This page has not been fully proofread.

7
 
६२२
 
कादम्बरी ।
 
[ कथायाम्-
स्थाम् । अन्यथा यदि मदर्थे दुःखमेवमियमनुभवतीत्येतंदस्याभविष्यत्तदा तथा गमनमेव
नाकरिष्यत् । तैथागतोऽप्यसौ यत्किमपि वक्तव्यस्त्वयैव । मया पुनर्दृष्टोऽपि नालपितव्यो
नोपालब्धव्यो न चरणपतितस्याप्यनुनयो ग्राह्यो नाहं प्रियसंख्यां प्रसादनीया' इत्यभिधा-
नैवाचेतितागमनखेदा कादम्बरी चन्द्रापीडदर्शनायोत्ताम्यन्ती तत्रैवाजगाम ।
 
,
 
आगम्य चोद्धृतामृतमिव रत्नाकरम् इन्दुविरहितमिव निशाप्रबन्धम् अस्तमितताराग-
णमिव गगनम्, ॲपचितकुसुमशोभमिवोपवनम्, उत्खातकर्णिकमिव कमलम्, उत्खण्डिता-
सुरमिव मृणालम्, अवलुप्ततरलमिव हारम्, उन्मुक्तजीवितं चेन्द्र पीडमद्राक्षीत् । दृष्ट्वा च तं
सहसा 'हा किमिदम्' इत्यधोमुखी धरातलमुपयान्ती कथंकथमपि मुक्ताक्रन्दया मदलेखया-
धार्यत । पत्रलेखा पुनरुन्मुच्य कादम्बरीकरतलमचेतना क्षितिमुपागमत् । चिरौच लब्धसं-
ज्ञापि कादम्बरी तथैव मूढेव निश्चलस्तब्धदृष्टिर विष्टेव, स्तम्भितेव, निष्प्रयत्ना, निःश्वसितुमपि
विस्मृता, अन्तर्मन्युभारनिष्पन्देव चन्द्रा पीडवदनसमर्पिताक्षी, श्यामारुणाननां ग्रहोपरक्तेन्दु-
9
 
,
 
मरणेऽपि मे ममेमामवस्थां न श्रद्दधात्येव न चेतस्यमबुध्यते । अन्यथोक्तविपर्यये । यदि मदर्थे चन्द्रापीडनि-
मित्तमेवेयं कादम्बरी दुःखमनुभवानुभवविषयीकरोतीत्येतदस्य चन्द्रापीडस्या भविष्यत्तदा तथा गमनमेव ताह-
शगमनमेव नाकरिष्यत् । तथागतोऽपि तेन प्रकारेणागतोऽप्यसौ चन्द्रापीडो यत्किमपि त्वयैव भवत्यैव वक्तव्यो
मंया पुनर्दृष्टोऽपि निरीक्षितोऽपि नालपितव्यो न संभावितव्यः । नोपालब्धव्यो नोपालम्भो दातव्यः । चरण-
पतितस्यापि पादप्रणतस्यानुनयः प्रणामो न ग्राह्यो न ग्रहीतव्यः । नाहं प्रियसख्या वल्लभवयस्यया प्रसादनीया
प्रसन्नीकार्यां । इत्यभिदधानैवेतिब्रुवाणैवाऽचेतितागमनखेदाऽज्ञातागमनसादा कादम्बरी चन्द्रापीडस्य दर्शनाय
वीक्षणायोत्ताम्यन्त्युत्प्राबल्येन खेदं कुर्वन्ती तत्रैव महाश्वेताश्रमं आजगाम ।
 
आगम्य चागमनं कृत्वैव चोन्मुक्तजीवितं त्यक्त प्राणितं चन्द्रापीडमद्राक्षीयलोकयत् । कः कमिवेत्यपेक्षाया-
माह-उद्धृतेति । उद्धृतं गृहीतममृतं पीयूषं यस्मादेवंभूतं रत्नाकरमिव समुद्रमिव । इन्दुना चन्द्रेण विरहितं वियुक्तं
निशाप्रबन्धमिव रात्रिसंबन्धमिव । अस्तमितोऽस्तं प्राप्तस्ताराणां नक्षत्राणां गणो यस्मिन्नेतादृशं गगनमिव व्योमेव
अपचिता दूरीकता कुसुमशोभा पुष्पलक्ष्मीर्यस्मादेवंभूतमुपवनमिवाराममिव । उत्खाता नोटिता कर्णिका बीजकोशो
यस्मादेतादृशं क्रमलमिव पद्ममिव । उत्खण्डिता उच्छेदिता अङ्कुरा अङ्करा यस्यैवंविधं मृणालं कमलमिव । अव
लुप्तो दूरीकृतस्तरलो मध्यमणिर्यस्मादेतादृशं हारमिव मुक्ताकलापमिव । 'तरलश्चञ्चले खड्ङ्गे हारमध्यमणावपि' इति
विश्वः । चन्द्रापीडमद्राक्षीदित्यन्वयंस्तु पूर्वोक्त एव । दृष्ट्वा च तं चन्द्रापीडं सहसैकपदे । हा इति खेदे किमिदमि-
त्यधोमुखी नीचैर्मुखी धरातलं पृथ्व्यास्तलमुपयान्ती गच्छन्ती कथंकथमपि महता कष्टेन मुक्ताकन्दयापि विहित -
फूत्कृत्यापि मदलेखयाधार्यत धृता । पत्रलेखा पुनः कादम्बरीकर तलमुन्मुच्य व्यक्त्वा क्षितिं वसुधामुपागमत्प्रा-
तवती । चिराच बहुकालेन लब्धा प्राप्ता संज्ञा चेतना यया सैवंभूतापि कादम्बरी तथैव तस्थाविति दूरेणान्वयः ।
विशेषयन्नाह – मूढेति । मूढेव मूर्च्छितेव निश्चला निमेषरहितात एव स्तब्धा दृष्टिर्यस्याः सा तथा ।
आविष्टेव भूतमस्तेव स्तम्भितेवावरुद्धेव । अत एव निष्प्रयत्ना (पि ) निरुद्यमा निःश्वसितुमपि निःश्वासं ग्रहीतुमपि
विस्मृता विष्णरणं गता । अन्तर्मन्युभारः शोकसंभारस्तेन निष्पन्देव निश्चेष्टेव चन्द्रापीडवदने समर्पिते दत्ते
 
टिप्प० ---1 'अन्यच्च' इत्येव पाठ : । 2 'एतदस्य चेतस्य भविष्यत्' इति पाठः । 3 अनुनयो मानवत्याः
प्रसादनम् । प्रणामार्थस्तु पुंगवत्वमेव ।
 
पाठा०- -१ अन्यच्च. २ अस्य चेतस्यभविष्यत् ३ तत्र गतः• ४ आगत्य ५ अवचित ६ फलकुसुम.
७ मृणालिनीम्. ८ तरलमणिम् ९ संक्रन्दया १० उपगता. ११ अचिरात्. १२ विस्मृत्यर्थ, १३ संदानिताक्षी.