कादम्बरी /643
This page has been fully proofread once and needs a second look.
दुःखमात्मीयं श्रावितम्, सैवाहं मन्दभाग्या महाभाग, जीवितव्यस- निनी निर्लज्जा [^१]निर्घृणा च दुःश्रवणमपि श्रावयामि [^२]दुःख- मिदम् । श्रूयताम् । केयूरका [^३]द्भवद्गमनमाकर्ण्य [^४]विदीर्य- माणमनसा न मया चित्ररथस्य मनोरथः पूरितः,न मदिरायाः प्रार्थना कृता, नात्मनः समीहितं संपादितम् न [^५]गृहाभ्यागतस्य चन्द्रा-
पीडस्य प्रियमनुष्ठितम्, न चापि हृदयवल्लभसमागमनिर्वृ [^६]ता प्रियसखी कादम्बरी वीक्षितेत्युत्पन्नानेकगुणवैराग्या गाढबन्धान्का-
दम्बरीस्नेहपाशानपि [^७]छित्त्वा पुनः कष्टतरतपश्चरणायात्रैवाया- ता, यावदत्र महाभागस्येव [^८]तुल्याकृतिमुन्मुक्तमिवान्तःकरणेन शून्यशरीरमुत्तरलमुखमुत्प्लुताबद्धलक्ष्यशून्यया दृष्ट्या प्रनष्टमिव किमपीतस्ततो विलोकयन्तं ब्राह्मणयुवानमपश्यम् । स तु मामुप- सृत्यानन्यदृष्टिरदृष्टपूर्वोऽपि प्रत्यभिजानन्निव, असंस्तुतोऽपि चिरप
रिचित इव, असंभावितोऽप्युपारूढप्रौढप्रणय इव, अस्निग्धोऽपि परवानिव, प्रेम्णा शून्योऽपि किमप्यनुस्मरन्निव, दुःखिताकारोऽपि
[ टि ]-- स्वकीयं दुःखमसातं श्रावितं श्रवणगोचरीकारितम् । हे महाभाग, सैवाहं मन्दभाग्या हीनादृष्टा जीवितव्ये व्यसन -
मासक्ति- र्यस्याः सा तथा निर्लज्जा निस्त्रपा निर्घृणा निष्करुणा चेदं दुःखं दुष्टं श्रवणमाकर्णनं यस्येति दुःश्रवणमे-
तादृशमपि श्रावयामि श्रुतिगोचरी- कारयामि श्रूयतामाकर्ण्यतामिति । केयूरकाद्भवद्गमनं तव प्रस्थान माकर्ण्य विदीर्य -
माणं मनो मानसं यस्याः तथा । स्फुटमानहृदयये- त्यर्थः । मया महाश्वेतया चित्ररथस्य [^1]पितुर्मनोरथोऽभिलाषो
न पूरितो न पूर्णांणीकृतः । नापि मदिराया मातुः प्रार्थना याच्याञ्चा कृता । नात्मनः स्वकीयस्य समीहितं वाञ्छितं
संपादितं निष्पादितम् । न गृहाभ्यागतस्य स्वकीयसदनागतस्य चन्द्रापीडस्य प्रिय मिष्टमनुष्ठि-
तमादरितम् । न चापि
हृदयस्य चेतसो वल्लभो जनस्तस्य समा- गमेन निर्वृता संजातसंतोषा, एतादृशी प्रियसखी वल्लभवयस्या कादम्बरी
वीक्षिता विलोकितेति हेतोरुत्पन्नं प्रादुर्भूतं यदनेकगुण- मुत्कृष्टं वैराग्यं विरागता [^2]तस्यासमन्ताद्गाढै [^3]ढबन्धोऽत्युप्रप्र
ग्र- ग्रन्थिस्तस्मात्कादम्बरीस्नेहपाशानपि छित्त्वा छेदं विधाय पुनर्द्विती-
यवारं कष्टतरमत्युग्रतरं यत्तपश्चान्द्रायणादि तस्य
चरणायासेवना- यात्रैव गुम्फायामेव यावत् आयातागता तावत्, अत्र महाभागस्य भवतस्तुल्याकृतितिं सदृशा-
कारमन्तःकरणेन चित्तेनोन्मुक्तमिव त्यक्तमिव, अत एव शून्यशरीरमिन्द्रियव्यापाररहितदेहमुत्तरलमु-
खमुत्कम्प्रं
मुखं यस्य स तमुत्प्लुतमुत्पतिर् [^4]तमाबद्धं यल्लक्ष्यं वेध्यं तेन शून्यया निरवधानया दृष्ट्या दृशा प्रनष्टमिव गतमिव
किमपि किंचिदितस्त्रततोऽपि विलोक्यन्तं पश्यन्तं ब्राह्मणयुवानमप- श्यं व्यलोकयम् । स तु मामुपसृत्य मत्समीपमागत्य
नान्यस्मिन्दृष्टि- र्यस्य स तथादृष्टपूर्वोऽप्यनिरीक्षितपूर्वोऽपि प्रत्यभिजानन्निव सोऽयं देवदत्त इति प्रत्यभिज्ञानप्रत्यक्षे-
णावगच्छन्निव, असंस्तुतोऽप्यपरिचि- तोऽपि चिरपरिचित इव बहुकालविहितपरिचितिरिव, असंभावितो- ऽप्य-
संभावनाविषयीकृतोऽप्युपारूढोऽङ्कुरितः प्रौढो महान्प्रणयः स्नेहो यस्मिन्नेतादृश इव, अस्निग्धोऽप्यवत्सलोsऽपि पर-
वानिव परा- धीन इव । 'परतन्त्रः पराधीनः परवान्नाथवानपि इत्यमरः । प्रेम्णा स्नेहेन शून्योऽपि किमप्यनुस्मर-
न्निव किंचित्स्मृतिगोचरीकुर्वन्निव, दुःखितो दुःखं प्राप्त आकारो यस्यैवंविधोऽपि सुखमिवाचरतीति [^5]सुखायते
टिप्प० - [^1]F. पूर्वकथामपि विस्मृतवान् । चित्ररथ - मदिरे कादम्बर्याः पिता च माता च ।
[^2]F. यस्याः
सा, ईदृश्यहमिति व्याख्यातव्यम् ।
[^3]F. गाढो बन्धो येषाम् अतिनिबिडो ग्रन्थिर्येषां तान्, इति व्याख्या
बोद्धव्या ।
[^4]F. उत्सुप्लुता बाप्ष्पाच्छन्ना, अबद्धलक्ष्या (अस्थिरा) निर्विषया या (दृष्टि: ) तथा ।
[^5]F. घोरम-
ज्ञानं वशकस्य । सुखं वेदयन्निवेति सुखायमान इव, सुखं मम संजातमिति प्रकटय न्निवेत्याशयः । 'सुखा-
दिभ्यः कर्तृवेद- नायाम्' इति क्यङ्ग ।
पाठा० -[^१]G. निष्करणापि ० .
[^२]G. श्रूयताम् .
[^३]G. भवती गमनम्; भवदागमनम्.
[^४]G. विदीर्णमानसा.
[^५]G. गृहात्प्रत्या•
गतस्य.
[^६]G. निवृत्ता.
[^७]G. भित्त्वा.
[^८]G. तुल्यवयसमाकृतिमन्तम्.
da
1
पीडस्य प्रियमनुष्ठितम्, न चापि हृदयवल्लभसमागमनिर्वृ [^६]ता प्रियसखी कादम्बरी वीक्षितेत्युत्पन्नानेकगुणवैराग्या गाढबन्धान्का-
दम्बरीस्नेहपाशानपि [^७]छित्त्वा पुनः कष्टतरतपश्चरणायात्रैवाया- ता, यावदत्र महाभागस्येव [^८]तुल्याकृतिमुन्मुक्तमिवान्तःकरणेन शून्यशरीरमुत्तरलमुखमुत्प्लुताबद्धलक्ष्यशून्यया दृष्ट्या प्रनष्टमिव किमपीतस्ततो विलोकयन्तं ब्राह्मणयुवानमपश्यम् । स तु मामुप- सृत्यानन्यदृष्टिरदृष्टपूर्वोऽपि प्रत्यभिजानन्निव, असंस्तुतोऽपि चिरप
रिचित इव, असंभावितोऽप्युपारूढप्रौढप्रणय इव, अस्निग्धोऽपि परवानिव, प्रेम्णा शून्योऽपि किमप्यनुस्मरन्निव, दुःखिताकारोऽपि
[ टि ]-- स्वकीयं दुःखमसातं श्रावितं श्रवणगोचरीकारितम् । हे महाभाग, सैवाहं मन्दभाग्या हीनादृष्टा जीवितव्ये व्यसन
न पूरितो न पूर्
तमादरितम् । न चापि
यवारं कष्टतरमत्युग्रतरं यत्तपश्चान्द्रायणादि तस्य
खमुत्कम्प्रं
किमपि किंचिदितस्
[^2]F. यस्याः
[^3]F. गाढो बन्धो येषाम् अतिनिबिडो ग्रन्थिर्येषां तान्, इति व्याख्या
[^4]F. उत्
[^5]F. घोरम
[^२]G. श्रूयताम्
[^३]G. भवती गमनम्; भवदागमनम्.
[^४]G. विदीर्णमानसा.
[^५]G. गृहात्प्रत्या
[^६]G. निवृत्ता.
[^७]G. भित्त्वा.
[^८]G. तुल्यवयसमाकृतिमन्तम्.
1