This page has not been fully proofread.

अनुमरणार्थं विलाप: ]
 
उत्तरभागः ।
 
६२३
 
,
 
बिम्बेव पौर्णमासी निशा, निशितपरशुपातोत्कम्पिनी लतेव वेपिताधरकिसलया, लिखितेव
स्त्रीस्वभाष विरुद्धेन चेतसा तस्थौ । तथावस्थितां च तामुन्मुक्तार्तनादा सपादपतनं मदले-
खाब्रवीत् – 'प्रियसखि, प्रसीद् । उत्सृजेमं मन्युसंभारमरटैन्ती । बाष्पमोक्षेणामुच्यमा-
नेऽस्मिन्नियत भतिभारोत्पीडितं तटाकमिव सरसमृदु नियतं सहस्रधा स्फुटति ते हृदयमित्य-
पेक्षस्व देवीं मदिरां देवं च चित्ररथम् । त्वया विना कुलद्वयमपि नास्ति' इत्युक्तवतीं मद
लेखां कादम्बरी विहस्यात्रवीत्
-
 
'अय्युमत्तिके, कुतोऽस्य मे वज्रसारकठिनस्य हतहृदयस्य स्फुटनम, येनालोक्यैव
सहस्रधा स्फुटितम् । अपि च या जीवति तस्याः सर्वमिदम्, माता पिता बन्धुरात्मा
सख्यः परिजन इति । मया पुनर्क्रियमाणया जीवितभूतं कथंकथमपि समासादितमिदं प्रिय-
तमशरीरं यज्जीवदजीवा संभोगेनानुमरणेन वा द्विधापि सर्वदुःखानामेवोपशान्तये । तत्कि-
मिति देवेनागच्छता मदर्थ प्राणांचोत्सृजता सुदूरमारोपितं गुरुतां च नीतमात्मानमश्रुपात-
अक्षिणी चक्षुषी यया सा तथा शुचा श्यामं क्रोधेनारुणं रक्तमाननं मुखं यस्याः सा तथा । केव । ग्रहेण राहुणा
राहुग्रासेनोपरक्तमिन्दुबिम्बं चन्द्रमण्डलं यस्यामेवंविधा पौर्णमासीनिशेव । निशितस्तीक्ष्णो यः परशुः कुठार-
स्तस्य पातः पतनं तेनोत्कम्पितुं शीलं यस्याः सा तथैतादृशी लतेव वल्लीव । वेपितः कम्पितोऽधरकिसलय
ओष्ठपल्लवो यस्याः सा तथा । लिखितेव चित्रितेव स्त्रीस्वभावश्चञ्चलप्रकृतिस्तस्या विरुद्धेन स्थैर्येण चेतसा चित्तेन
तस्थावित्यन्वयस्तु पूर्वमेवोक्तः । तथावस्थितां तेन प्रकारेणासेदुषीं च तां कादम्बरीमुन्मुक्त आर्तनादः करुण-
ध्वनिर्यया सैवंभूता मदलेखा सपादपतनं यथा स्यात्तथाब्रवीदवोचत् । किं तकिया - प्रियेति । हे प्रियसखि,
प्रसीद प्रसन्ना भव । इमं मन्युसंभारमुत्सृज त्यज । किं कुर्वन्ती । अरटन्ती रुदनमविदधती । बाष्पमोक्षेण
कृत्वास्मिन्मन्युभारेऽमुच्यमानेऽतिभारेणातिवीवनोत्पीडितं दुःखितं सरसं च तन्मृदु च सरसमृदु । रसोपयुक्तं
सुकुमारं चेत्यर्थः । तटाकमिव कासार इव नियतं निश्चितं ते तव हृदयं भुजान्तरं सहस्रधा स्फुटति । भवि-
•ष्यद्वर्तमाना । स्फुटिष्यतीत्यर्थः । तटाकमपि रसः पानीयं तेन स्रुतं मृदु च स्यादिति तदुपमाजम् । 'रसो जलं
रसो हर्षः' इति कोषः । इति हेतोः । अवेक्षख विलोकय । देवीं मदिरां निजजननीं देवं च चित्ररथं स्वजन-
कम् । त्वया विना कुलद्वयमपि मातृपक्षः पितृपक्षश्च नास्ति न विद्यते । इत्युक्तवती मिति निवेदितवतीं मदलेखां
कादम्बरी विहस्य स्मितं कृत्वाब्रवीत् ।
 
2
 
अयि उन्मत्तिके, मे ममास्य वज्रस्य पवेः सारं मध्यं तद्वत्कठिनस्य कठोरस्य हतहृदयस्य कुतः स्फुटनं द्वैधी-
भावो यन्नैवमालोक्य निरीक्ष्य सहस्रधा स्फुटितम् । अपि चेति युक्त्यन्तरे । या जीवति प्राणिति तस्याः स्त्रियो
माता जननी, पिता जनकः, बन्धुः स्वजनः, आत्मा जीवः सख्यो वयस्याः, परिजनः परिच्छद इति सर्वमिदं
स्यात् । मया पुनः कादम्बर्या म्रियमाणया प्राणान्परित्यजन्त्या कथं कथमपि इदं प्रियतमशरीरं जीवितभूतं
प्राणभूतं समासादितं प्राप्तं यज्जीवद्वाऽजीवद्वा संभोगेन मैथुनेनानुमरणेन वा सहगमनेन द्विधाप्युभयप्रकारेणापि
सर्वदुःखानामेव समग्रकृच्छ्राणामेवोपशान्तये निवृत्तये । मदर्थं मत्कृते देवेन चन्द्रापीडेनाऽऽगच्छताऽऽगमनं कुर्वता
प्राणांश्चासूंश्चोत्सृजता परित्यजता सुदूरमत्युच्चैरारोपितमारोहणं कारितम् । गुरुतां च नीतं महत्त्वं च प्रापितम् ।
 
टिप्प० - 1 'इति' पदं विरूपमेवान । 'स्फुटति ते हृदयमिदम् । अपेक्षस्व ....' इत्येव पाठः ।
 
पाठा० - १ तास्थितां तु. २ एनम् ३ आरटन्ती; अनारटन्ती, ४ अतिजलभार, ५ मृदुसरसम् ६ हृदय
मिदम्, ७ अपि. ८ उन्मत्तके, ९ आलोक्यैव यन्न.