2024-01-01 15:14:59 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
वैशम्पायनस्य तिरस्कारः ]
उत्तरभागः ।
६१७
बदन्नाग्निना भस्मीकृतोऽसि, न वायुना [^१]धूतोऽसि, ना [^२]म्भ- सा प्लावितोऽसि, न घै[^३]धरिड्त्र्या रसा.
तलं प्रवेशितोऽसि, नापि तत्क्षणमेवाकाशेनात्मनिर्विशेषतां नीतोऽसि, अव्यवस्थितो व्यव
-
स्थितेऽस्मिमिं [^४]ल्लो के कुतस्त्वमुत्पन्न एवंविधः ? यस्तिर्यग्जातिरिव कामचारी न किंचिदपि वेत्सि ।
येनैवं खलु है[^५]हतविधात्रा केनो- [^६]नाप्युपदर्शितमुखरागः स्वपक्षपातमात्रप्रवृत्तिरनिरूपित- स्थानास्थान-
वादी शुक इव वक्तुमेवं शिक्षितस्तेनैव किमुँ [^७]मुत तस्यामेव जातौ न नि [^८]क्षिप्तोऽसि, येनै [^९]का [^१०]न्त-
हासहेतुरेवं वदन्नपि न क्रोधमुत्पादितवानसि ? त्वं[^११]त्वदुक्ते-
दु:खिताहं ते संविभागमिमं करोमि,
येनात्मवचनानुरूपां जातिमा- पन्नो नै [^१२]वास्मद्विधाः कामयसे इत्युक्त्वा चन्द्राभिमुखी भूत्वा
कृताञ्जलिः पुनरवदम् – 'भगवन्, परमेश्वर, सकलभुवनचूडामणे, लोकपाल, यदि मया
देवस्य पुण्डरीकस्य दर्शनात्मप्रभृति मनसा- प्यपरः पुमान्न चिन्तितस्तदाऽनेन मे सत्यवचनेना-
यमलीककामी- मदुदीरितायामेव जातौ सएततु' इति ।
C
वहि
[ टि ]-- वह्निना न भस्मीकृतो न भस्मसाद्विहितोऽसि । न वायुना समीरेणाधूतः कम्पितोऽसि । नाम्भसा जलेन प्लावितः
प्रवाहि- तोऽसि । न धरित्र्या पृथिव्या रसातलमधोलोकं प्रवेशितोऽसि क्षिप्तोऽसि । नापि तत्क्षणमेव तस्मिन्नेव
न् च क्षण आकाशेन नभसा- त्मनिर्विशेषतां स्वतुल्यतां नीतोऽसि प्रापितोऽसि । अव्यवस्थितो व्यवस्थामप्राप्तः
पञ्चभूतात्मकतया व्यवस्थितेऽस्मिमिंल्लोके कुत- स्त्वमुत्पन्नः प्रादुर्भूत एवंविध एतादृशो यस्तिर्यग्जातिस्विरिव- पशुजाति-
•
रिव कामचारी स्वैरविहारी न किंचिदपि वेत्सि जानासि । येनैवम् । खल्विति निश्चये । हतविधात्रा पापिष्ठब्रह्मणा
[^1]केनापि कारणे- नोपदर्शितः प्रकटितो मुख आस्ये रागोऽनुरक्तिर्येन स तथा । स्वपक्षपातमात्रे खस्पपक्षरक्षणमात्रे
प्रवृत्तिः प्रवर्तनं यस्य स तथा । अनिरूपितमज्ञातं यत्स्थानास्थानं वक्तव्यावक्तव्यस्थलं तत्र वदती- त्येवंशीलः शुक
इव कीर इव । सोऽपि दर्शितमुखरागः स्वपक्षपा- तनमात्रे प्रवृत्तः स्थानास्थानवादी च भवति । तद्वदेवैवं
वक्तुं जल्पितुं शिक्षितः शिक्षां ग्राहितस्तेनैव हतविधात्रा किमुत कथं तस्यामेव तिर्यग्जातौ न निक्षिप्तोऽसि ।
एकान्तेन निश्चयेन हासस्य [^2]हेतुर्निदानमेवं वदन्नपि जल्पन्नपि क्रोधं कोपं नोत्पादितवान- सीति काकूक्तिः ।
अतस्त्वदुक्तते [^3]स्त्वत्कथितस्यान्यथा कर्तुमहं तं इमं संविभागं विभज्य प्रदानं करोमि । येन संविभागेनात्मवचनस्य
- स्य स्वकीयोक्तेरनुरूपां योग्यां जातिं तिर्यग्जन्म आपन्नः प्राप्तो नैवास्मद्विधा अस्मत्सदृशाः कामयसेऽभिलषसे '
इत्युक्त्वेत्यभिधाय चन्द्रस्य शशाङ्कस्याभिमुखीभूत्वा संमुखीभूय कृताञ्जलि: संयुतकर- द्वया पुनरवदमब्रवम् ।
'पाणिः प्रसृतः प्रसृतिस्तौ युतौ पुनरञ्जलिः' इति हैमः । हे भगवन् हे माहात्म्यवन्, हे परमेश्वर परमै -
श्वर्यवन्, हे सकलभुवनचूडामणे समग्रविष्टपशिरोमणे, हे लोकपाल जगद्रक्षक, यदि मया महाश्वेतया देवस्य
पुण्डरीकस्य दर्शनात्प्रभृति तदवलोकन - कनदिवसादारभ्य मनसापि चित्तेनाप्यपरस्तदन्यः पुमान्न चिन्तितो न
ध्यातः, तत्तस्माद्धेतोरनेन सत्यवचनेनायं पुरःस्थोऽलीककामी मिथ्याकामवान्मदुदीरितायामेव मदुक्तायामेव
जातौ जन्मनि पततु गच्छत्विति । 'जाति: सामान्यजन्मनोः' इत्यमरः ।
टिप्प० -
[^1]F. 'केनापि' एतावन्मात्रस्य कारणेनेत्यर्थोऽसंगतः । वस्तुतस्तु – 'येनैवं खलु हतविधिना
समुपदर्शितवदनरागः' इत्येव पाठः । अर्थस्तु स्पष्टः ।
[^2]G. 'येनैकान्तहास हेतु वदन् क्रोधमपि ' इति पाठः ।
एकान्तहास हेतु इति वदन्निति क्रियाया विशेषणम् ।
[^3 स्]F. त्वदुक्तेः स्वस्त्वत्कथनाद्दुः खिताहं ते संविभागं दण्ड-
मिमं करोमीत्यर्थः ।
4
पाठा० -
[^१]G. आहृतः; अपहृतः
[^२]G. पयसा.
[^३]G. धाव्त्र्या रसातलम्.
[^४]G. लोकत्रये .
[^५]G. हतविधिना .
[^६]G. समुपदर्शित-
वैद्रनरींवदनरागः, .
[^७]G. किमिति; किमु .
[^८]G. क्षिप्तः .
[^९]G. येन.
[^१०]G. हास हेतुं बवदन्.
[^११ ख]G. त्वद्दुरुत्क्तेस्तेऽहम्.
[^१२]G. अस्मद्विधां॰
D
.
का० ७८