कादम्बरी /65
This page has been fully proofread once and needs a second look.
लाम्, गन्धोदकपूर्णकनकमयजलद्रोणीसनाथमध्याम्, उपस्थापित- स्फाटिकस्नानपीठाम्, एकान्तनिहितैः [^१]अतिसुरभिगन्ध- सलिलपूर्णैः परिमलावकृष्टमधुकरकुलान्धकारितमुखै: आ-
तपभयान्नीलकर्पटावगुण्ठितमुखैरिव [^२]स्नानकलशैरुपशोभितां स्नानभूमिमगच्छत्। [^३]अवतीर्णस्य जलद्रोणीं वारविलासिनीकर- मृदितसुगन्धामलक [^४]लिप्तशिरसो राज्ञः [^५]परितः [^६]समुपतस्थुरं [^७]शुकनिबिडनिबद्धस्तनपरिकरा:, दूरसमुत्सारितवलयबाहुलताः, समुत्क्षिप्त [^८]कर्णाभरणाः,
कर्णोत्सङ्गोत्सारितालकाः गृहीतजलकलशाः स्नानार्थमभिषेकदेवता इव वारयोषितः । ताभिश्च समुन्नतकुचकुम्भमण्डलाभिर्वारिमध्य- प्रविष्टः करिणीभिरिव वनकरी परिवृतस्तत्क्षणं रराज राजा । द्रोणी [^९]सलिलादुत्थाय च स्नानपीठममलस्फटिकधवलं वरुण इव राज-
[ टि ]-- अनेकेऽसंख्या ये चारणगणाः कुशीलवसमुदाया- स्तैर्निबध्यमानं विरच्यमानं मण्डलं परिवृतिर्यस्यां सा तथा
ताम् । गन्धोदकेति । गन्धोदकेन सुरभिपानी येन पूर्णा भृता या कनकमयी सुवर्णमयी । अत्र विकारार्थे
मयट्र । एतादृशी जलद्रोणी जलकुण्डिका तया सनाथः सहितो मध्यो मध्यभागो यस्याः सा तथा ताम् ।
उपेति । उपस्थापितं न्यस्तं स्फाटिकं स्फटिकमणिनिर्मितं स्नानपीठमाप्लवनचतुष्किका यस्यां सा तथा ताम् ।
स्नानेति । स्नानार्थं ये कलशाः कुम्भास्तैरुपशोभितां विराजिताम् । अथ कलशान्विशेषयन्नाह -- एकान्ते-
ति । एकान्ते निर्जलस्थले निहितैः । स्थापितैः । अतीति । अतिशयेन सुरभिर्गन्धो यस्मिन्नेवंविधं यत्स-
लिलं जलं तेन पूर्णैर्भुभृतैः । परीति । परिमलेन गन्धेनावकृष्टा ये मधुकरा भ्रमरास्तेषां कुलानि समुदाया-
स्तैरन्धकारितं संजातान्धकारं मुखमाननं येषां ते तथा तैः । कीदृशैरिव । आतपभयान्नीलकर्पटावगुण्ठितानि
मुखानि येषां ते तथा तैरिव । जलद्रोणीमवतीर्णस्य तन्मध्ये प्रविष्टस्य राज्ञो नृपस्य परितः सर्वतः स्नानार्थ-
मभिषेकदेवता इवाभिषेकाधिष्ठात्र्य इव वारयोषितो वाराङ्गनाः समुपतस्थुः सम्यक्प्रकारेणातिष्ठन् । कीट-
दृशस्य राज्ञः । वारविलासिन्या करेण मृदितं यत्सुगन्धामलकं सुरभिधात्रीफलं तेन लिप्तं शिरो यस्य स तथा
तस्य । ता विशेषयन्नाह–अंशु केति । अंशुकैर्वस्खैत्रैर्निबिडडं दृढं निबद्धः संयतः स्तनपरिकरः कुचाभोगो याभि-
स्तास्तथा । दूरेति । दूरं समुत्सारितानि निराकृतानि वलयानि कङ्कणानि यास्खेवेवंभूता बाहुलता भुज-
वल्लयो यासां ताः । सस्म्विति । समुत्क्षिप्तमुपरि गृहीतं कर्णानामाभरणं भूषणं याभिस्तथा । कर्णेति ।
कर्णोत्सङ्गाच्छ्रवणसमीपादुत्सारिता उपरिन्यस्ता अलकाः कुन्तला याभिस्तास्तथा । अत्र त्रिपदैस्तासां
शोभातिशयो व्यज्यते । गृहीतेति । गृहीता आत्ता जलकलशा वारिभृतघटा याभिस्ताः । च पुनरर्थे ।
ताभिस्तत्क्षणं तस्मिन्क्षणे परिवृत आवृतो राजा नृपो रराज शुशुभे । कथंभूताभिस्ताभिः । समुन्नतं
कुचकुम्भमण्डलं यासां ताभिः । कीदृशश्च राजा । वारिमध्यप्रविष्टः । कमिव । करिणीभि- र्हस्तिनीभिः परि-
वृतो वनकरीव । यथा धेनुकाभिः समं मज्जनं कुर्वन्वनकरी शोभते तद्वदयमित्यर्थः । ततो द्रोणीसलिलात्
द्रोणीजलादुत्थाय बहिर्निर्गत्य स्नानपीठमा रुरोहेत्यन्वयः । कीदृशम् । अमलेति । अमलो मलवर्जितो
यः स्फटिको मणिविशेषस्तद्व- द्धवलं शुभ्रम् । क इव । वरुण इव । यथा वरुणः प्रचेता राजहंसं कलहंसमा-
N
पाठा० ---[^१]G. अभिसुरभि.
[^२]G. कलशै: .
[^३]G. अवतीर्णस्य च .
[^४]G. उपलिप्त .
[^५ समन्तात् ]G. समन्तात्.
[^६]G. समुत्तस्थुः .
[^७]G. अंशुकवि-
निबद्ध.
[^८]G. चरणाभरणा : .
[^९]G. जलद्रोणि.
तपभयान्नीलकर्पटावगुण्ठितमुखैरिव [^२]स्नानकलशैरुपशोभितां स्नानभूमिमगच्छत्। [^३]अवतीर्णस्य जलद्रोणीं वारविलासिनीकर- मृदितसुगन्धामलक [^४]लिप्तशिरसो राज्ञः [^५]परितः [^६]समुपतस्थुरं [^७]शुकनिबिडनिबद्धस्तनपरिकरा:, दूरसमुत्सारितवलयबाहुलताः, समुत्क्षिप्त [^८]कर्णाभरणाः,
कर्णोत्सङ्गोत्सारितालकाः गृहीतजलकलशाः स्नानार्थमभिषेकदेवता इव वारयोषितः । ताभिश्च समुन्नतकुचकुम्भमण्डलाभिर्वारिमध्य- प्रविष्टः करिणीभिरिव वनकरी परिवृतस्तत्क्षणं रराज राजा । द्रोणी [^९]सलिलादुत्थाय च स्नानपीठममलस्फटिकधवलं वरुण इव राज-
[ टि ]-- अनेकेऽसंख्या ये चारणगणाः कुशीलवसमुदाया- स्तैर्निबध्यमानं विरच्यमानं मण्डलं परिवृतिर्यस्यां सा तथा
ताम् । गन्धोदकेति । गन्धोदकेन सुरभिपानी
लिलं जलं तेन पूर्णैर्
द्रोणीजलादुत्थाय बहिर्निर्गत्य स्नानपीठमा
[^२]G. कलशै:
[^३]G. अवतीर्णस्य च .
[^४]G. उपलिप्त
[^५
[^६]G. समुत्तस्थुः
[^७]G. अंशुकवि
[^८]G. चरणाभरणा
[^९]G. जलद्रोणि.