कादम्बरी /649
This page has been fully proofread once and needs a second look.
मुत्स्रष्टव्यम् । [^१]तच्चिरादेवस्य पुण्डरीकस्य पुनर्दर्शनप्रत्याशया दुःखोत्तरमप्यङ्गी [^२]कृतं व्यर्थतां मे [^३]यातं प्राणसंधारणम्' इति । स त्वेवं विचिन्तयन्तीमेव मामुपसृत्याब्रवीत् - 'चन्द्रमुखि,
हन्तुमुद्यतो मामयं कुसुमशरसहायश्चन्द्रमाः । तच्छरणमागतोऽस्मि, रक्ष मामशरणमनाथमार्त [^४]मप्रतीकारक्षममात्मना [^५]त्वदा-
यत्तजीवितम् । शरणगतपरित्राणं हि तपस्विनामपि धर्म एव ।
तद्यदि मामात्म [^६]प्रदानेन नात्र संभावयसि तदा हतोऽहमाभ्यां कुसुमशरशिशि [^७]रकराभ्याम्' इति । अहं तु तदाकर्ण्य धिगि-
[^८]त्युत्तमाङ्गनिर्गतज्ज्वालेन रोषानलेन निर्दहन्तीव तम्, उन्मिष- द्बाष्पस्फुलिङ्गया दृष्ट्या त [^९]दावर्जयन्तीव, आपादतलादुत्क- म्पितगात्रयष्टिराविष्टेव, आत्मानमप्यचेतयमाना क्रोधावेगरूक्षा- क्षरमवदम् - [^१०]आ: पाप, कथमेवं [^११]वदतो मामुत्तमाङ्गे ते न निपतितं वज्रम् ? अवशीर्णा वा न सहस्रधा जिह्वा ? विह्वलतां न गता वा वाणी ? नष्टानि वा नाक्षराणि ? मन्ये च न सन्त्येव तेऽस्मि- ञ्शरीरे सकललोकशुभाशुभसाक्षिभूतानि पञ्चमहाभूतानि । येनैवं
[ टि ]-- तत्तस्मात्कारणाच्चिराच्चिरकालेन देवस्य पुण्डरीकस्य पुनदर्शनप्रत्याशयां पुनरवलोकनवाञ्छ्या दुःखाद [^1]साता-
दुत्तरमुत्तरकालमङ्गीकृतमपि स्वीकृतमपि प्राणसंधारणं मेसमम व्यर्थतां निष्फलतां यातं प्राप्तम् । इत्येवं विचि-
न्तयन्तीमेव ध्याय- न्तीमेव स तु युवा मामुपसृत्य मत्समीपमागत्याब्रवीदवोचत् । किं तदित्याह - हे चन्द्र-
मुखि हे शशाङ्कमुखि, मामयं कुसुमशरः काम- स्तस्य सहायः साहाय्यकारी चन्द्रमाः कुमुदबान्धवो हन्तुं व्यापा-
दयितुमुद्यत उद्युक्तः । तदिति हेत्वर्थे । शरणं त्राणमागतोऽस्मि । अशरणमत्राण मनाथ मनीश्वरमार्तं प्रपीडितम-
प्रतीकारक्षममप्रतिक्रि- यासहं मां रक्ष त्राहि । त्वदायत्तं जीवित तं [^2]प्राणितं यस्य स तम् । हि यस्मात्कारणात्तपस्विनां
तपोवतामप्ययं धर्म एव यच्छरणागतस्य रक्षणं त्राणम् । तद्यदि मामात्मप्रदानेन स्वार्पणेनात्र न संभावयसि
न संभावनाविषयीकरोषि तदाभ्यां कुसुमशरशिशिरकराभ्यां काम- बाणचन्द्राभ्यामहं वैशम्पायनो हतो व्यापा-
दितोऽस्मि । इति पूर्वो- क्तमहं महाश्वेता तदाकर्ण्य श्रुत्वा घिधिगिति धिगस्त्विति उत्तमाङ्गा- च्छिरसो निर्गता प्रादु-
र्भूता ज्वालाचिर्यस्या एवंविधेव रोषानलेन क्रोधवह्निना तं वैशम्पायनं निर्दहन्तीव ज्वालयन्तीव उन्मिषन्तः
प्रकटीभवन्तो बाष्पस्फुलिङ्गा अश्रुवह्निकणा यस्यामेवंभूतया दृष्ट्या दृशा । त [^3]दव्यक्ते नपुंसकम् । आतर्जयन्तीव
तिरस्कुर्वन्तीव । आपादतलात्पादतलं मर्यादीकृत्योत्कम्पिता प्रचलिता गात्रयष्टिरम- यष्टिर्यस्याः सा तथा ।
आविष्टेव भूतगृहीतेव । आत्मानमपि स्वम- प्यचेतयमानाज्ञायमाना क्रोधस्य क्रुध आवेगस्त्वरिस्तेन रूक्षाक्षर -
मस्निग्धवर्णणं यथा स्यात्तथावदमब्रवम् । आः पाप हे पापिष्ठ, एवं मां वदतो ब्रुवतः कथं ते तवोत्तमाङ्गे शिरसि
न निपतितं वज्रं पविः, सहस्रधा सहस्रप्रकारेण जिह्वा रसना नावशीर्णा न शटिता, वाणी भाषा विह्वलतां
विक्लवतां वा न गता, न नष्टानि वने प्रपलायितानि वाक्षराणि वर्णा वा । मन्येऽहं जाने च ते तवास्मिञ्शरीरे
देहे सक- ललोकानां समग्रजनानां शुभाशुभयोर्वर्यावर्ययोः पुण्यपापयोः साक्षिभूतानि पञ्चमहाभूतानि पृथि-
व्यप्तेजोवाय्वाकाशलक्षणानि न सन्त्येव एतदर्थे हेतुमाह - येनेति । येन कारणेनैवं वदन्ब्रुवन्नभिग्निना
टिप्प० – [^1]F. दुःखोत्तरं दुःखबहुलं, दुःसदु:खमुत्तरं ( अनन्तरम् ) वा यस्य, ईदृशं प्राणसंधारणमङ्गीकृत-
मपि व्यर्थतां यातम् ।
[^2]F. 'त्वदायत्तं मे जीवितम् ।' इत्येव पाठः । अन्यथा 'आत्मना इति पदस्यान्वयो
न घटेत । 'स्वदायत्तं मे' इति व्यस्तपाठे तु अशरणादिविशिष्टं माम् आत्मना (स्वशरीरेण ) रक्ष, इति
पूर्व- वाक्यान्वयः ।
[^3]F. सर्वमिदमसंगतम् । 'तदातर्जनायेव ( तस्य वैशम्पा० भर्त्स- नायेव )थाआपादतलात्
उत्कम्पितगात्रयष्टिः,' इति पाठः ।
पाठा० -[^१]G. चिरात्.
[^२]G. अङ्गीकृत्य.
[^३]G. एवं, एव.
[^४]G. अप्रतीकाराक्षमम्.
[^५]G. त्वदायत्तं मे जीवितम् .
[^६]G. प्रसादेन.
[^७]G. शिशिर किरणाभ्याम् .
[^८]G. झटिति, झगिति .
[^९]G. तर्जनायैब व.
[^१०]G. हताश.
[^११]G. एवंवादिनस्तव नोत्तमाङ्गे •
.
हन्तुमुद्यतो मामयं कुसुमशरसहायश्चन्द्रमाः । तच्छरणमागतोऽस्मि, रक्ष मामशरणमनाथमार्त [^४]मप्रतीकारक्षममात्मना [^५]त्वदा-
यत्तजीवितम् । शरणगतपरित्राणं हि तपस्विनामपि धर्म एव ।
तद्यदि मामात्म [^६]प्रदानेन नात्र संभावयसि तदा हतोऽहमाभ्यां कुसुमशरशिशि [^७]रकराभ्याम्' इति । अहं तु तदाकर्ण्य धिगि-
[^८]त्युत्तमाङ्गनिर्गतज्ज्वालेन रोषानलेन निर्दहन्तीव तम्, उन्मिष- द्बाष्पस्फुलिङ्गया दृष्ट्या त [^९]दावर्जयन्तीव, आपादतलादुत्क- म्पितगात्रयष्टिराविष्टेव, आत्मानमप्यचेतयमाना क्रोधावेगरूक्षा- क्षरमवदम् - [^१०]आ: पाप, कथमेवं [^११]वदतो मामुत्तमाङ्गे ते न निपतितं वज्रम् ? अवशीर्णा वा न सहस्रधा जिह्वा ? विह्वलतां न गता वा वाणी ? नष्टानि वा नाक्षराणि ? मन्ये च न सन्त्येव तेऽस्मि- ञ्शरीरे सकललोकशुभाशुभसाक्षिभूतानि पञ्चमहाभूतानि । येनैवं
[ टि ]-- तत्तस्मात्कारणाच्चिराच्चिरकालेन देवस्य पुण्डरीकस्य पुनदर्शनप्रत्याशयां पुनरवलोकनवाञ्छ्या दुःखाद [^1]साता-
दुत्तरमुत्तरकालमङ्गीकृतमपि स्वीकृतमपि प्राणसंधारणं मे
दयितुमुद्यत उद्युक्तः । तदिति हेत्वर्थे । शरणं त्राणमागतोऽस्मि । अशरणमत्राण
न संभावनाविषयीकरोषि तदाभ्यां कुसुमशरशिशिरकराभ्यां काम- बाणचन्द्राभ्यामहं वैशम्पायनो हतो व्यापा
प्रकटीभवन्तो बाष्पस्फुलिङ्गा अश्रुवह्निकणा यस्यामेवंभूतया दृष्ट्या दृशा । त [^3]दव्यक्ते नपुंसकम् । आतर्जयन्तीव
मस्निग्धवर्
[^2]F. 'त्वदायत्तं मे जीवितम् ।' इत्येव पाठः । अन्यथा 'आत्मना इति पदस्यान्वयो
[^3]F. सर्वमिदमसंगतम् । 'तदातर्जनायेव ( तस्य वैशम्पा० भर्त्स- नायेव )
[^२]G. अङ्गीकृत्य.
[^३]G. एवं, एव.
[^४]G. अप्रतीकाराक्षमम्.
[^५]G. त्वदायत्तं मे जीवितम्
[^६]G. प्रसादेन.
[^७]G. शिशिर
[^८]G. झटिति, झगिति
[^९]G. तर्जनायै
[^१०]G. हताश.
[^११]G. एवंवादिनस्तव नोत्तमाङ्गे