कादम्बरी /646
This page has not been fully proofread.
वैशम्पायनवृत्तश्रवणम् ]
उत्तरभागः ।
६१३
व्यति' इति । स तु निवार्यमाणोऽपि दुर्निवारवृत्तेर्मदनहतकस्य दोषैर्भवितव्यतया वानर्थस्य
नात्याक्षीदेवानुबन्धम् ।
अतीतेषु केषुचिदिवसेष्वेकदा गाढायां यामिन्याम्, उद्भिरत्स्विव भरेणोद्दीपितेस्मरानलं
ज्योत्स्नापूरमिन्दुमयूखेषु, लब्धनिद्रायां तरलिकायाम् अप्रीप्तसुखा संतापनिर्गत्यास्मिन्नेव
शिलातले विमुक्ताङ्गी, कहारसुरभिणा मन्दमन्दे नाच्छोदा निलेना
वीज्ये माना, वर्णसुधाकूर्च-
कैरिव करैर्धवलितदशाशामुखे चन्द्रमसि निहितदृष्टिः 'अपि नामायमेभिरमृतवर्षिभिरखि-
लजगदाहादकारिभिः करैश्चन्द्रमास्तमपि हृदयवल्लभं मे वर्षेत्' इत्याशंसाप्रसङ्गेन, देवस्य
सुगृहीतनाम्नः पुण्डरीकस्य स्मरन्ती, कथमभाग्यै मन्दपुण्यायास्त । दृशस्यापि दिव्या कृतेर्म-
हापुरुषस्य तस्य नभसोऽवतीर्णस्य भाषितमलीकमुपजातम् जातानुकम्पेन वा यथाकथं-
चिंजीवितुमित्येव समाश्वासिता जीवितप्रिया तपस्विन्यपि येन पुनदर्शनमेव तेन मैंम न
.
तस्य यूनोऽभद्रकमकल्याणं भविष्यतीति । स तु युवा तरलिकया निवार्यमाणोऽपि प्रतिषिध्यमानोऽपि दुर्निवारा
वारयितुमशक्या वृत्तिर्वर्तनं यस्यैवंभूतस्य मदनहतकस्य हत्याकारिणः कंदर्पस्य दोषैर्दूषणैरनर्थस्योत्पातस्य भवि-
तव्यतया वाप्रे भावितया वानुबन्धं स्नेहं नात्याक्षीन्न तत्याज ।
दिवसेषु केषुचिदतीतेषु गतेषु सत्सु, एकदैकस्मिन्समये गाढायां तीव्रायां यामिन्यामुद्दीपित उत्तेजितः स्मर
एवानलो वह्निर्येनैवंभूतं ज्योत्स्नापूरं चन्द्रिकासमूहमिन्दुमयूखेषु चन्द्रकिरणेषूद्विरत्सु विमुञ्चत्सु सत्सु, लब्धनिद्रायां
प्राप्तप्रमीलायां तरलिकायामप्राप्तमलब्धं सुखं सौख्यं यया सैवंविधाहं संतापं संज्वरं तस्यै निर्गत्या निर्गमनहेतु-
नास्मिन्नेव शिलातले विमुक्ताङ्गी न्यस्तदेहा कहारं सौगन्धिकं तेन सुरभिणा सुगन्धिना मन्दमन्देनाच्छोदानि-
लेनाच्छोदवायुना वीज्यमानोद्धूयमाना, वर्णसुधा श्वेतसुधा तस्याः कूर्चकैः कुञ्चिकाभिरिव करैः किरणैर्धवलितं
शुभ्रीकृतं दशसंख्याका या आशा दिशस्तासां मुखं येनैवंविधे चन्द्रमसि कुमुदबान्धवे निहिता स्थापिता दृष्टि-
ग्यया सा निहितदृष्टिः, अपि नामेति कोमलामन्त्रणे । अयं चन्द्र एभिरमृतवर्षिभिः पीयूषत्राविभिरत एवाखि-
लजगतः समग्र विश्वस्याह्लादकारिभिः प्रमोदजनकैः करैः किरणैः कृत्वा चन्द्रमाः शशाङ्को मे मम तमपि हृदय-
वल्लभं चित्तप्रियं वर्षेद्वृष्टिं कुर्यात् । इत्येवंरूपाशंसा स्पृहा तस्याः प्रसङ्गेन संबन्धेन देवस्य पूज्यस्य सुष्ठु गृहीतं
नाम यस्यैवंभूतस्य पुण्डरीकस्य स्मरन्ती स्मृतिपथमानयन्ती । 'अधीगर्थदयेशां कर्मणि' इति षष्ठी । मे मम
मन्दपुण्याया हीनसुकृताया अभाग्यैर्दुदैवैस्तस्य कपिलस्य नभसो व्योमादवतीर्णस्योत्तरितस्य तादृशस्य
दिव्याकृतेः सुन्दराकारस्य महापुरुषस्यापि कथं भाषितं जल्पितमलीकं मिथ्योपजातम् । वाथवा जातानुकम्पेन
समुत्पन्न करुणेन यथाकथंचित्प्रकारेण केवलं जीवितुं प्राणितुमित्येव हेतोः ममाश्वासिताश्वासनां कारिता येन
हेतुना जीवितप्रिया प्राणितवल्लभा तपस्विनी वरीक्यसि तेन हेतुना मम पुनदर्शनमेव न दत्तं पुनः समीपे
टिप्प० - 1 मत्प्रत्याशया अनुसरणमित्येवार्थः । 2 'अनवाप्तनिद्रासुखा' इत्येव पाठः । 3 धन्या
व्युत्पत्तिः ! 'निर्गत्या' इत्यनेन निःसारणरूपो णिजर्थः कथं प्रतीयेत? 'संतापानिर्गत्यास्मिन्नेव' इति पाठः ।
संतापवशाद बहिर्निर्गय असिन्नेव शिलातले विमुक्ताङ्गीति तदर्थः, यस्य सेयं दुर्दशा चन्द्रमहोदयेन
कृता । 4 कृपासिन्धो ! व्योमात् ( अर्थात् व्योम्नः ) न कपिञ्जलोऽवतीर्णः अपि तु स्वयं चन्द्र एवा-
वतीर्णः । कपिञ्जलस्तु गगने निलीनः । 5 शुद्ध प्रलापोयम् । 'जातानुकम्पेन वा यथाकथंचिजीवतु
जीवितप्रिया तपस्विनी इत्येवमेव समाश्वासितास्मि' इति पाठः । अर्थः स्पष्टः ।
पाठा० -१ दुर्निवार्य. २ चैकदा. ३ विगाढायाम् ४ रजन्याम् ५ उद्दीपितं ६ अप्राप्तनिद्रासुखा; अनवाप्त-
निद्रासुखा. ७ संतापनिर्गत्या. ८ सुगन्धिना. ९ वीज्यमाना. १० कारिकरै :. ११ तादृशोऽपि. १२ जीवतु जीवित-
प्रिया तपस्विनीत्येवमेव समाश्वासितास्मि १३ अनेन. १४ मे.