2023-12-30 03:32:18 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बर्यास्तत्रागमनम् ]
 
उत्तरभागः ।
 
६२
महा [^
 
महा
]श्वेता दर्शनं मातापित्रोः पुरः प्रतिपन्न शृङ्गारवेषाभरणा,
रण [^२]न्नूपुरयुगेन मुखरमेखला [^३]दान्ना
रम्योज्ज्व [^४]ला- कल्पेन कल्पितानङ्गबल[^५] विभ्रान्तिना गृहीतसुरभिमाल्यानुले- पनपटवासाद्युपकरणेन
नातिबहुना परिजनेनानुगम्यमाना, पुरः केयूरकेणोपदि [^६]श्यमानमार्गा, पत्रलेखास्तावलम्बिनी,
मद
मद- लेखया सह कृतालापा- 'मदलेखे, पत्रलेखा कथयति [^७]प्रत्य- मईमहं पुनस्तस्यैकान्त निहुष्ठुरहृद-
यस्य शठमतेर्नि [^८]र्घृणमनसो निःस्पृहागमनमेव न श्रद्धे । किं न स्मरसि तत्तस्य मदवस्थाम-

श्रद्दधानस्य हिमगृह के मं[^९]मद्धितविमर्शाय दुर्विदग्धबुद्धेर्वक्रभा- षितम्, यत्र सस्मितमालोकितया
त्वयैवास्मै सुतरामेवाँ वा [^१०]संश-
यकारि प्रत्युत्तरं दत्तम् । तदसौ मरणेऽपि मे न श्रद्दधात्येवेमांमव-
D
 
[^११]मा- मव-
 
[ टि ]--
तथा महोदधेः समुद्रस्य वेलेवाम्भसो वृद्धिरिव । सह मकरध्वजेन कामेन वर्तत इति समकर [^1]ध्वजा । मातापित्रोः

पुरो महाश्वेतादर्शनं व्याजीकृत्य मिषीकृत्य प्रतिपन्नेऽङ्गीकृते शृङ्गा- रवेषाभरणे उज्ज्वलनेपथ्यभूषणे यया सा
तथा । रणशब्दं कुर्वन्य- न्नूपुरयुगं [^2]पादकटकयुग्मं तेन मुखरं वाचालं यन्मेखलादाम
का बीञ्चीदाम तेन रम्यं
मनोहर
मुज्ज्वलं निर्मलं यदाकल्पं वेषस्तेन । 'आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्' इत्यमरः । कल्पिता घटि-
तानङ्गबलस्य कामसैन्यस्य विभ्रान्तिर्भ्रमो येन स तथा तेन । गृहीतान्यात्तानि सुरभिमाल्यानि सुगन्धस्रजोऽनुलेपनं
विलेपनम्, पटवासः पिष्टातः एते आदौ येषामेवंविधान्युपकरणानि येन स तथा तेन । नातिबहुना नातिभूयसा
परिजनेन परिच्छदेनानुगम्यमानानु- यायमाना। पुरोऽयेग्रे केयूरकेणोपदिश्यमानः प्रदर्श्यमानो मार्गः पन्था यस्याः
सा । पत्रलेखानाम्नी ताम्बूलकरण्डकवाहिनी तस्या हस्तं करमवलम्बतीत्येवंशीला मदलेखया सह कृतो विहित
आलापो या सा । तदेवाह - हे मदलेखे इति । हे मदलेखे, पत्रलेखा प्रत्यहं कथयति ब्रवीति । अहं पुनस्तस्य
चन्द्रापीडस्यैकान्तेन निष्ठुरं हृदयं यस्य शठा निकृता मतिः बुद्धिर्यस्य स तस्य निर्घृणं निर्दयं मनो यस्य स तथा
तस्य
तस्य [^3]निःस्पृहागमनमेव केवलमदर्थागमन- मेव न श्रद्दधे न मन्ये । त्वं तत्किं न स्मरसि न स्मृतिगोचरीकरोषि ।

तस्य चन्द्रापीडस्य मदवस्थां मदीयदशामश्रद्दधानस्यास्थामकुर्वाण- स्य हिमगृहके मद्धितै [^4]तविमर्शाय दुर्विदग्धबुद्धेर-
चतुरमतेर्वक्र- भाषितं वक्रोक्तिजल्पितं विर्मं [^5]र्मशय विचारय यत्र सस्मितं सहास्यं यथा स्यात्तथालोकितया निरीक्षि
तया त्वयैवास्मै चन्द्रा- पीडाय सुतरामेवात्यन्तमेवा संशयकारि अनारेकाकृत्प्रत्युत्तरं प्रति- वचो दत्तम् । तदसौ
 
टिप्प० -

 
[^
1]F. समुद्रवेला प्रकररूपेण ध्वजेन सहिता, कादम्बरी तु सकामा ।
[^
2]F. इमानि सर्वाणि
'परिजनेन' इत्यस्य विशेषणानि । अत एव 'रणत् नूपुरयुगं स्य' इत्यादिर्बहुव्रीहिः सर्वत्रोचितः । टीकाका-
र- पुंगवेन तु यत्कृतं तत्स्वानुरूपमेव ।
[^
3]F. हन्त ग्रन्थोपरि क्रकचधातः ! 'निस्पृहस्यागमनमेव' इति पाठः ।

[^
4]F. 'मद्विमर्शाय' इति पाठः । मम गवेषणाय 'अहं तदनुरागिणी अस्सि न चेमि न वेति' मद्विषयक निश्चयाय दुर्वि-
दग्धबुद्धेः शठमतेः (प्रयोजि- तकूटमतेरिति भावः) टीकाकारस्तु प्रणयकलहोपालम्भमविजानन् विस्वरं
प्रलपति ।
[^
5]F. वक्रभाषितं तल्कित्किं न स्मरसि ? इति संबन्धः । 'विमर्शय' इति तु निर्मूलः प्रलापः ।
[^
6]F. पाठ-
कमहाभागाः ! टीकाकृतष्टीका सेथं गङ्गाप्रवाहयोग्या, किमधिकं वच्मि । असंशयकृदुत्तरदानं शोभते किमु
विदग्ध- गोष्ठ्याम् ? 'संशयकारि' इत्येव पाठः । तत्र कविशिरोमणिना बागेणेन मदलेखाया द्व्यर्थतया संश-
यात्मकमेवोत्तरमुपनिबद्धम् - 'कुमारभावोपेतायाः किमिवास्या यत्र संतापाय' इत्यादि ।
 
पाठा०- •

 
[^
]G. कादम्बरीदर्शनम् .
[^
]G. नूपुरेण; नूपुरयुगा .
[^
]G. दामा.
[^
]G. वाससा.
[^
]G. विभ्रमेण .
[^
]G. अपदिश्यमान,
.
[^
]G. अन्यत्.
[^
]G. निर्घृणस्यागमनम्; निस्त्रिरिंशस्यागमनम्; नृशंसस्यागमनम् .
[^
]G. मद्विमर्शाय.
[^
१०]G. संशयकारि.
[^
११]G.वें
वेमावस्थाम् एवमवस्थाम्.