This page has not been fully proofread.

कादम्बर्यास्तत्रागमनम् ]
 
उत्तरभागः ।
 
६२१
 
महाश्वेता दर्शनं मातापित्रोः पुरः प्रतिपन्न शृङ्गारवेषाभरणा, रणन्नूपुरयुगेन मुखरमेखलादान्ना
रम्योज्वला कल्पेन कल्पितानङ्गबल विभ्रान्तिना गृहीतसुरभिमाल्यानुलेपनपटवासाद्युपकरणेन
नातिबहुना परिजनेनानुगम्यमाना, पुरः केयूरकेणोपदिश्यमानमार्गा, पत्रलेखाइस्तावलम्बिनी,
मदलेखया सह कृतालापा- 'मदलेखे, पत्रलेखा कथयति प्रत्यह मई पुनस्तस्यैकान्त निहुरहृद-
यस्य शठमतेर्निर्घृणमनसो निःस्पृहागमनमेव न श्रद्धे । किं न स्मरसि तत्तस्य मदवस्थाम-
श्रद्दधानस्य हिमगृह के मंद्धितविमर्शय दुर्विदग्धबुद्धेर्वकभाषितम्, यत्र सस्मितमालोकितया
त्वयैवास्मै सुतरामेवाँ संशयकारि प्रत्युत्तरं दत्तम् । तदसौ मरणेऽपि मे न श्रद्दधात्येवेमांमव-
D
 
तथा महोदधेः समुद्रस्य वेलेवाम्भसो वृद्धिरिव । सह मकरध्वजेन कामेन वर्तत इति समकरध्वजा । मातापित्रोः
पुरो महाश्वेतादर्शनं व्याजीकृत्य मिषीकृत्य प्रतिपन्नेऽङ्गीकृते शृङ्गारवेषाभरणे उज्वलनेपथ्यभूषणे यया सा
तथा । रणशब्दं कुर्वन्यन्नूपुरयुगं पादकटकयुग्मं तेन मुखरं वाचालं यन्मेखलादाम का बीदाम तेन रम्यं
मनोहर
मुज्वलं निर्मलं यदाकल्पं वेषस्तेन । 'आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्' इत्यमरः । कल्पिता घटि-
तानङ्गबलस्य कामसैन्यस्य विभ्रान्तिर्भमो येन स तथा तेन । गृहीतान्यात्तानि सुरभिमाल्यानि सुगन्धस्रजोऽनुलेपनं
विलेपनम्, पटवासः पिष्टातः एते आदौ येषामेवंविधान्युपकरणानि येन स तथा तेन । नातिबहुना नातिभूयसा
परिजनेन परिच्छदेनानुगम्यमानानुयायमाना। पुरोऽये केयूरकेणोपदिश्यमानः प्रदर्श्यमानो मार्गः पन्था यस्याः
सा । पत्रलेखानाम्नी ताम्बूलकरण्डकवाहिनी तस्या हस्तं करमवलम्बतीत्येवंशीला मदलेखया सह कृतो विहित
आलापो गया सा । तदेवाह - हे मदलेखे इति । हे मदलेखे, पत्रलेखा प्रत्यहं कथयति ब्रवीति । अहं पुनस्तस्य
चन्द्रापीडस्यैकान्तेन निष्ठुरं हृदयं यस्य शठा निकृता मतिः बुद्धिर्यस्य स तस्य निर्घृणं निर्दयं मनो यस्य स तथा
तस्य निःस्पृहागमनमेव केवलमदर्थागमनमेव न श्रद्दधे न मन्ये । त्वं तत्किं न स्मरसिन स्मृतिगोचरीकरोषि ।
तस्य चन्द्रापीडस्य मदवस्थां मदीयदशामश्रद्दधानस्यास्थामकुर्वाणस्य हिमगृहके मद्धितैविमर्शाय दुर्विदग्धबुद्धेर-
चतुरमतेर्वक्रभाषितं वक्रोक्तिजल्पितं विर्मंशय विचारय यत्र सस्मितं सहास्यं यथा स्यात्तथालोकितया निरीक्षि
तया त्वयैवास्मै चन्द्रापीडाय सुतरामेवात्यन्तमेवा संशयकारि अनारेकाकृत्प्रत्युत्तरं प्रतिवचो दत्तम् । तदसौ
 
टिप्प० - 1 समुद्रवेला प्रकररूपेण ध्वजेन सहिता, कादम्बरी तु सकामा । 2 इमानि सर्वाणि
'परिजनेन' इत्यस्य विशेषणानि । अत एव 'रणत् नूपुरयुगं वस्य' इत्यादिर्बहुव्रीहिः सर्वत्रोचितः । टीकाका-
रपुंगवेन तु यत्कृतं तत्स्वानुरूपमेव । 3 हन्त ग्रन्थोपरि ऋकचधातः ! 'निस्पृहस्यागमनमेव' इति पाठः ।
4 'मद्विमर्शाय' इति पाठः । मम गवेषणाय 'अहं तदनुरागिणी अस्सि न चेति' मद्विषयक निश्चयाय दुर्वि-
दग्धबुद्धेः शठमतेः (प्रयोजितकूटमतेरिति भावः) टीकाकारस्तु प्रणयकलहोपालम्भमविजानन् विस्वरं
प्रलपति । 5 वक्रभाषितं तल्कि न स्मरसि ? इति संबन्धः । 'विमर्शय' इति तु निर्मूलः प्रलापः । 6 पाठ-
कमहाभागाः ! टीकाकृतष्टीका सेथं गङ्गाप्रवाहयोग्या, किमधिकं वच्मि । असंशयकृदुत्तरदानं शोभते किमु
विदग्धगोष्ठयाम् ? 'संशयकारि' इत्येव पाठः । तत्र कविशिरोमणिना बागेन मदलेखाया द्वयर्थतया संश-
यात्मकमेवोत्तरमुपनिबद्धम् - 'कुमारभावोपेतायाः किमिवास्या यत्र संतापाय' इत्यादि ।
 
पाठा०- •१ कादम्बरीदर्शनम् २ नूपुरेण; नूपुरयुगा ३ दामा. ४ वाससा. ५ विभ्रमेण ६ अपदिश्यमान,
७ अन्यत्. ८ निर्घृणस्यागमनम्; निस्त्रिशस्यागमनम्; नृशंसस्यागमनम् ९ मद्विमर्शाय. १० संशयकारि. ११ एवें
मावस्थाम् एवमवस्थाम्.