This page has not been fully proofread.

६१२
 
कादम्बरी ।
 
[ कथायाम-
तपश्चरणपरिक्लेशः, किं पुनराकृतिमतो जनस्य तदुःखयति मामयमस्यास्ते स्वभावसरसा-
यास्तनोर्मृणालिन्या इव तुहिनपातस्तपः परिवेशः । यदि च त्वादृशी जीवलोकसुखेभ्यः
पाखी तपसा केशयग्त्यात्मानं तदा वृथा वहति धनुरधिज्यं कुसुमकार्मुकः । निष्कारणे-
मुदयति चन्द्रमाः । वृथा वसन्तमासाभ्यागमः । निष्फलानि कुमुदकुवलय कहारकमलाकर -
विलसितानि । निष्फला जलदसमारम्भाडम्बराः । निरर्थकान्युपवनानि । किं ज्योत्त्रया,
किं वा लीलासरित्पुलिनैर्मलयानिलेन वा' इति ।
 
"
 
अहं तु देवस्य पुण्डरीकस्यैव वृत्तान्तादपेतकौतुका सर्वथा तं बदन्तम् 'अपि कस्त्वम्,
कुतो वा समायातः, किमर्थं वा मामेवमभिदधासि' इत्यपृष्ट्वान्यतोऽगच्छम् । गत्वा च
देवार्चनकुसुमा न्याचिन्वती तरलिकामाहूयात्रवम्
– 'तरलिके, योऽयं युवा कोऽपि ब्राह्मणा-

कृतिरस्यावलोकयतो वदतवान्यादृश एवाभिप्रायो मयोपलक्षितः । तन्निवार्यतामयं यथा
पुनरत्र नागच्छति । अथ निवारितोऽपि यद्यागमिष्यति तदावश्यमेवस्याभद्रकं भवि-
साक्षात्कृत्य परत्रसंबन्धी परभवसक्तस्तपश्चरणपरिक्लेशः शोभते शोभां प्राप्नोति । आकृतिमतः सौन्दर्योपेतस्य
जनस्य किं पुनः । भण्यत इति शेषः । तत्तस्मात्कारणांत्ते तव स्वभावेन प्रकृत्या सरसाया रसोपयुक्ताया
अस्यास्तनोदेहस्य मृणालिन्याः कमलिन्यास्तुहिनपात इव हिमनिपतनमिवायं तपःपरिक्लेशो मां दुःखयति
दुःखं करोति । यदि च त्वादृश्यनन्यरूपा जीवलोकसुखेभ्यः पराङ्मुखी निवर्तिताननात्मानं तपसा क्लेशयन्ती
शोषयन्ती; तदा कुसुमकार्मुकः कंदर्पोऽधिज्यं ज्यामधिरूढं धनुः कार्मुकं वृथा मुधा वहति धारयति । निष्का-
रणं निष्प्रयोजनं चन्द्रमाः शशाङ्क उदयत्युद्गच्छति । वृथा मुधा वसन्तमासस्य सुरभिमासस्याभ्यागम आगमनम् ।
कुमुदानि कैरवाणि, कुवलयानि श्वेतकंमलानि, कहारं सौगन्धिकम्, कमलानि पद्मानि, एतेषामाकराः समूहा-
स्तेषां विकसितानि हसितानि निष्फलानि निरर्थकानि । जलदस्य समारम्भः प्रारम्भस्तस्याडम्बरा: समाटोपा
निष्फला निरर्थकाः । उपवनानि आरामाणि निरर्थकानि निष्प्रयोजनानि । ज्योत्स्नया चन्द्रिकया किम् । न
किमपीत्यर्थः । लीलासरित्पुलिनैः क्रीडानदीसैकतैः किम् । किं वा मलयानिलेन मलयाचलमरुता वा किमिति ।
 
1
 
अहं तु देवस्य पुण्डरीकस्यैव वृत्तान्तादुदन्तादपेतं गतं कौतुकं कुतूहलं यस्याः सैवंविधा सर्वथा सर्वात्मना
तं वदन्तं ब्रुवन्तमपि कस्त्वं को भवान्, कुतो वा कस्मात्प्रदेशात्समायातः समागतः, किमर्थं वा किंप्रयो-
जनं मां महाश्वेताभिधानामेवमभिदधासि कथयसि इत्यपृष्ट्वैव प्रश्नमकृत्वैवान्यतोऽपर स्मिन्स्थ लेऽगच्छमत्र-
जम् । गत्वा च देवस्य महेशितुरर्चनं पूजनं तस्मै कुसुमानि पुष्पाण्याचिन्वत्यवचयं कुर्वन्ती तरलिकामाहूया-
ह्वायाब्रवमकथयम् । हे तरलिके, योऽयं प्रत्यक्षोपलभ्यो युवा तरुणः कोऽप्यनिर्दिष्टनामा ब्राह्मणस्य विप्र-
स्याकृतिराकारो यस्य स तथा । अस्य यूनोऽवलोकयतः पश्यतो वदतश्च ब्रुवतश्चान्यादृश इव कामिजनसदृश
इवाभिप्राय आशयो मयोपलक्षितो ज्ञातः । तत्तस्माद्धेतोरयं निवार्यतां प्रतिषिध्यताम् यथा पुनर्द्वितीयवारमत्र
मत्समीपे नागच्छति नाभ्येति । अथ निवारितोऽपि प्रतिषिद्धोऽपि यद्यागमिष्यति तदावश्यमेव निश्चितमेव
 
>
 
टिप्प० - 1 सर्वथा असंगतः पाठः । त्वादृशी 'आत्मानं क्लेशयति' इत्येवोचितः । 2 पाठान्तर करणेन
विरूपीकृतम् । 'कोऽयं युवा ब्राह्मणाकृतिः ? कोऽप्यस्याऽवलोकयतो वदतश्चान्यादृश एवाभिप्रायो
मयोपलक्षितः' इति पाठः । इदानीं यथेच्छमभिरोच्यतां सहृदयैः ।
 
पाठा० -१ अस्याः• २ उदेति ३ व्यर्थ: ० ४ च. ५ सर्वथा तथा; सर्व तथा ६ देवतार्चन, ७ अपचिन्वन्ती;
उच्चिन्वन्ती, ८ कोऽप्यस्य ९ विलोकयतः; न विलोक्यता. १० यदि. ११ अस्यैव.