कादम्बरी /650
This page has not been fully proofread.
वैशम्पायनस्य तिरस्कारः ]
उत्तरभागः ।
६१७
बदन्नाग्निना भस्मीकृतोऽसि, न वायुना धूतोऽसि, नाम्भसा प्लावितोऽसि, न घैरिड्या रसा.
तलं प्रवेशितोऽसि, नापि तत्क्षणमेवाकाशेनात्मनिर्विशेषतां नीतोऽसि, अव्यवस्थितो व्यव
स्थितेऽस्मिल्लो के कुतस्त्वमुत्पन्न एवंविधः ? यस्तिर्यग्जातिरिव कामचारी न किंचिदपि वेत्सि ।
येनैवं खलु हैतविधात्रा केनोप्युपदर्शितमुखरागः स्वपक्षपातमात्रप्रवृत्तिरनिरूपितस्थानास्थान-
वादी शुक इव वक्तुमेवं शिक्षितस्तेनैव किमुँत तस्यामेव जातौ न निक्षिप्तोऽसि, येनैकान्त-
हासहेतुरेवं वदन्नपि न क्रोधमुत्पादितवानसि ? त्वंदुक्तेदु:खिताहं ते संविभागमिमं करोमि,
येनात्मवचनानुरूपां जातिमा पन्नो नैवास्मद्विधाः कामयसे इत्युक्त्वा चन्द्राभिमुखी भूत्वा
कृताञ्जलिः पुनरवदम् – 'भगवन्, परमेश्वर, सकलभुवनचूडामणे, लोकपाल, यदि मया
देवस्य पुण्डरीकस्य दर्शनात्मभृति मनसायपरः पुमान्न चिन्तितस्तदाऽनेन मे सत्यवचनेना-
यमलीककामी मदुदीरितायामेव जातौ सततु' इति ।
C
वहिना न भस्मीकृतो न भस्मसाद्विहितोऽसि । न वायुना समीरेणाधूतः कम्पितोऽसि । नाम्भसा जलेन प्लावितः
प्रवाहितोऽसि । न धरिया पृथिव्या रसातलमधोलोकं प्रवेशितोऽसि क्षिप्तोऽसि । नापि तत्क्षणमेव तस्मिन्नेव
न्च क्षण आकाशेन नभसात्मनिर्विशेषतां स्वतुल्यतां नीतोऽसि प्रापितोऽसि । अव्यवस्थितो व्यवस्थामप्राप्तः
पञ्चभूतात्मकतया व्यवस्थितेऽस्मिल्लोके कुतस्त्वमुत्पन्नः प्रादुर्भूत एवंविध एतादृशो यस्तिर्यग्जातिस्वि- पशुजाति-
• कामचारी स्वैरविहारी न किंचिदपि वेत्सि जानासि । येनैवम् । खल्विति निश्चये । हतविधात्रा पापिष्ठब्रह्मणा
केनापि कारणेनोपदर्शितः प्रकटितो मुख आस्ये रागोऽनुरक्तिर्येन स तथा । स्वपक्षपातमात्रे खपक्षरक्षणमात्रे
प्रवृत्तिः प्रवर्तनं यस्य स तथा । अनिरूपितमज्ञातं यत्स्थानास्थानं वक्तव्यावक्तव्यस्थलं तत्र वदतीत्येवंशीलः शुक
इव कीर इव । सोऽपि दर्शितमुखरागः स्वपक्षपातनमात्रे प्रवृत्तः स्थानास्थानवादी च भवति । तद्वदेवैवं
वक्तुं जल्पितुं शिक्षितः शिक्षां ग्राहितस्तेनैव हतविधात्रा किमुत कथं तस्यामेव तिर्यग्जातौ न निक्षिप्तोऽसि ।
एकान्तेन निश्चयेन हासस्य हेतुर्निदानमेवं वदन्नपि जल्पन्नपि क्रोधं कोपं नोत्पादितवानसीति काकूक्तिः ।
अतस्त्वदुक्तस्त्वत्कथितस्यान्यथा कर्तुमहं तं इमं संविभागं विभज्य प्रदानं करोमि । येन संविभागेनात्मवचनस्य
स्वकीयोक्तेरनुरूपां योग्यां जातिं तिर्यग्जन्म आपन्नः प्राप्तो नैवास्मद्विधा अस्मत्सदृशाः कामयसेऽभिलषसे '
इत्युक्त्वेत्यभिधाय चन्द्रस्य शशाङ्कस्याभिमुखीभूत्वा संमुखीभूय कृताञ्जलि: संयुतकरद्वया पुनरवदमब्रवम् ।
'पाणिः प्रसृतः प्रसृतिस्तौ युतौ पुनरञ्जलिः' इति हैमः । हे भगवन् हे माहात्म्यवन्, हे परमेश्वर परमै -
श्वर्यवन्, हे सकलभुवनचूडामणे समग्रविष्टपशिरोमणे, हे लोकपाल जगद्रक्षक, यदि मया महाश्वेतया देवस्य
पुण्डरीकस्य दर्शनात्प्रभृति तदवलोकन दिवसादारभ्य मनसापि चित्तेनाप्यपरस्तदन्यः पुमान्न चिन्तितो न
ध्यातः, तत्तस्माद्धेतोरनेन सत्यवचनेनायं पुरःस्थोऽलीककामी मिथ्याकामवान्मदुदीरितायामेव मदुक्तायामेव
जातौ जन्मनि पततु गच्छत्विति । 'जाति: सामान्यजन्मनोः' इत्यमरः ।
टिप्प० -1 'केनापि' एतावन्मात्रस्य कारणेनेत्यर्थोऽसंगतः । वस्तुतस्तु – 'येनैवं खलु हतविधिना
समुपदर्शितवदनरागः' इत्येव पाठः । अर्थस्तु स्पष्टः । 2 'येनैकान्तहास हेतु वदन् क्रोधमपि ' इति पाठः ।
एकान्तहास हेतु इति वदन्निति क्रियाया विशेषणम् । 3 स्वदुक्तेः स्वस्कथनाद्दुः खिताहं ते संविभागं दण्ड-
मिमं करोमीत्यर्थः ।
4
पाठा० -१ आहृतः; अपहृतः २ पयसा. ३ धाव्या रसातलम्. ४ लोकत्रये ५ हतविधिना ६ समुपदर्शित-
वैद्रनरींगः, ७ किमिति; किमु ८ क्षिप्तः ९ येन. १० हास हेतुं बदन्. ११ खद्दुरुत्तेस्तेऽहम्. १२ अस्मद्विधां॰
D
का० ७८