This page has not been fully proofread.

६२४
 
कादम्बरी
 
[ कथायाम -
 
1
 

 
,
 
मात्रेण लघुकृत्य पातयामि । कथं स्वर्गगमनोन्मुखस्य देवस्य रुदितेनामङ्गलं करोमि । कथं
वा पादधूलिरिव पादावनुगन्तुमुद्यता हर्षस्थानेऽपि रोदिमि । किं मे दुःखमेवंविधम् । अधुना
तु मे सर्वदुःखान्येव दूरीभूतानि । किमद्यापि रुद्यते । यदर्थ कुलकमो न गणितः, गुरबो
नापेक्षिताः, धर्मो नानुरुद्धः, जनवादान्न भीतम्, लज्जा परित्यक्ता, मदनोपचारैः सखीजन:
खेदितः, दुःखिता मे प्रियसखी महाश्वेता, तस्याः कृते प्रतिज्ञातमन्यथा जातं मेयेत्येतदपि
वेतसि न कृतम्, तस्मिन्मदर्थमेवोज्झितप्राणे प्राणेश्वरे, प्राणान्प्रतिपालयन्ती त्वयैवं किमु-
काहम् । अस्मिन्समये मैरणमेव जीवितम् । जीवितं पुनर्भरणम् । तद्यदि ममोपरि स्नेहं
करोषि मत्प्रियं हितं वा तैन्ममोपरि स्नेहाबद्धयापि प्रियसख्या तथा कर्तव्यं यथा न
तातोऽम्बा च मच्छोकादात्मानं परित्यजतः यथा च मयि, वैच्छितं मनोरथं त्वयि पूर-
यतः, परलोकगताया अपि मे जलाञ्जलिदानाय पुत्रकस्त्वयिभवः । यथा च मे सखीजनः
परिजनो वा न स्मरति, शून्यं वा मैद्भवनमालोक्य न दिशो गृह्णन्ति तथा करिष्यसि ।
 
9
 

 
ममात्मानमश्रुपातमात्रेण नेत्राम्बुनिर्गमनेन तत्किमिति किमर्थं लघूंकृत्य पातयामि । स्वर्गगमन उन्मुखस्याभि
मुखस्य देवस्य चन्द्रापीडस्य रुदिना श्रुपातेन कथममङ्गलमशिवं करोमि । पादधूलिरिव चरणरज इव पादाव-
नु॑गन्तुमुद्यता कथं वा हर्षस्थाने रोदिमि रुदनं करोमि एवंविधं किं मे दुःखम् । अधुना तु मे मम सर्वदुःखा-
न्येव दूरीभूतानि । मिद्यापि मया रुचते । यदर्थं यत्कृते कुलकमोऽन्वयस्थितिर्न गणितो नापेक्षितः । गुरवो
हिताहित प्राप्तिपरिहारोपवे रो नापेक्षिता न समीहिताः । धर्मो नानुरुद्धो न नियन्त्रितः । जनवादात्कौली नान
भीतं न त्रस्तम् । 'स्यात्कौलीनं लोकवादे' इत्यमरः । लज्जा त्रपा परित्यक्ता मुक्ता । मदनोपचारैः कामोपशम -
मक्रियाभिः सखीजनः खेदितः खेदं प्रापितः । दुःखिता पीडिता मे मम प्रियसखी महाश्वेता । तस्या महाश्वे-
तायाः कृते प्रतिज्ञातमङ्गीकृतं तदन्यथा वैपरीयेन जातं मयेत्येतदपि चेतसि न कृतम् । मदर्थ कादम्बर्या एवो-
ज्झितप्राणे व्यक्तजीविते तस्मिंश्चन्द्रापीडाख्ये प्राणेश्वरे प्राणानसून्प्रतिपालयन्ती रेक्षन्ती त्वयैवं भवत्या किमु
क्ताहं किं भणिता । अस्मिन्समये सांप्रतकाले मरणमेव जीवितं प्राणत्यागमेव प्राणितम् । जीवितं पुनर्मरणं प्राण-
त्यागः । त्रपाजनकत्वात् । तद्यदि ममोपरि स्नेहं प्रीतिं मत्प्रियं मलभं हितमा यतिसुन्दरं वा त्वं करोषि विद-
धासि तन्मम कादम्बर्या उपरि यः स्नेहः प्रेम तेनाबद्धया संदानितयापि प्रियसख्या वल्लभवयस्या ( स्यया )
तथा कर्तव्यं तथा विधेयं यथा तातश्चित्ररथोऽम्बा मदिरा च मच्छोकान्मद्विरहजनितदुःखादात्मानं न परि-
त्यजतः प्राणमोक्षणं न कुरुतः । यथा मयि वाञ्छितं मनोरथमभिलषितं कामं त्वयि पूरयतः परिपूर्णांकुरुतः ।
परलोकगताया अन्यभवं प्राप्ताया अपि मे मम जलाञ्जलिदानाय मृतस्य पानीयप्रदानायायं पुत्रकस्त्वयि भवः ।
यथा च मे मम सखीजनः परिजनो वा परिच्छदलोको वा दुःखाभिभूतो मृत्यजनो न स्मरति न स्मृतिगोचरी -
करोति । शून्यं रिक्तं वा मद्भवनं मद्गृहमालोक्य निरीक्ष्य दिशो न गृह्णन्ति । अन्यत्र न यान्तीत्यर्थः । त्वं सद-
टिप्प० - 1 मदलेखया प्राणांस्त्यजन्ती एवमुक्ता, न तु प्रतिपालयन्ती । अत एव 'स्वयैव किं वक्ष्ये-
ऽहम्' इत्येव पाठः । 2 नीचैर्दत्ते पाठान्तरेऽपि सहृदयैवैया दृष्टिः । 3 तन्ममोपरीत्यस्याssब्रेडनं दृष्ट्वा
पाठान्तरमनुसंधेयम् । 4 'अयम्' कः ? अत एव नीचैः पाठान्तरमेव सम्यक् ।
 
पाठा० ---१ जनापवादात्. २ मम ३ अस्मिंस्तु. ४ मरणमेव श्रेयो न जीवितं मे सर्वप्रकारलज्जाकरं तु जीवितं
न पुनर्भरणम्. ५ तन्मदीयमप्यात्मनि स्नेहमारोप्य. ६ वा. ७ अवाञ्छितम् ८ येन परलोकगताया अपि मे जलाअ-
लिदायी पुत्रको भविष्यति ९ वापि १० भवनम्.