This page has not been fully proofread.

६१६
 
कादम्बरी ।
 
[ कथायाम्-
मुत्स्रष्टव्यम् । तैच्चिरादेवस्य पुण्डरीकस्य पुनदर्शनप्रत्याशया दुःखोत्तरमध्यङ्गीकृतं व्यर्थतां मे
यातं प्राणसंधारणम्' इति । स त्वेवं विचिन्तयन्तीमेव मामुपसृत्याब्रवीत् - 'चन्द्रमुखि,
हन्तुमुद्यतो मामयं कुसुमशरसहायश्चन्द्रमाः । तच्छरणमागतोऽस्मि, रक्ष मामशरणमनाथमा-
र्तमँप्रतीकारक्षममात्मना त्वदायत्तजीवितम् । शरणगतपरित्राणं हि तपस्विनामपि धर्म एव ।
तयदि मामात्मर्मंदानेन नात्र संभावयसि तदा हतोऽहमाभ्यां कुसुमशरशिशिरॅकराभ्याम्'
इति । अहं तु तदाकर्ण्य धित्युित्तमाङ्गनिर्गतज्वा लेन रोपानलेन निर्दहन्तीव तम्, उन्मिषद्वा-
उपस्फुलिङ्गया दृष्ट्या तदेवर्जयन्तीव, आपादतलादुत्कम्पितगात्रयष्टिराविष्टेव, आत्मानमध्यचेत-
यमाना क्रोधावेगरूक्षाक्षरमवदम् - आंः पाप, कथमेवं वैदतो मामुत्तमाझे ते न निपतितं वज्रम् ?
अवशीर्णा वा न सहस्रधा जिह्वा ? विह्वलतां न गता वा वाणी ? नष्टानि वा नाक्षराणि ?
मन्ये च न सम्त्येव तेऽस्मिन्शरीरे सकललोकशुभाशुभसाक्षिभूतानि पञ्चमहाभूतानि । येनैवं
 
तत्तस्मात्कारणाचिराचिरकालेन देवस्य पुण्डरीकस्य पुनदर्शनप्रत्याशयां पुनरवलोकनवाञ्छ्या दुःखादसाता-
दुत्तरमुत्तरकालमङ्गीकृतमपि स्वीकृतमपि प्राणसंधारणं मे सम व्यर्थतां निष्फलतां यातं प्राप्तम् । इत्येवं विचि-
न्तयन्तीमेव ध्यायन्तीमेव स तु युवा मामुपसृत्य मत्समीपमागत्याब्रवीदवोचत् । किं तदित्याह - हे चन्द्र-
मुखि हे शशाङ्कमुखि, मामयं कुसुमशरः कामस्तस्य सहायः साहाय्यकारी चन्द्रमाः कुमुदबान्धवो हन्तुं व्यापा-
दयितुमुद्यत उद्युक्तः । तदिति हेत्वर्थे । शरणं त्राणमागतोऽस्मि । अशरणमत्राण मनाथ मनीश्वरमार्तं प्रपीडितम-
प्रतीकारक्षममप्रतिक्रियासहं मां रक्ष त्राहि । त्वदायत्तं जीवित प्राणितं यस्य स तम् । हि यस्मात्कारणात्तपस्विनां
तपोवतामप्ययं धर्म एव यच्छरणागतस्य रक्षणं त्राणम् । तद्यदि मामात्मप्रदानेन स्वार्पणेनात्र न संभावयसि
न संभावनाविषयीकरोषि तदाभ्यां कुसुमशरशिशिरकराभ्यां कामबाणचन्द्राभ्यामहं वैशम्पायनो हतो व्यापा-
दितोऽस्मि । इति पूर्वोक्तमहं महाश्वेता तदाकर्ण्य श्रुत्वा घिगिति धिगस्त्विति उत्तमाङ्गाच्छिरसो निर्गता प्रादु-
र्भूता ज्वालाचिर्यस्या एवंविधेव रोषानलेन क्रोधवह्निना तं वैशम्पायनं निर्दहन्तीव ज्वालयन्तीव उन्मिषन्तः
प्रकटीभवन्तो बाष्पस्फुलिङ्गा अश्रुवह्निकणा यस्यामेवंभूतया दृष्ट्या दृशा । तदव्यक्ते नपुंसकम् । आतर्जयन्तीव
तिरस्कुर्वन्तीव । आपादतलात्पादतलं मर्यादीकृत्योत्कम्पिता प्रचलिता गात्रयष्टिरमयष्टिर्यस्याः सा तथा ।
आविष्टेव भूतगृहीतेव । आत्मानमपि स्वमप्यचेतयमानाज्ञायमाना क्रोधस्य क्रुध आवेगस्त्वरिस्तेन रूक्षाक्षर -
मस्निग्धवर्ण यथा स्यात्तथावदमब्रवम् । आः पाप हे पापिष्ठ, एवं मां वदतो ब्रुवतः कथं ते तवोत्तमाङ्गे शिरसि
न निपतितं वज्रं पविः, सहस्रधा सहस्रप्रकारेण जिह्वा रसना नावशीर्णा न शटिता, वाणी भाषा विह्वलतां
विक्लवतां वा न गता, न नष्टानि वने प्रपलायितानि वाक्षराणि वर्णा वा । मन्येऽहं जाने च ते तवास्मिञ्शरीरे
देहे सकललोकानां समग्रजनानां शुभाशुभयोर्वर्यावर्ययोः पुण्यपापयोः साक्षिभूतानि पञ्चमहाभूतानि पृथि-
व्यप्तेजोवाय्वाकाशलक्षणानि न सन्त्येव एतदर्थे हेतुमाह - येनेति । येन कारणेनैवं वदन्ब्रुवन्नभिना
 
टिप्प० – 1 दुःखोत्तरं दुःखबहुलं, दुःसमुत्तरं ( अनन्तरम् ) वा यस्य, ईदृशं प्राणसंधारणमङ्गीकृत-
मपि व्यर्थतां यातम् । 2 'त्वदायत्तं मे जीवितम् ।' इत्येव पाठः । अन्यथा 'आत्मना इति पदस्यान्वयो
न घटेत । 'स्वदायत्तं मे' इति व्यस्तपाठे तु अशरणादिविशिष्टं माम् आत्मना (स्वशरीरेण ) रक्ष, इति
पूर्ववाक्यान्वयः । 3 सर्वमिदमसंगतम् । 'तदातर्जनायेव ( तस्य वैशम्पा० भर्त्सनायेव ) थापादतलात्
उत्कम्पितगात्रयष्टिः,' इति पाठः ।
 
पाठा० -१ चिरात्. २ अङ्गीकृत्य. ३ एवं एव. ४ अप्रतीकाराक्षमम्. ५ त्वदायत्तं मे जीवितम् ६ प्रसादेन.
७ शिशिर किरणाभ्याम् ८ झटिति, झगिति ९ तर्जनायैब १० हताश. ११ एवंवादिनस्तव नोत्तमाङ्गे •