2023-12-30 10:40:36 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथायाम्-
मद्वे
म [^१]द्वचसोऽस्थानन्तरमेव च न वेझिद्मि किमसह्यवृत्तेर्मदनज्वर-
स्यावेगात्, उत सद्योविपाक-
स्यात्मनो दुष्कृतस्य गौरवात्, आहो- स्विम्न्मद्वचसः सामर्थ्यादेव [^२]च्छिन्नमूलस्तरुरिवाचेतनः
क्षिता- वपतत् । [^३]अतिक्रान्त जीवितेऽ[^४]स्मिन्कृ [^५]ताक्रन्दान्त- र्जनाच्छ्रुतवती यथासौ महाभागस्यैव
मित्रं भवति" इत्युक्त्वा च त्रपावनम्रमुखी हीं महीयसा वेगे [^६]न तूष्णीमेवांप्लावितवती ।
 

 
चन्द्रापीड॑स्य तु [^७]तदाकर्ण्य कर्णान्तायतलोचनद्वयांमीलनमग्न- दृष्टेर्भ्रष्टवचन सौष्ठवस्य 'भग-
वति, कृतप्रयत्नायामपि भगवत्यामपुण्य- भाजास्मिञ्जन्मनि मया न प्राप्तं देव्याः कादम्बर्याश्चर-
णपरिचर्यासु-
खम्, तज्जन्मान्तरेऽपि मे भगवती संपादयित्री भूयात्' इति गदत एव कादम्ब-
रीसमागमाप्राप्तिदुःखेनेव भेदोन्मुखं मुकुलमिव शिलीमुखाघातात्स्वभाव सरसं हृदयमस्फुटत् ।
 
अथ महाश्वेतायाः शरीरमुत्सृज्य संभ्रमप्रतिपन्नचन्द्रापीडशरीरायां 'भर्तृदारिके, किं.
लज्जया । पश्य तावदन्यथैव कथमप्यास्ते देवश्चन्द्रापीडोऽयम् । मँग्नेवास्य ग्रीवा न मूर्धानं
 
६१८
 
2
 
अस्य मद्वेचसोऽनन्तरमेव न वेद्मि न जाने । असह्यासहनीया वृत्तिर्वर्तनं यस्यैवंविधस्य मदनज्वरस्य काम-
संतापस्य वेगात् । उत इति वितर्के । सद्यस्तत्कालं विपाकोऽनुभवनं यस्यैवंविधस्यात्मनः स्वकीयस्य दुष्कृत
पापस्य गौरवाद्गुरुत्वात् । आहोस्विद्वितर्के । वचस एव सामर्थ्याच्छक्तेरेव छिन्नं छेदितं मूलं वुघ्नं यस्यैवंभूत-
स्तरुरिव वृक्ष इवाचेतनश्चेतनारहितः क्षितौ पृथिव्यामपतत् । अस्मिन्वैशम्पायनेऽतिक्रान्तजीविते च गतप्राणिते
च सति कृताकन्दा विहितार्तस्वरान्तैर्जनान्मध्यजना छ्रुतवत्याकर्णितवती । यथासौ महाभागस्य महापुरुषस्य
मित्रं वयस्यो भवति इत्युक्त्वेत्यभिधाय च त्रपया लज्जयावनम्रं मुखं यस्याः सैवंविधा महीयसा गरीय साश्रुवेगेन
नेत्राम्बुप्रवाहेण तूष्णीमेव महीमालावितवती ।
 
चन्द्रापीडस्य तु तदाकर्ण्य श्रुत्वा हृदयमस्फुटदित्यन्वयः । कीदृशस्य । कर्णं यावदायतं विस्तीर्णं यलोचन-
द्वयं तस्यामीलनं मुद्रणं तेन मना दृष्टिर्यस्य स तथा तस्य । भ्रष्टुं नष्टं वचनस्य वचसः सौष्ठवं शोभनत्वं यस्य
स तथा तस्य । किं कुर्वतः । इति गदत इति ब्रुवतः । इतियोत्यमाह - भगवतीति । हे भगवति हे देवि,
कृतप्रयत्नायामपि विहितोद्यमायामपि भगवत्यामपुण्यभाजा पापभाजास्मिञ्जन्मनीह भवे देव्याः कादम्बर्याश्च -
रणपरिचर्यासुखं क्रमसेवासा तं न प्राप्तं तज्जन्मान्तरेऽप्यन्यभवेऽपि मे मम भगवती भवती संपादयित्री जन-
यित्री भूयादितीवोत्प्रेक्षते ।
कादम्बरीसमागमस्यामाप्राप्तिदुःखेनेव भेदोन्मुखं प्रस्फुटनोन्मुखं मुकुलमिव कुडा-
लमिव
शिली- मुखस्याखाघाताद्भ्रमराभिघातात् । यथा भ्रमराभिघातात्कुङ्मलं भेदोन्मुखं त्स्वभावसरसं हृदयमस्फुटति, तथैव चन्द्रापीडस्य
तच्छ्रुत्वा स्वभावेन प्रकुत्या सरसं कोमलं हृदयमस्फुटदिति भावः ।
 
त् ।
 
थेति । हृदयस्फोटानन्तरं महाश्वेतायाः शरीरमुत्सृज्य [^८]संभ्रमप्रतिपन्नचन्द्रापीडशरी- रायां 'भर्तृदारिके, किं लज्जया । पश्य तावदन्यथैव कथमप्यास्ते देव [^९]श्चन्द्रापीडोऽयम् । [^१०]मग्नेवास्य ग्रीवा न मूर्धानं
 
[ टि ]-- अस्य [^1]मद्वचसोऽनन्तरमेव न वेद्मि न जाने । असह्या- सहनीया वृत्तिर्वर्तनं यस्यैवंविधस्य मदनज्वरस्य कामसंतापस्य वेगात् । उत इति वितर्के । सद्यस्तत्कालं विपाकोऽनुभवनं यस्यैवं- विधस्यात्मनः स्वकीयस्य दुष्कृतस्य पापस्य गौरवाद्गुरुत्वात् । आहोस्विद्वितर्के । वचस एव सामर्थ्याच्छक्तेरेव छिन्नं छेदितं मूलं
बुध्नं यस्यैवंभूतस्तरुरिव वृक्ष इवाचेतनश्चेतनारहितः क्षितौ पृथिव्या- मपतत् । अस्मिन्वैशम्पायनेऽतिक्रान्तजीविते च गतप्राणिते च सति कृताक्रन्दा विहितार्तस्वरा [^2]न्तर्जनान्मध्यजना छ्रुतवत्याकर्णित- वती । यथासौ महाभागस्य महापुरुषस्य मित्रं वयस्यो भवति इत्यु- क्त्वेत्यभिधाय च त्रपया लज्जयावनम्रं मुखं यस्याः सैवंविधा महीय- सा गरीयसाश्रुवेगेन नेत्राम्बुप्रवाहेण तूष्णीमेव महीमाप्लावितवती ।
 
चन्द्रापीडस्य तु तदाकर्ण्य श्रुत्वा हृदयमस्फुटदित्यन्वयः। कीदृशस्य । कर्णं यावदायतं विस्तीर्णं यल्लोचनद्वयं तस्यामीलनं मुद्रणं तेन मग्ना दृष्टिर्यस्य स तथा तस्य । भ्रष्टुं नष्टं वचनस्य वचसः सौष्ठवं शोभनत्वं यस्य स तथा तस्य । किं कुर्वतः । इति गदत इति ब्रुवतः । इतिद्योत्यमाह - भगवतीति । हे भगवति हे देवि, कृतप्रयत्नाया- मपि विहितोद्यमायामपि भगवत्यामपुण्यभाजा पाप [^3]भाजा- स्मिञ्जन्मनीह भवे देव्याः कादम्बर्याश्चरणपरिचर्यासुखं क्रमसेवासा- तं न प्राप्तं तज्जन्मान्तरेऽप्यन्यभवेऽपि मे मम भगवती भवती संपादयित्री जनयित्री भूयादितीवो [^4]त्प्रेक्षते । कादम्बरीसमा- गमस्याप्राप्तिदुःखेनेव भेदोन्मुखं प्रस्फुटनोन्मुखं मुकुलमिव कुड्म-
लमिव शिलीमुखस्याघाताद्भ्रमराभिघातात् । यथा भ्रमराभिघाता- त्कुङ्मलं भेदोन्मुखं स्फुटति, तथैव चन्द्रापीडस्य तच्छ्रुत्वा स्वभावेन प्रकुत्या सरसं कोमलं हृदयमस्फुटदिति भावः ।
 
अथेति । हृदयस्फोटानन्तरं महाश्वेतायाः शरीरमुत्सृज्य
विमुच्य संभ्रमेणादरेण प्रतिपन्नमङ्गीकृतं चन्द्रा-
पीडस्य शरीरं यया सा तथा तस्याम् । इत्युक्त्वेत्यभिधाय मुक्तं परित्यक्तमार्तं पीडितं वचो यया सा तथा तस्यां
तरलिकायां सत्याम् । इतिद्यो त्यमाह - हे भर्तृदारिके इति । हे महाश्वेते, किं लज्जया त्रपया । तावदादौ
पश्य विलोक्य । अयं देवश्चन्द्रापीडोऽन्यथैवेतरप्रकारेणैव कथमप्यास्ते तिष्ठति । अस्य चन्द्रापीडस्य ग्रीवा
 
टिप्प० -

 
[^
1]F. ' स तु मद्वचसोऽस्थानन्तरमेव' इति पाठः । स वैशम्पायनः
[^
2. ]F.' कृताक्रन्दात्तत्परिज-
नाच्छ्रुतवती' इत्येव पाठः ।
[^
3 मया । ]F. मया ।
[^
4]F. धन्या बुद्धिः ! भूयादिति आशीर्लिंङा भगवतस्तदिदं काम्यते ।
 

 
पाठा० -

 
[^
]G. स च मे वचसोऽस्थानन्तरमेवः; स तु मद्वचनानन्तरम्.
[^
]G. आच्छिन्नमूल: .
[^
]G. अपक्रान्त.
[^

]G. च. तस्मिन्.
[^
]G. कृताक्रन्दात्तत्परिजनाच्छ्रुतवती; कृताक्रन्दात्तत्परिजनतः श्रुतम्.
[^६]G.
प्लावितेन.
[^
तत्तत् ]G. तत्तत्.
[^
]G. ससंभ्रम.

[^
]G. चन्द्रापीडः, .
[^
१०]G. भग्नैव.