We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

तस्या वैशम्पायनवृत्तकथनम् ] उत्तरभागः ।
 
सुखायमान इव, तूष्णीमपि स्थितः प्रार्थयमान इव, अष्टष्टोऽप्यावेदयन्निवात्मीयामेवाव-
स्थाम्, अभिनन्दन्निव, अनुशोचन्निव हृष्यन्निव, कृष्यन्निव, विषीदन्निव, बिभ्यदिव,
अभिभवन्निव, हुत इव, आकाङ्क्षन्निव, अनुस्मरन्निव विस्मृतम्, अनिमेषेण निश्चलस्तब्ध-
पक्ष्मणान्तर्बाष्पपूरार्द्रेण कर्णान्तचुम्बिना विकसितेनेवा मुकुलिततारकेण चक्षुषा मत्त इवा-
विष्ट इव वियुक्त इव पिबन्निवाकर्षन्निवान्तर्विशन्निव च सुचिरमालोक्याब्रवीत् -
 
'वैरतनु, सर्व एव हि जगति जन्मनो वयस आकृतेवां सदृशमाचरन्न वचनीयतामेति ।
तब पुनरेकान्तवामप्रकृतेर्विधेरिव विसदृशानुष्ठाने कोऽयं प्रयत्नः ? यदियमष्टिमालतीसुकु-
मारा मालेब कण्ठप्रणयैकयोग्या तनुरनुचितेनामुना केष्टतरतपश्चरणपरिक्लेशेन ग्लानिमुपनी-
यते । रूपवयसोरनुरूपेण सुमनोहारिणी छतेव रसाश्रयणा फलेन कथं न संयोज्यते ।
जातस्य हि रूपगुणविहीनस्यापि जन्मोपनतानि जीवलोक सुखान्यनुभूय शोभते परत्र संबन्धी
 

 
2
 
-
 
वेति सुखायमान इव । तूष्णीमपि स्थितो मौनमाधाय स्थितोऽपि प्रार्थयमान इव यान्त्रां कुर्वन्निव । 'तूष्णीकं तु
स्मृतं मौने मौनं शीले त्वनव्ययम्' इति विश्वः । अपृष्टोऽप्यप्रश्नीकृतोऽप्यात्मीयां खकीयामेवावस्थां दशामावेदय -
निव ज्ञापयन्निव, अभिनन्दन्निव श्लाघां कुर्वन्निव, अनुशोचन्निव शुचं विदधदिव, हृष्यन्निव हर्षन्निव, कृष्यन्निव
विलिखचिव, विषीदचिव विषादं प्राप्नुवन्निव बिभ्यदिव भयं प्राप्नुवन्निव, अभिभवन्निव तिरस्कुर्वन्निव, हृत इव
मुषित इव, आकाङ्क्षशिव वाञ्छन्निव, विस्मृतमनुस्मरन्निव, अनिमेषेण निमेषरहितेन निश्चलं निष्कम्पं स्तब्धं
पक्ष्म नेत्ररोम यस्य तत्तथा तेनान्तर्बाष्पो मध्यागताश्रु । क्वचित् 'क्षरद्वाष्प' इति पाठः । तस्य पूरः समूहस्तेना-
र्द्रेणोन्नेन कर्णान्तं श्रोत्रान्तं चुम्बतीत्येवंशीलेन कर्णान्तचुम्बिना । अत एव विकसितेनेव विनिद्रेणेवामुकुलिता कुड्य-
लिता तारका कनीनिका यस्मिंस्तत्तथा तेन । एवं विधेन चक्षुषा नेत्रेण मत्त इव क्षीब इव, आविष्ट इव भूतग्रस्त
इव, वियुक्त इव विभिन्न इव, पिबन्निव पानं कुर्वन्निव । अत्यादरेणावलोकनं पानमिति प्राञ्चः । आकर्षन्निवा-
कर्षणं कुर्वन्निव; - अन्तर्विशन्निव मध्ये प्रवेशं विदधदिव च, सुचिरं बहुकालमालोक्य निरीक्ष्याब्रवीदवोचत् ।
 
हे वरतनु प्रशस्तदेहे, सर्व एव हि जनो जगति लोके जन्मन उत्पत्तेर्वंयसोऽवस्थाया आकृते रूपस्य वा
सदृशमनुरूपमाचरन्कुर्वाणो न वचनीयतां निन्द्यतामेति गच्छति । तव भवत्याः पुनरेकान्तेन निश्चयेन वामा
प्रतिकूला प्रकृतिः खभावो यस्यैवंभूतस्य विधेरिव विधातुरिव विसदृशानुष्ठानेऽसदृशाचरणे कोऽयं प्रयत्नः
प्रयासः । यद्यस्मादियं तनुः शरीरमक्लिष्टाऽव्यथिता या मालती जातिस्तद्वत्सुकुमारा सुकोमला मालेव स्रगिव
कण्ठे यः प्रणयो रक्षणस्नेहस्तत्रैकाद्वितीया केवलं वा योग्योचिताऽमुनानुचितेनायोग्येन कष्टतरं यत्तपश्चरणं
तस्य परिक्लेशः परिश्रमस्तेन ग्लानिं म्लानिमुपनीयते प्राप्यते । रूपं सौन्दर्य वयोऽवस्थाविशेषस्तयोर नुरूपेण
योग्येन रसं माधुर्यादिलंक्षणमाश्रयतीत्येवंशीलेन फलेन साध्येन कथं न संयोज्यते संयुक्तीक्रियते । केव । लतेव
वल्लीव । यथा लता फलेन संयोज्यते । उभयोः साम्यमाह - सुमनोहारिणी सुमनसः पुष्पाणि ताभिर्हारिणी
रुचिरा तनुः । पक्षे सुमनसः सज्जनास्तेषां हारिणी मनोज्ञा । हि यस्मात्कारणाद्रूपगुणादिविहीनस्यापि सौन्दर्य-
गुणरहितस्यापि जातस्योत्पन्नस्य जन्तोर्जन्मन्युपनतानि प्राप्तानि जीवलोकसुखानि सांसारिकसौख्यान्यनुभूय
 
टिप्प० -1 यथा विधिर्वामस्वभावस्तथा स्वमपि विलास परित्यागात् वयसोननुरूपस्य तपसश्चाचर-
णात् वामस्वभावेत्युपमा । 2 रसाश्रयिणा रसाधिष्ठानभूतेन ( रसिकेन ) फलेन यौवनोपभोगस्य फल-
स्वरूपेण न संयोज्यते तनुरिति स्पष्टीकरणीयम् ।
 
पाठा० - १ अभिनिन्दन्. २ क्षरद्वाष्प. ३ सुतनु. ४ विधो: ५ कष्टतमेन तपश्चरण, ६ म्लानिमू. ७ फलसंबन्धी.