्मृतिगोचरी -
करोति । शून्यं रिक्तं वा मद्भवनं मद्गृहमालोक्य निरीक्ष्य दिशो न गृह्णन्ति । अन्यत्र न यान्तीत्यर्थः । त्वं समद-
टिप्प० -
[ ^1]F. मदलेखया प्राणांस्त्यजन्ती एवमुक्ता, न तु प्रतिपालयन्ती । अत एव 'स्वयैव किं वक्ष्ये-
ऽहम्' इत्येव पाठः ।
[^2]F. नीचैर्दत्ते पाठान्तरेऽपि सहृदयैवैर्देया दृष्टिः ।
[^3]F. तन्ममोपरीत्यस्याssब्ऽऽम्रेडनं दृष्ट्वा
पाठान्तरमनुसंधेयम् ।
[^4]F. 'अयम्' कः ? अत एव नीचैः पाठान्तरमेव सम्यक् ।
पाठा० ---
[^१]G. जनापवादात्.
[^२ मम ]G. मम.
[^३]G. अस्मिंस्तु.
[^४]G. मरणमेव श्रेयो न जीवितं मे सर्वप्रकारलज्जाकरं तु जीवितं
न पुनर्भरणम्.
[^५]G. तन्मदीयमप्यात्मनि स्नेहमारोप्य.
[^६]G. वा.
[^७]G. अवाञ्छितम् .
[^८]G. येन परलोकगताया अपि मे जलाअ-
ञ्जलिदायी पुत्रको भविष्यति .
[^९]G. वापि .
[^१०]G. भवनम्.
•