कादम्बरी /653
This page has not been fully proofread.
६२०
कादम्बरी ।
[ कथायाम्-
समाधानम् ? अधुना धूर्धरे त्वयि विपन्ने कः समुद्रहतु देवेन तारापीडेनोढां धुरम् ? धीर-
स्थापि ते कथं कातरस्येव शुचा भिन्नं हृदयम् ? दयालोरपि ते केयमद्येदृशी जाता निर्दय
तास्मासु ? देव, प्रसीद सकृदण्याज्ञापय ? देहि भक्तजनस्याभ्यर्थनाम् । प्रतिपद्यस्व प्राणान् ।
न त्वया विना क्षणमपि प्राणिति पुत्रवत्सलो देवस्तारापीडः, न देवी विलासवती, नाण्यार्य:
शुकनासः, न मनोरमा, न राजानः, नापि प्रजाः । परित्यज्य च सर्वानेकाकी व प्रस्थि-
तोऽसि ? कुतस्तवेयमेकपद एवेदृशी निष्ठुरता जाता ? क्क सा गुरुजनस्योपरि भक्तिर्यदेव-
मनपेक्ष्य प्रयासि' इत्युक्तवत्यवनितल विमुक्तात्मन्यारटति परिजने, तदाकर्णनोत्कर्णे 'हा हा,
किमेतत् ईत्युद्धान्तमनसि समापतति राजपुत्रलोके, समुत्युतोत्पक्ष्मनयनदर्शिनि चन्द्रापी-
डबदन निवेशितदृशि दीनतरहेषारवकृताक्रन्दे शुचेव पर्यायोत्क्षिप्तखुरचतुष्काहतक्ष्मातले मुहु-
र्मुहुरात्मोन्मोचनायेवाच्छोटितख रखली न कनक शृङ्खलायोगे तुरंगमतां मुमुक्षतीवेन्द्रायुधे, पत्र-
लेखा निवेदित चन्द्रापी डागमना चन्द्रोदयोलासिनी वेलेव महोदधेः समकरध्वजा, व्याजीकृत्य
।
नम् । अधुना धूरे राज्यभारधरणक्षमे त्वयि भवति विपन्ने मृते देवेन तारापीडेनोढां धुरं कः समुद्रहतु को
दधातु । धीरस्यापि वीरस्यापि ते कथं कातरस्येव भीरोरिव शुचा शोकेन भिन्नं स्फुटितं हृदयं भुजान्तरम् । दया-
लोरपि कृपालोरपिते तव केयमद्येदृशी निर्दयता निष्करुणता जातोत्पन्नास्मासु सेवकजनेषु । हे देव, प्रसीद
प्रसन्नो भव । सकृदप्येकवारमप्याज्ञापयाज्ञां देहि । भक्तजनस्याभ्यर्थनां प्रार्थनां देहि वितर । प्रतिपद्यखाजीकुरुष्व
प्राणानसून् । त्वया विना भवद्वयतिरेकेण क्षणमपि समयमात्रमपि पुत्रवत्सलस्तारापीडो न प्राणिति । न जीव-
तीत्यर्थः । तथा देवी विलासवती न प्राणितीत्यस्य सर्वत्र संबन्धः । नाप्यार्यः पूज्यः शुक्नासः । न मनोरमा
शुकनासस्य स्त्री । नान्ये राजानः कियद्रामाधिपतयः । न प्रजाः प्रकृतयः परित्यज्य च विहाय च सर्वानिका -
क्यसहायः क्व प्रस्थितः क्व चलितोऽसि । कुतः कस्मात्तवेयमेकपद एव सहसैवेद्दशी निष्ठुरता कठिनता जाता ।
क्व साऽनिर्वचनीयस्वरूपा गुरुजनस्योपरि पूज्यलोकस्योपरि भक्तिराराध्यत्वेन ज्ञानं श्रद्धा वा । 'श्रद्धारचनयो•
र्भक्तिः' इत्यमरः । यद्यस्मादेवं ताननपेक्ष्यानादृत्य प्रयासीत्युक्तवत्य वनितले विमुक्तो न्यस्त आत्मा येन स
तस्मिन्नेवभूते परिजन आरत्याक्रन्दं कुर्वति सति । तस्याकर्णनं श्रवणं तेनोत्कर्ण ऊर्ध्वंकृतश्रवणे । हा हा इति
खेदे । किमेतदेतत्किमित्युद्भ्रान्तं व्याकुलं मनो यस्य स तस्मिन्नेवभूते राजपुत्रलोके समापतति समागच्छति सति ।
समुत्ते नम्रीभूते उत्पक्ष्मणी ययोरेवंभूताभ्यां नाभ्यां पश्यतीत्येवंशीलः स तथा तस्मिन् । चन्द्रापीडस्य
वदने मुखे निवेशिता स्थापिता हग्येन स तथा तस्मिन् । दीनतरं यथा स्यात्तथा हेषारवेण द्वेषाध्वनिना कृत आक्रन्दः
पूरकृतिर्येन स तथा तस्मिन् । शुचेव शोकेनेव पर्यायेणानुक्रमेणोत्क्षिप्तमुत्पाटितं यत्खरचतुष्कं तेन हतं क्षमातलं येन
• तस्मिन् । मुहुर्मुहुर्वारंवारमात्मनः स्वस्योन्मोचनाय मुक्तय इवाच्छोटितं खरं कठिनं खलीनं मुखयन्त्रणं कनक शृङ्ख-
लायोगो येन स तस्मिन् । 'कविका तु' खलीनोऽस्त्री' इत्यमरः । तुरंगमतामश्वतां मुमुक्षतीव मोक्तुमिच्छतीवेन्द्रा-
युधे । पत्रलेखया निवेदितं ज्ञापितमेकैम द्वितीयं चन्द्रापीडागमनं यस्याः सा । चंन्द्रोदयेनोल्लसतीत्येवंशीला सा
टिप्प० – 1 धन्यष्टीकाकारः । 'अवधेहि (अवधानेन शृणु) भक्तजनाभ्यर्थनाम्' इति पाठः । 2 ला
च्छोटितः संछिन्नः खरस्य खलीनस्थ कविकायाश्च शृङ्खलायोगो येन, इत्यर्थः । 3 अमूला सेयं व्याख्या ।
पाठा० - १ धीर त्वयि; धूर्धरे त्वयि २ शरीरम् ३ अस्मासु ते ४ अवधेहि ५ भक्तजनाभ्यर्थनाम्●
६ नार्यशुकनासः ७ अनपेक्ष्य. ८ तदाकर्ण्योत्कर्ण्य ९ उद्घान्ते राजपुत्रलोके. १० समुहलित.