2023-09-24 12:06:04 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

३२
 
[ कथामुखे-
लाम्, गन्धोदकपूर्णकनकमयजलद्रोणीसनाथमध्याम्, उपस्थापित- स्फाटिकस्नानपीठाम्,
 
लाम्, गन्धोदकपूर्णकनकमयजलद्रोणीसनाथमध्याम्
एकान्तनिहितैः [^१]अतिसुरभिगन्ध- सलिलपूर्णैः परिमलाव कृष्टमधुकर कुलान्धकारितमुखै: आ-

तपभयान्नीलकर्पटावगुण्ठितमुखैरिय स्त्रोव [^२]स्नानकलशैरुपशोभितां स्नानभूमिमगच्छत्। [^३]अवती-
र्णस्य जलद्रोणीं वारविलासिनीकर- मृदितसुगन्धामलकर् [^४]लिप्तशिरसो राज्ञः पॅ[^५]परितः [^६]समुपत-
स्थुरं [^७]शुकनिबिड निबद्धस्तनपरिकरा:, दूरसमुत्सारितवलयबाहुलताः, समुत्क्षिप्त [^८]कर्णाभरणाः,

कर्णोत्सङ्गोत्सारितालकाः गृहीतजलकलशाः स्नानार्थमभिषेकदेवता इव वारयोषितः ।
ताभिश्च समुन्नतकुचकुम्भमण्डलाभिर्वारिमध्य- प्रविष्टः करिणीभिरिव वनकरी परिवृतस्त
त्क्षणं रराज राजा । द्रोणीसॅ [^९]सलिलादुत्थाय च स्नानपीठममलस्फटिकधवलं वरुण इव राज-

 
कादम्बरी ।
 
2
 
."
 
9
 

 
[ टि ]--
अनेकेऽसंख्या ये चारणगणाः कुशीलवसमुदायास्तैर्निबध्यमानं विरच्यमानं मण्डलं परिवृतिर्यस्यां सा तथा

ताम् । गन्धोदकेति । गन्धोदकेन सुरभिपानी येन पूर्णा भृता या कनकमयी सुवर्णमयी । अत्र विकारार्थे

मयट्र । एतादृशी जलद्रोणी जलकुण्डिका तया सनाथः सहितो मध्यो मध्यभागो यस्याः सा तथा ताम् ।

उपेति । उपस्थापितं न्यस्तं स्फाटिकं स्फटिकमणिनिर्मितं स्नानपीठमाप्लवनचतुष्किका यस्यां सा तथा ताम् ।

स्नानेति । स्नानार्थं ये कलशाः कुम्भास्तैरुपशोभितां विराजिताम् । अथ कलशान्विशेषयन्नाह -- एकान्ते-

ति । एकान्ते निर्जलस्थले निहितैः । स्थापितैः । अतीति । अतिशयेन सुरभिर्गन्धो यस्मिन्नेवंविधं यत्स-

लिलं जलं तेन पूर्णैर्भुतैः । परीति । परिमलेन गन्धेनावकृष्टा ये मधुकरा भ्रमरास्तेषां कुलानि समुदाया-

स्तैरन्धकारितं संजातान्धकारं मुखमाननं येषां ते तथा तैः । कीदृशैरिव । आतपभयान्नीलकर्पटावगुण्ठितानि

मुखानि येषां ते तथा तैरिव । जलद्रोणीमवतीर्णस्य तन्मध्ये प्रविष्टस्य राज्ञो नृपस्य परितः सर्वतः स्नानार्थ-

मभिषेकदेवता इवाभिषेकाधिष्ठात्र्य इव वारयोषितो वाराङ्गनाः समुपतस्थुः सम्यक्प्रकारेणातिष्ठन् । कीट-

शस्य राज्ञः । वारविलासिन्या करेण मृदितं यत्सुगन्धामलकं सुरभिधात्रीफलं तेन लिप्तं शिरो यस्य स तथा

तस्य । ता विशेषयन्नाह–अंशु केति । अंशुकैर्वस्खैर्निबिड दृढं निबद्धः संयतः स्तनपरिकरः कुचाभोगो याभि-

स्तास्तथा । दूरेति । दूरं समुत्सारितानि निराकृतानि वलयानि कङ्कणानि यास्खेवंभूता बाहुलता भुज-

वल्लयो यासां ताः । सस्विति । समुत्क्षिप्तमुपरि गृहीतं कर्णानामाभरणं भूषणं याभिस्तथा । कर्णेति ।

कर्णोत्सङ्गाच्छ्रवणसमीपादुत्सारिता उपरिन्यस्ता अलकाः कुन्तला याभिस्तास्तथा । अत्र त्रिपदैस्तासां

शोभातिशयो व्यज्यते । गृहीतेति । गृहीता आत्ता जलकलशा वारिभृतघटा याभिस्ताः । च पुनरर्थे ।

ताभिस्तत्क्षणं तस्मिन्क्षणे परिवृत आवृतो राजा नृपो रराज शुशुभे । कथंभूताभिस्ताभिः । समुन्नतं

कुचकुम्भमण्डलं यासां ताभिः । कीदृशश्च राजा । वारिमध्यप्रविष्टः । कमिव । करिणीभिर्हस्तिनीभिः परि-

वृतो वनकरीव । यथा धेनुकाभिः समं मजनं कुर्वन्वनकरी शोभते तद्वदयमित्यर्थः । ततो द्रोणीसलिलात्

द्रोणीजलादुत्थाय बहिर्निर्गत्य स्नानपीठमा रुरोहेत्यन्वयः । कीदृशम् । अमलेति । अमलो मलवर्जितो

यः स्फटिको मणिविशेषस्तद्वद्धवलं शुभ्रम् । क इव । वरुण इव । यथा वरुणः प्रचेता राजहंसं कलहंसमा-

N
 

 
पाठा० ---१ अभिसुरभि. २ कलशै: ३ अवतीर्णस्य च ४ उपलिप्त ५ समन्तात् ६ समुत्तस्थुः ७ अंशुकवि-

निबद्ध. ८ चरणाभरणा : ९ जलद्रोणि.