2023-12-29 17:56:21 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
अनुमरणार्थं विलाप: ]
उत्तरभागः ।
६२३
,
बिम्बेव पौर्णमासी निशा, निशितपरशुपातोत्कम्पिनी लतेव वेपिता- धरकिसलया, लिखितेव
स्त्रीस्वभाष वविरुद्धेन चेतसा तस्थौ । तथा[^१]तथ वस्थितां च तामुन्मुक्तार्तनादा सपादपतनं मदले-
खाब्रवीत् – 'प्रियसखि, प्रसीद्द । उ [^२]त्सृजेमं मन्युसंभारमरटै [^३]टन्ती । बाष्पमोक्षेणामुच्यमा-
नेऽस्मिन्नियत भ[^४]मतिभारोत्पीडितं तटाक- मिव [^५]सरसमृदु नियतं सहस्रधा स्फुटति ते [^६]हृदयमित्य-
पेक्षस्व देवीं मदिरां देवं च चित्ररथम् । त्वया विना कुलद्वयमपि नास्ति' इत्युक्तवतीं मद
लेखां कादम्बरी विहस्यात्ब्रवीत्
-
-
[^७]'अय्यु [^८]न्मत्तिके, कुतोऽस्य मे वज्रसारकठिनस्य हतहृद-
यस्य स्फुटनमम्, ये[^९]यन्नालोक्यैव
वं सहस्रधा स्फुटितम् । अपि च या जीवति तस्याः सर्वमिदम्, माता पिता बन्धुरात्मा
सख्यः परिजन इति । मया पुनर्क्रियमाणया जीवितभूतं कथंकथमपि समासादित- मिदं प्रिय-
तमशरीरं यज्जीवदजीवद्वा संभोगेनानुमरणेन वा द्विधापि सर्वदुःखानामेवोपशान्तये । तत्कि-
मिति देवेनागच्छता मदर्थथं प्राणां- श्चोत्सृजता सुदूरमारोपितं गुरुतां च नीतमात्मानमश्रुपात-
[ टि ]-- अक्षिणी चक्षुषी यया सा तथा शुचा श्यामं क्रोधेनारुणं रक्तमाननं मुखं यस्याः सा तथा । केव । ग्रहेण राहुणा
राहुग्रासे- नोपरक्तमिन्दुबिम्बं चन्द्रमण्डलं यस्यामेवंविधा पौर्णमासीनिशेव । निशितस्तीक्ष्णो यः परशुः कुठार-
स्तस्य पातः पतनं तेनोत्कम्पितुं शीलं यस्याः सा तथैतादृशी लतेव वल्लीव । वेपितः कम्पितोऽधर- किसलय
ओष्ठपल्लवो यस्याः सा तथा । लिखितेव चित्रितेव स्त्री- स्वभावश्चञ्चलप्रकृतिस्तस्या विरुद्धेन स्थैर्येण चेतसा चित्तेन
तस्था- वित्यन्वयस्तु पूर्वमेवोक्तः । तथावस्थितां तेन प्रकारेणासेदुषीं च तां कादम्बरीमुन्मुक्त आर्तनादः करुण-
ध्वनिर्यया सैवंभूता मदलेखा सपादपतनं यथा स्यात्तथाब्रवीदवोचत् । किं तकिदित्याह - प्रियेति ।
हे प्रियसखि,
प्रसीद प्रसन्ना भव । इमं मन्युसंभारमुत्सृज त्यज । किं कुर्वन्ती । अरटन्ती रुदनमविदधती । बाष्पमोक्षेण
कृत्वास्मिन्मन्यु- भारेऽमुच्यमानेऽतिभारेणातिवीवधेनोत्पीडितं दुःखितं सरसं च तन्मृदु च सरसमृदु । रसोपयुक्तं
सुकुमारं चेत्यर्थः । तटाकमिव कासार इव नियतं निश्चितं ते तव हृदयं भुजान्तरं सहस्रधा स्फुटति । भवि-
•ष्यद्वर्तमाना । स्फुटिष्यतीत्यर्थः । तटाकमपि रसः पानीयं तेन स्रुतं मृदु च स्यादिति तदुपमाजनम् । 'रसो जलं
रसो हर्षः' इति कोषः । [^1]इति हेतोः । अवेक्षखस्व विलोकय । देवीं मदिरां निज- जननीं देवं च चित्ररथं स्वजन-
कम् । त्वया विना कुलद्वयमपि मातृ- पक्षः पितृपक्षश्च नास्ति न विद्यते । इत्युक्तवती मिति निवेदितवतीं मदलेखां
कादम्बरी विहस्य स्मितं कृत्वाब्रवीत् ।
2
अयि उन्मत्तिके, मे ममास्य वज्रस्य पवेः सारं मध्यं तद्वत्कठिनस्य कठोरस्य हतहृदयस्य कुतः स्फुटनं द्वैधी-
भावो यन्नैवमालोक्य निरीक्ष्य सहस्रधा स्फुटितम् । अपि चेति युक्त्यन्तरे । या जीवति प्राणिति तस्याः स्त्रियो
माता जननी, पिता जनकः, बन्धुः स्वजनः, आत्मा जीवः सख्यो वयस्याः, परिजनः परिच्छद इति सर्वमिदं
स्यात् । मया पुनः कादम्बर्या म्रियमाणया प्राणान्परित्यजन्त्या कथं कथमपि इदं प्रियतमशरीरं जीवितभूतं
प्राणभूतं समासादितं प्राप्तं यज्जीवद्वाऽजीवद्वा संभोगेन मैथुनेनानुमरणेन वा सहगमनेन द्विधा- प्युभयप्रकारेणापि
सर्वदुःखानामेव समग्रकृच्छ्राणामेवोपशान्तये निवृत्तये । मदर्थं मत्कृते देवेन चन्द्रापीडेनाऽऽगच्छताऽऽगमनं कुर्वता
प्राणांश्चासूंश्चोत्सृजता परित्यजता सुदूरमत्युच्चैरारोपितमा- रोहणं कारितम् । गुरुतां च नीतं महत्त्वं च प्रापितम् ।
टिप्प० -
[^1]F. 'इति' पदं विरूपमेवान । 'स्फुटति ते हृदयमिदम् । अपेक्षस्व ....' इत्येव पाठः ।
पाठा० -
[^१ ता]G. तथास्थितां तु.
[^२]G. एनम् .
[^३]G. आरटन्ती; अनारटन्ती, .
[^४]G. अतिजलभार, .
[^५]G. मृदुसरसम् .
[^६]G. हृदय
मिदम्, .
[^७]G. अपि.
[^८]G. उन्मत्तके, .
[^९]G. आलोक्यैव यन्न.