कादम्बरी /647
This page has not been fully proofread.
६१४
कादम्बरी ।
[ कथायाम्-
दत्तम् । किं करोतु देवः सुगृहीतनामा पुण्डरीको यः परासुरेवोत्क्षिप्य नीतः । कपिञ्जलस्तु
जीवन्गतः, कथमियता कालेन गतेनापि निष्करुणेन वार्तापि मे न संपादिता' इत्येतानि
चान्यानि चालजालानि दुर्जीवितगृहीता चिन्तयन्ती जाग्रत्येवातिष्ठम् ।
अथ निभृतपदसंचरणम्, आ चरणादुत्कण्टकमनवरत निपतित मदनशरशल्य निकर नि-
चितमिव शरीरमुद्रहन्तम्, उद्विका सिकेतकरजः पटलघवलं प्रथमतरमेव भस्मसात्कृतमिव
मैदनहुतभुजा, भुजाप्रेण कुण्डलीकृत मृणालमुँपर्युषितशासनवलयमिवावश्यमरणाय सकल-
जगदप्रतिहतशासनेन कुसुमधन्वना विसर्जितं दधानम्, उद्भूतसाध्वसोत्कम्पतरलितया केत-
कीगर्भसूच्या क परं गम्यते हतोऽसि मयेति मन्मथप्रथमसहायस्य चन्द्रमसः केलयेव कर्णा-
मतलनया तर्ज्यमानम्, उद्वेगावर्जितेन नैंयनजलस्रोतसात्मने जलमिव प्रयच्छन्तम्, आत्मे-
-
नागतम् । देवः सुगृहीतजामा पुण्डरीकः किं करोतु कुर्यात् । यः परासुरेव मृत एवोत्क्षिप्योत्पाट्य नीतः प्रापितः ।
स्वर्गमिति शेषः । कपिजलस्तु जीवन्गतः । कथं तेनापीयता कालेन निष्करुणेन मे मम वार्तापि किंवदन्त्यपि
न संपादिता न विहिता । इत्येतानि च पूर्वोक्तान्यन्यानि च पुरो वक्ष्यमाणान्यालजालानि स्वप्नान्तर्गतप्रायाणि
दुर्दुष्टं यज्जीवितं तेन गृहीतात्मसात्कृता चिन्तयन्ती घ्यायन्ती जाग्रती सजागरैवातिष्ठं स्थिता ।
-
अथेति तदनन्तरम् । तमेव युवानमद्राक्षं व्यलोकयमिति दूरेणान्वयः । तमेव विशेषयन्नाह – निभृतेति ।
निभृतमशब्दं यथा स्यात्तथा पदानामग्रीणां संचरणं यस्य स तम् । आ चरणाचरणं मर्यादीकृत्य । उत्कण्टकम् ।
संजातरोमोद्गममित्यर्थः । एतादृशं शरीरं देहमुद्वहन्तं धारयन्तम् । अत एवोत्प्रेक्षते - अनवरतं निरन्तरं निप-
तिता लग्ना ये मदनशराः कंदर्पबाणास्तेषां शल्यनिकरस्तेन निचितमिव व्याप्तमिव । उद्विकास्युन्निद्रो यः केतकः
क्रकचच्छदस्तस्य रजःपटलं परागसमूहस्तद्वद्धवलं शुभ्रम् । अत एवोत्प्रेक्षते - प्रथमतरमेवादावेव मदनहुतभुजा
कामाग्निना भस्मसात्कृतमिव । शुक्लत्वसाम्याग्रस्मोपमानमित्यर्थः । भुजाग्रेण बाहुप्रान्तेन कुण्डलीकृतं कुण्डल-
वदाचरितं मृणालं बिसकटकं दधानं बिभ्राणम् । 'कटको वलयोऽस्त्रियाम्' इत्यमरः । शुक्लत्वसाम्यादुत्ने
क्षते - सकलजगत्यप्रतिहतमनिराकृतं शासनमाज्ञा यस्यैवंविधकुसुमधन्वना कंदर्पेणावश्यमरणाय निश्चितप्राण-
विमुक्तये विसर्जितं दत्तमुपर्युषितं स्थापितं शासनवलयमिवाज्ञावलयमिव । यथा कश्चित्सांयुगीनो राज्ञा दत्तम-
वश्यं सङ्ग्राममरणाय वीरवलयं भुजाग्रेण बध्नाति तथैवानेन भुजाग्रेणावश्यं मरणाय कंदर्पदत्तं शासनवलयं बद्ध-
मिवेति भावः । मन्मथस्य कंदर्पस्य प्रथमसहायस्यादावेव साहाय्यकारिणश्चन्द्रमसः कुमुदबान्धवस्य कलैया
षोडशांशेन कर्णान्तलग्नया श्रोत्रान्तप्राप्तयेति तर्ज्यमानमिव तिरस्क्रियमाणमिव । इतिद्योत्यमाह - उद्भूतेति
उद्भूतमुत्पन्नं यत्साध्वसं भयं तस्मादुत्कम्पस्तेन तरलितया चञ्चलया केतकीगर्भसूच्या ऋकचच्छदमध्यवर्ति-
त्रिपत्रकेण । 'त्रिपत्रकः सूचिरभिधीयते' इत्यमरः । तया, मया त्वं हतो व्यापादितोऽसि । अतः क्व
परमग्रे गम्यते । उद्वेगः संतापस्तेनावर्जितेन दत्तेन नयनजलस्रोतसा नेत्राम्बुप्रवाहेणात्मने स्वस्मै जल-
मिव प्रयच्छन्तं ददतम्, आत्मेच्छयैन स्वकीयवाञ्छयैव मत्करग्रहणाय मत्पाणिपीडनाय स्वेदाम्भसा धर्म-
टिप्प० -1 अपि चतुष्पादयं पशुः ? पदयोः संचरणमित्युचितम् । 2 तर्जनाथ 'तर्जनी' नामवाहिनी
अङ्गुलिरेव व्यवहियते, अत एव 'करशाखया' इत्येव पाठः सम्यक् । नायिकाया अनिच्छायामपि तरका-
'लाभिसरणेन भयं जातमिति तज्जनितकम्पवती कर्णान्तलग्ना केतकी गर्भत्रिपत्री नास्ति अपि तु तर्जनाय सेयं
चन्द्रमसोङ्गुलिरेवास्तीति सर्वस्याशयः । 3 'जलाअलिम्' इत्येव सम्यक् । अन्तसमये तस्यैव स्वारस्यात् ।
•पाठा० -१ आलजालानि; भालापजालानि. २ यद्दुर्जीवित ३ आचरण दुत्कण्टकितम्; आपतन्तं तमुत्कण्टकित-
तनुम् ४ उद्विकास केतक; उद्विकाशिकेतकी ५ मदनहतभुजाग्रेण ६ मृणालिकावलयम्, ७ अपर्युषित, अपर्युषितम्
८ अवश्यम्. ९ करशाखया. १० सलिल, ११ जलाअलिम्,