2024-01-03 06:57:22 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६१
 
कादम्बरी ।
 
[ कथायाम्-
दुःखमात्मीयं श्रावितम्, सैवाहं मन्दभाग्या महाभाग, जीवितव्यस- निनी निर्लज्जा
[^१]निर्घृणा च दुःश्रवणमपि श्रावयामि [^२]दुःख- मिदम् । श्रूयसाताम् । केयूरका [^३]द्भवैद्गमनमाकर्ण्य
[^४]विदीर्य- माणमनसा न मया चित्ररथस्य मनोरथः पूरितः, न मदिरायाः प्रार्थना कृता,
नात्मनः समीहितं संपादितम् न [^५]गृहाभ्यागतस्य चन्द्रा-
पीडस्य प्रियमनुष्ठितम्, न चापि
हृदयवल्लभसमागमनिर्वृती [^६]ता प्रियसखी कादम्बरी वीक्षितेत्युत्पन्नानेकगुणवैराग्या गाढबन्धान्का-
न्का

दम्बरीस्नेहपाशानपि [^७]छित्त्वा पुनः कष्टतरतपश्चरणायात्रैवाया- ता, यावदत्र महाभागस्येव
[^८]तुल्याकृतिमुन्मुक्तमिवान्तःकरणेन शून्यशरीरमुत्तरलमुखमुत्प्लुताबद्धलक्ष्यशून्यया दृष्ट्या प्रन-
ष्टमिव किमपीतस्ततो विलोकयन्तं ब्राह्मणयुवानमपश्यम् । स तु मामुप- सृत्यानन्यदृष्टिरदृष्ट-
पूर्वोऽपि प्रत्यभिजानन्निव, असंस्तुतोऽपि चिरप
रिचित इव, असंभावितोऽप्युपारूढप्रौढप्र-
णय इव, अस्निग्धोऽपि परवानिव, प्रेम्णा शून्योऽपि किमप्यनुस्मरन्निव, दुःखिताकारोऽपि
 

 
[ टि ]-- स्व
कीय॑यं दुःखमसातं श्रावितं श्रवणगोचरीकारितम् । हे महाभाग, सैवाहं मन्दभाग्या हीनादृष्टा जीवितव्ये व्यसन -

मासक्तिर्यस्याः सा तथा निर्लज्जा निस्त्रपा निर्घृणा निष्करुणा चेदं दुःखं दुष्टं श्रवणमाकर्णनं यस्येति दुःश्रवणमे-

तादृशमपि श्रावयामि श्रुतिगोचरीकारयामि श्रूयतामाकर्ण्यतामिति । केयूरकाद्भवद्गमनं तव प्रस्थानमाकर्ण्य विदीर्य -

माणं मनो मानसं यस्याः तथा । स्फुटमानहृदययेत्यर्थः । मया महाश्वेतया चित्ररथस्य पितुर्मनोरथोऽभिलाषो

न पूरितो न पूर्णांकृतः । नापि मदिराया मातुः प्रार्थना याच्या कृता । नात्मनः स्वकीयस्य समीहितं वाञ्छितं

संपादितं निष्पादितम् । न गृहाभ्यागतस्य स्वकीयसदनागतस्य चन्द्रापीडस्य प्रिय मिष्टमनुष्ठितमादरितम् । न चापि

हृदयस्य चेतसो वल्लभो जनस्तस्य समागमेन निर्वृता संजातसंतोषा, एतादृशी प्रियसखी वल्लभवयस्या कादम्बरी

वीक्षिता विलोकितेति हेतोरुत्पन्नं प्रादुर्भूतं यदनेकगुणमुत्कृष्टं वैराग्यं विरागता तस्यासमन्ताद्गाढैबन्धोऽत्युप्रप्र

न्थिस्तस्मात्कादम्बरीस्नेहपाशानपि छित्त्वा छेदं विधाय पुनर्द्वितीयवारं कष्टतरमत्युग्रतरं यत्तपश्चान्द्रायणादि तस्य

चरणायासेवनायात्रैव गुम्फायामेव यावत् आयातागता तावत् अत्र महाभागस्य भवतस्तुल्याकृति सदृशा-

कारमन्तःकरणेन चित्तेनोन्मुक्तमिव त्यक्तमिव, अत एव शून्यशरीरमिन्द्रियव्यापाररहितदेहमुत्तरलमुखमुत्कम्प्रं

मुखं यस्य स तमुत्तमुत्पतिर्तमाबद्धं यक्ष्यं वेध्यं तेन शून्यया निरवधानया दृष्ट्या दृशा प्रनष्टमिव गतमिव

किमपि किंचिदितस्त्रतोऽपि विलोक्यन्तं पश्यन्तं ब्राह्मणयुवानमपश्यं व्यलोकयम् । स तु मामुपसृत्य मत्समीपमागत्य

नान्यस्मिन्दृष्टिर्यस्य स तथादृष्टपूर्वोऽप्यनिरीक्षितपूर्वोऽपि प्रत्यभिजानन्निव सोऽयं देवदत्त इति प्रत्यभिज्ञानप्रत्यक्षे-

णावगच्छन्निव, असंस्तुतोऽप्यपरिचितोऽपि चिरपरिचित इव बहुकालविहितपरिचितिरिव, असंभावितोऽप्य-

संभावनाविषयीकृतोऽप्युपारूढोऽङ्कुरितः प्रौढो महान्प्रणयः स्नेहो यस्मिन्नेतादृश इव, अस्निग्धोऽप्यवत्सलोsपि पर-

वानिव पराधीन इव । 'परतन्त्रः पराधीनः परवान्नाथवानपि इत्यमरः । प्रेम्णा स्नेहेन शून्योऽपि किमप्यनुस्मर-

न्निव किंचित्स्मृतिगोचरीकुर्वन्निव, दुःखितो दुःखं प्राप्त आकारो यस्यैवंविधोऽपि सुखमिवाचरतीति सुखायते
 

 
टिप्प० - 1 पूर्वकथामपि विस्मृतवान् । चित्ररथ - मदिरे कादम्बर्याः पिता च माता च । 2 यस्याः

सा, ईदृश्यहमिति व्याख्यातव्यम् । 3 गाढो बन्धो येषाम् अतिनिबिडो ग्रन्थिर्येषां तान्, इति व्याख्या

बोद्धव्या । 4 उत्सुता बाप्पाच्छन्ना, अबद्धलक्ष्या (अस्थिरा) निर्विषया या (दृष्टि: ) तथा । 5 घोरम-

ज्ञानं वशकस्य । सुखं वेदयनिवेति सुखायमान इव, सुखं मम संजातमिति प्रकटय निवेत्याशयः । 'सुखा-

दिभ्यः कर्तृवेदनायाम्' इति क्यङ्ग ।
 

 
पाठा० -१ निष्करणापि ० २ श्रूयताम् ३ भवती गमनम्; भवदागमनम्. ४ विदीर्णमानसा. ५ गृहात्प्रत्या•

गतस्य. ६ निवृत्ता. ७ भित्वा. ८ तुल्यवयसमाकृतिमन्तम्.
 

 
da
 

 
1