This page has not been fully proofread.

वैशम्पायनस्य महाश्वताऽभिसार: ] उत्तरभागः ।
 
च्छयैव मंत्करग्रहणाय निर्वर्तितनानमिव स्वेदाम्भसा, न युक्तमेव ते परहृदयमविज्ञायोप-
गन्तुमिति पदे पढ़े निवार्यमाणमिन गुरुणोरुस्तम्भेन, दूरत एव मदालिङ्गनालीकाशया प्रसा-
रितभुजयुगलम्, उत्कलिकासहस्रविषमं रागसागर मिव प्रतरन्तम्, अनवरतप्रवृत्तैराकृष्य-
माणमिव पुरस्तादी घैर्निःश्वासमरुद्भिः उद्यमानमिव दिङ्मुखलाविना ज्योत्स्नापूरेण, रणरण-
कशून्यम्, उच्छुष्काननम्, प्रोन्मुक्तं सत्वेन, प्रतिपन्नं कृपणतया, अवधीरितं धैर्येण, संगृ-
हीतं तरलतया, विसर्जितं लज्जया, अधिगतं धाटन, दूरीकृतं परलोकमीत्या, विमुक्तं युक्ता-
युक्तविचारेण, संकल्पजन्मन एव केवलं वशे स्थितम् आविष्टमिव मत्तमिवोन्मादादापत-
न्तम्, दूरतोऽपि दिवसनिर्विशेषेण चन्द्रातपेन विभाव्यमानं तमेव युवानमद्राक्षम् ।
 
"
 
६१५
 
दृष्ट्वा च तं तादृशं निःस्पृहाण्यात्मनि पर भयमुपगतवती चेतेस्यचिन्तयम्- 'अहो,
कष्टमापतितम् । यद्यैयमुन्मादादागत्य पाणिनापि स्पृशति मां तदा मयेदमपुण्यहतकं शरीर-
"
 
>
 
जलेन निर्वर्तितस्त्रानमिव विहितालवमिव परहृदयमन्यचित्तमविज्ञायाज्ञात्वोपगन्तुं तत्समीपे यातुं ते तव
न युक्तमेव न न्याय्यमेवेति गुरुणा बृहत्तरेणोरुस्तम्भेन जङ्घास्थूणया पदे पदे निवार्यमाणमिव प्रतिषि-
ध्यमानमिव दूरत एव दविष्ठत एव मदालिङ्गनस्य मदीयोपगूहनस्यालीकाशया मिथ्यावाञ्छया प्रसा-
रितं विस्तारितं भुजयुगलं बाहुयुग्मं येन स तम् । उत्कलिका हँलेखास्तासां सहस्रं तेन विषमं व्याकुलं
रागसागरमिवानुरति समुद्रमिव प्रतरन्तमुत्तरन्तम् । अनवरतप्रवृत्तैर्निरन्तरप्रवर्तितैदी घैरायतैर्निःश्वासमरुद्भिः
घ्राणवायुभिः पुरस्तादग्र आकृष्यमाणमिवाकृष्टिं विधीयमानमिव दिब्युखप्लाविना दिग्वदनक्षालकेन ज्योत्स्ना-
पूरेण चन्द्रिकाप्रवाहेणोह्यमान मिव वहमानमिव रणरणकेनौत्सुक्येनोत्प्राबल्येन शुष्कं रुक्षमाननं मुखं यस्य स
तम् । सत्त्वेन साहसेन प्रोन्मुक्तं व्यक्तम्, कृपणतया प्रतिपन्नं दैन्यत्वेनाङ्गीकृतम्, धैर्येण धीरिम्णावधीरित-
मवहीलितम्, तरलतया परिलवनया संगृहीतं स्वीकृतम्, लज्जया त्रपया विसर्जितं दूरीकृतम्, धाटन
निर्लज्जतागुणेनाधिगतं प्राप्तम्, परलोकभीत्यागामिभवभयेन दूरीकृतम्, युक्तायुक्त विचारेण न्याय्यान्याय्य -
वितर्केण विमुक्तं व्यक्तम्, केवलं संकल्पजन्मन एव मनोभवस्यैव वशे तन्त्रे स्थितम्, आविष्टमिव भूतगृहीतमित्र,
मत्तमिव क्षीबमिव उन्मादाच्चित्तविलवत आपतन्तमागच्छन्तम् । दूरतोऽपि दविष्ठादपि दिवसान्निर्गतो वि-
शेषो यस्यैवंभूतेन । दिवससदृशेनेत्यर्थः । चन्द्रातपेन शशाङ्कालोकेन विभाव्यमानं प्रकाश्यमानम् । अहं तं युवा-
नमद्राक्षमित्यन्वयस्तु पूर्वमुक्तः ।
 
2
 
तं वैशम्पायनं तादृशं तथायस्थं दृष्ट्वा न निरीक्ष्य च निस्पृहापि गततृष्णाप्यात्मनि परं भयमुपगतवती
प्राप्तवती इति चेतसि चित्तेऽचिन्तयं चिन्तितवती । अहो इति खेदे । कष्टं कृच्छ्रमापतितम्, यद्ययं युवोन्मा-
दादागत्य मां पाणिना स्पृशति स्पर्श करोति तदा मया महाश्वेतयेदमपुण्यहतकं शरीरमुत्स्रष्टव्यमुज्झितव्यम् ।
 

 
टिप्प० - 1 धिक् ऊर्वोः स्तम्भः सात्विकभावेन जाऊयम् ( अचलनम् ) अत्र विवक्षितम् । 2 अनु-
रागः उत्कलिकाम् उत्कण्ठानां सहस्रेण दुस्तरः, सागरस्तु उत्कलिकानां तरङ्गाणां सहस्रेण अत एव
श्लेषोत्थापितः 'रागसागरः' इति रूपकालंकारः । भुजप्रसारणे च सागरोत्तरणस्योत्प्रेक्षा, इति सेयं प्रधा-
मम् । 3 ज्योत्स्त्रारूपेण प्रवाहेण लाव्यमानमिव ( तार्यमाणमिव ) । टीकाकारस्तु यथाजातः ।
 
पाठा० -- १ मकर. २ अदूरतः ३ प्रवृत्तेः• ४ रणकं. ५ धिकृतम् ६ भीषया. ७ अङ्गीकृतं स्वरुच्या विमुक्तम्,
 
८ केवलम् ९ अकरवम् १० कटतरम्. ११ यद्ययमेवमुन्मादात; यद्ययमेत्य स्वयमुन्मादात्.