2024-01-03 06:50:42 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
तस्या वैशम्पायनवृत्तकथनम् ] उत्तरभागः ।
सुखायमान इव, तूष्णीमपि स्थितः प्रार्थयमान इव, अष्टपृष्टोऽप्यावेद- यन्निवात्मीयामेवाव-
स्थाम्, [^१]अभिनन्दन्निव, अनुशोचन्निव, हृष्य- न्निव, कृष्यन्निव, विषीदन्निव, बिभ्यदिव,
अभिभवन्निव, हुत इव, आकाङ्क्षन्निव, अनुस्मरन्निव विस्मृतम्, अनिमेषेण निश्चलस्तब्ध-
पक्ष्म
पक्ष्म [^२]णान्तर्बाष्पपूरार्द्रेण कर्णान्तचुम्बिना विकसितेनेवा मुकु- लिततारकेण चक्षुषा मत्त इवा-
विष्ट इव वियुक्त इव पिबन्निवाकर्ष- न्निवान्तर्विशन्निव च सुचिरमालोक्याब्रवीत् -
[^३]'वैवरतनु, सर्व एव हि जगति जन्मनो वयस आकृतेवांर्वा सदृश- माचरन्न वचनीयतामेति ।
तब तव पुनरेकान्तवामप्रकृते [^४]र्विधेरिव विसदृशानुष्ठाने कोऽयं प्रयत्नः ? यदियमष्टिक्लिष्टमालतीसुकु-
मारा मालेबव कण्ठप्रणयैकयोग्या तनुरनुचितेनामुना के[^५]कष्टतरतपश्च- रणपरिक्लेशेन [^६]ग्लानिमुपनी-
यते । रूपवयसोरनुरूपेण सुम- नोहारिणी छलतेव रसाश्रयणा फलेन कथं न संयोज्यते ।
जातस्य हि रूपगुणविहीनस्यापि जन्मोपनतानि जीवलोक सुखान्यनुभूय शोभते [^७]परत्र संबन्धी
१
2
[ टि ]-
- वेति सुखायमान इव । तूष्णीमपि स्थितो मौनमाधाय स्थितोऽपि प्रार्थयमान इव यान्त्रांञ्चां कुर्वन्निव । 'तूष्णीकं तु
स्मृतं मौने मौनं शीले त्वनव्ययम्' इति विश्वः । अपृष्टोऽप्यप्रश्नीकृतोऽप्यात्मीयां ख
स्वकीयामेवावस्थां दशामावेदय -
न्निव ज्ञापयन्निव, अभिनन्दन्निव श्लाघां कुर्वन्निव, अनुशोचन्निव शुचं विदधदिव, हृष्यन्निव हर्षन्निव, कृष्यन्निव
विलिखचिन्निव, विषीदचिन्निव विषादं प्राप्नुवन्निव बिभ्यदिव भयं प्राप्नुवन्निव, अभिभवन्निव तिरस्कुर्वन्निव, हृत इव
मुषित इव, आका- ङ्क्षशिन्निव वाञ्छन्निव, विस्मृतमनुस्मरन्निव, अनिमेषेण निमेषरहितेन निश्चलं निष्कम्पं स्तब्धं
पक्ष्म नेत्ररोम यस्य तत्तथा तेनान्तर्बाष्पो मध्यागताश्रु । क्वचित् 'क्षरद्वाष्प' इति पाठः । तस्य पूरः समूहस्तेना-
र्द्रेणोन्नेन कर्णान्तं श्रोत्रान्तं चुम्बतीत्येवंशीलेन कर्णान्तचुम्बिना । अत एव विकसितेनेव विनिद्रेणेवामुकुलिता कुड्य-
मलिता तारका कनीनिका यस्मिंस्तत्तथा तेन । एवं विधेन चक्षुषा नेत्रेण मत्त इव क्षीब इव, आविष्ट इव भूतग्रस्त
इव, वियुक्त इव विभिन्न इव, पिब- न्निव पानं कुर्वन्निव । अत्यादरेणावलोकनं पानमिति प्राञ्चः । आकर्षन्निवा-
कर्षणं कुर्वन्निव; - अन्तर्विशन्निव मध्ये प्रवेशं विदधदिव च, सुचिरं बहुकालमालोक्य निरीक्ष्याब्रवीदवोचत् ।
हे वरतनु प्रशस्तदेहे, सर्व एव हि जनो जगति लोके जन्मन उत्पत्तेर्वं- र्वयसोऽवस्थाया आकृते रूपस्य वा
सदृशमनुरूपमाचरन्कुर्वाणो न वचनीयतां निन्द्यतामेति गच्छति । तव भवत्याः पुनरेकान्तेन निश्चये- न वामा
प्रतिकूला प्रकृतिः खस्वभावो यस्यैवं [^1]भूतस्य विधेरिव विधातुरिव विसदृशानुष्ठानेऽसदृशाचरणे कोऽयं प्रयत्नः
प्रयासः । यद्यस्मादियं तनुः शरीरमक्लिष्टाऽव्यथिता या मालती जातिस्तद्वत्सु- कुमारा सुकोमला मालेव स्रगिव
कण्ठे यः प्रणयो रक्षणस्नेहस्तत्रै- काद्वितीया केवलं वा योग्योचिताऽमुनानुचितेनायोग्येन कष्टतरं यत्तपश्चरणं
तस्य परिक्लेशः परिश्रमस्तेन ग्लानिं म्लानिमुपनीयते प्राप्यते । रूपं सौन्दर्ययं वयोऽवस्थाविशेषस्तयोर नुरूपेण
योग्येन रसं माधुर्यादिलं [^2]लक्षणमाश्रयतीत्येवंशीलेन फलेन साध्येन कथं न संयोज्यते संयुक्तीक्रियते । केव । लतेव
वल्लीव । यथा लता फलेन संयोज्यते । उभयोः साम्यमाह - सुमनोहारिणी सुमनसः पुष्पाणि ताभिर्हारिणी
रुचिरा तनुः । पक्षे सुमनसः सज्जनास्तेषां हारिणी मनोज्ञा । हि यस्मात्कारणाद्रूपगुणादिविहीनस्यापि सौन्दर्य-
गुणरहितस्यापि जातस्योत्पन्नस्य जन्तोर्जन्मन्युपनतानि प्राप्तानि जीवलोकसुखानि सांसारिकसौख्यान्यनुभूय
टिप्प० -
[^1]F. यथा विधिर्वामस्वभावस्तथा स्वमपि विलास परित्यागात् वयसोननुरूपस्य तपसश्चाचर-
णात् वामस्वभावेत्युपमा ।
[^2]F. रसाश्रयिणा रसाधिष्ठानभूतेन ( रसिकेन ) फलेन यौवनोप- भोगस्य फल-
स्वरूपेण न संयोज्यते तनुरिति स्पष्टीकरणीयम् ।
पाठा० -
[^१]G. अभिनिन्दन्.
[^२]G. क्षरद्वाष्प.
[^३]G. सुतनु.
[^४]G. विधो: .
[^५]G. कष्टतमेन तपश्चरण, .
[^६]G. म्लानिमूम्.
[^७]G. फलसंबन्धी.