कादम्बरी /652
This page has not been fully proofread.
I
वैशम्पा०मृत्युः, चन्द्रा० हृदयस्फोटः ] उत्तरभागः ।
धारयति । विचालितोऽपि न किंचिंचेतयते । नान्तः प्रविष्ठतारके समुन्मीलयति विलोचने ।
नायं यथावस्थितानां गात्राणामावरणं कैरोति । नोच्छ्वसिति हृदयेन । हा देव चन्द्रापीड,
चन्द्राकृते, कादम्बरीप्रिय, केदानीं त्वया विना गम्यते' इत्युक्त्वा मुक्तार्तवचसि तरलिकायाम्,
तिर्यगाभुग्नचन्द्रापीडमुखनिहित निख़िलस्तब्ध दृष्टिनिश्चेष्टायां महाश्वेतायाम्, 'आः पापे दुष्ट-
तापसि, किमिदं त्या कृतम् । अंपाकृताखिलजगत्पीडस्य तारापीडस्य कैलमुत्सारितम् ।
अनाथी कृताः प्रजाः सहास्माभिः । भन्नाः पन्थानो गुणानाम् । अर्गलिताः ककुभोऽथिंलो-
कस्य । कस्य वदनमीक्षैतां लक्ष्मीः ? कोऽवलम्बनं भवतु भूमेः ? कं सेवन्तां सेवकाः ?
स्वया विना संप्रति व्यसनमेव सेवा संवृत्ता। वृत्तं समानशीलत्वम् । अस्तमिता च परि-
जनश्लाघा । लघुकृतो भृत्यादरः । दूरं गतानि प्रियालपितानि । सँमाप्ताः परित्यागकथाः ।
स्वं कथं कथावशेषीभूतोऽसि ? भूतपूर्वाः कमुपयान्तु संप्रति प्रजाः ? के संप्रति साधूनां
।
कंधरा भन्नेव त्रुटितेव मूर्धानं शिरो न धारयति न धत्ते । विचालितोऽपि परावर्तितोऽपि न किंचित् चेतयते न
संज्ञां लभते । अन्तर्मध्ये प्रविष्टे तारके कनीनिके यथोरेवंविधे विलोचने नेत्रे न समुन्मीलयति न विकास-
यति । अयं यथावस्थितानां गात्राणामङ्गानां नावरणमाच्छादनं करोति । हृदयेन भुजान्तरेण नोच्छ्वसिति नोच्छ्वासं
गृह्णाति । हा इति खेदे । हे देव हे पूज्य, हे चन्द्रापीड, चन्द्रवच्छशाङ्कवदाकृतिराकारो यस्य तस्य संबोधनं
हे चन्द्राकृते, हे कादम्बरीप्रिय हे गन्धर्वसुताप्राणप्रिय, त्वया विना भवष्यतिरेकेण मया केदानीं सांप्रतं गम्यत
इति । तिर्यगाभुना वक्रा चन्द्रापीडमुखे निहिता स्थापिता निखिला समग्रा स्तब्धा निश्चला दृग्यया सा तस्यामेवं-
विधायां निश्चेष्टायां निर्गतशरीरव्यापारायां महाश्वेतायां सत्याम्, इति परिजने सेवकजन आरटति पूत्कुर्वति सति ।
इतिद्योत्यमाह — आः पापे इति । आः इति खेदे । पापे पापकारिणि दुष्टतापसि, त्वया भवस्येदं किं कृतं
किं विहितम् । अपाकृता दूरीकृताखिलजगतः समप्रविश्वस्य पीडा येनैवंभूतस्य तारापीडस्य कुलं वंश उत्सारितं
उच्छेदितम् । दूरीकृतमिति यावत् । अस्माभिः सह प्रजाः प्रकृतयोऽनाथीकृता विनायकीकृताः । वयमप्यना-
थीभूत इत्यर्थः । गुणानां शौर्यादीनां पन्थानो मार्गा भग्ना भ्रंशं प्राप्ताः । अर्थिलोकस्य याचकजनस्य ककुभो
दिशोऽर्गलिताः कृतपरिघाः संजाताः । लक्ष्मीः पद्मा कस्य वदनभीक्षतां विलोकताम् । भूमेः पृथिव्याः को वाव-
लम्बनमालम्बनं भवतु । सेवकाः सपर्याकारिणः कं पुमांस सेवन्तामुपासन्ताम् । त्वया विना भवद्विना सेवा सपर्यं
संप्रति व्यसनमेव कष्टमेव संवृत्ता जाता । समानशीलत्वं सदृशस्वभावत्वम् । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः ।
वृत्तमतीतम् । 'वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिश्चले' इत्यमरः । परिजनस्य परिच्छदस्य श्लाघा प्रशंसास्तमि-
तास्तं प्राप्ता । भृत्यानां किंकराणामादरः सन्मानप्रदानं लघूकृतः स्वल्पीकृतः । प्रियालपितानि मिष्टभाषि-
तानि दूरं गतानि दविष्ठदेशं प्राप्तानि । परित्यागकथा दानकिंवदन्त्यः समाप्ताः । विलयं गता इत्यर्थः । त्वमिति ।
चन्द्रापीडः कथं केन प्रकारेण कथावशेषीभूतः कथा एवावशेषोऽवशिष्टा यस्मिन्नेवंभूतो जातोऽसि । पूर्वं
भूता भूतपूर्वाः संप्रति प्रजाः कमुपयान्तु कमाश्रयन्तु । क्व साधूनां सज्जनानां संप्रति समाधानं चित्तप्रमोदजन-
टिप्प० - 1 'निश्चेष्टायामेव महाश्वेतायाम्' इत्येव पाठः । 2 'युवराज ! त्वया विना ० ' इति पाठः ।
3 'अस्तमिता च परिजनकथा' इत्येव पाठः ।
पाठा० -१ विचलितः २ किंचिदपि ३ लोचने ४ यथास्थितानाम्; यथावस्थितपतितानाम्. ५ ईष्टे.
६ नमनागप्युच्छुसित्येव. ७ उक्त्वा उन्मुक्तार्तवचसि; इत्युन्मुक्तार्तवचसि ८ निश्चल ९ त्वयापकृपया. १० अपाकृत;
अकृत. ११ उत्सादितम्. १२ उदीक्षताम्. १३ वृत्ता. १४ निवृत्तम्. १५ अंश्रान्तपरिजन. १६ समाप्ता परित्याग-
कथा; पर्याप्ता परित्यागवार्ता. १७ सांप्रतम् १८ प्रज्ञा • १९ किम्.