2024-01-03 09:43:53 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उत्तरभागः ।
 
६०९
 
महाश्वेताश्रमे गमनम्
[^१]
 
www.
 
तं
त्र च प्रविशन्नेवावतीर्य महाश्वेतावलोकनकुतूहलात्पश्चादाकृ-ष्टेने [^२]न्द्रायुधपरिजनेनानुग-
म्यमानो विवेश । प्रविश्य च गुहाद्वार एव धवलशिलातले समुपविष्टामधोमुखीमसहाह्यमन्युवेगो-
कम्पित र्वावयवामनवरतनयन
- र्वावयवामनवरतनयनजलवर्षिणीमुच्चण्डवाताहतां लतामिवोद्वाष्प- दीनदृष्ट्या कथं-
कथमपि तरलिकया विवृधृतशरीरां महाश्वेतामपश्यत् । दृष्ट्वा च तां तादृशीमस्योदगापादि हृदये-
'मा नाम देव्याः कादम्बर्या एव किमप्यनिष्टमुत्पन्नं भवेत् । येनेयमीदृश्यवस्था हर्षहेतावपि
मदा- गमनेऽनुभूयते महाश्वेतया ।' इत्याशङ्काभिनंन्नहृदयोऽयमुड्डीनैरिव प्राणैः पदे पदे स्खल-
शि
न्निव पतन्निव मुह्यन्निवोपसृत्योपविश्य च तस्यैव शिलातलस्यैकदेशे प्रोद्वाष्पविषण्णवदनः
किमेतदिति तरलिकाम- पृच्छत् । सा तु तथावस्थाया अपि महाश्वेताया एव मुखमवलोकि- तवती ।
 

 
अथानुपसंहृतमन्युवेगापि गद्गदिकावगृह्यमाणकण्ठा महाश्वेतैव प्रत्यवादीत् – "महाभाग,
किमियमावेदयति राकी । यया दुःखा- भिघातैककठिनहृदयया [^४]पुनरध्प्यदुःखश्रवणार्हेऽपि
 

 
[ टि ]--
तत्र च तदाश्रमे प्रविशन्नेव प्रवेशं कुर्वन्नेवावतीर्यावतरणं कृत्वा । अश्वादिति शेषः । महाश्वेताया अवलो
कनं निरीक्षणं तस्मिन्यत्कुतूहलमाश्चर्यं तस्मात्पश्चादाकृष्टेनाकर्षितेनेन्द्रायुधस्य परिजनः परिच्छदस्तेनानुंनुगम्य-
मानोऽनुयायमानो विवेश प्रवेशं कृतवान् । प्रविश्य च प्रवेशं कृत्वा च गुहाद्वारे या धवलशिला तस्यास्तले
समुपविष्टां निषण्णामधोमुखीं नीचैर्मुखीं महाश्वेता- मपश्ययलोकयत् । कीदृशीम् । असह्यो विसोढुमशक्यो यो
मन्युः क्रोधः शोको वा । 'मन्युशोकौ तु शुक् स्त्रियाम्' इत्यमरः । तस्य वेगो रयस्तेनोत्कम्पिता उच्चलिताः
सर्वावयवाः समग्रापघना यस्याः सा ताम् । अनवरतं निरन्तरं नयनजलं नेत्राम्बु वर्षतीत्येवंशीला सा ताम् ।
अत एवोत्प्रेक्ष्यते - उच्चण्डोऽत्युग्रो यो वातो वायुस्तेनाहतां ताडितां लतामिव । 'उच्चण्डस्त्वतिकोपनः' इति
हैमः । उद्वाष्पो- द्गताश्रुरेवंविधा दीना दुःखिता दृष्टिर्दृग्यस्या एतादृश्या तरलिकया कथंकथमपि महता कष्टेन
विधृतं धारितं शरीरं यस्याः सा ताम् दृष्ट्वा च निरीक्ष्य च तादृशीं तथावस्थां महाश्वेताम् अस्य चन्द्रापीडस्य
- स्य हृदय उदपाद्युत्पन्नम् । तदेव प्रकटयन्नाह – नामेति कोमला- मन्त्रणे । देव्याः कादम्बर्या एव किमप्यनिर्दिष्ट-
नाम कमनिष्ट
मशिव- मुत्पन्नं प्रादुर्भूतं भवेत् । येन हेतुनेयं प्रत्यक्षोपलभ्येदृश्येतत्प्रकारा- वस्था दशा महाश्वेतया
हर्षहेतावपि प्रमोदनिदानभूतेऽपि मदागमने अनुभूयतेऽनुभवविषयीक्रियते इत्याशङ्कारेका तया भिन्नं विदीर्
णं
हृदयं चेतो यस्यैवंभूतोऽयं चन्द्रापीड उड्डीनैरिवोड्डीयगतैरिव प्राणै- रसुभिरत एव पदे पढेदे स्खलन्नि स्खलनां
प्राप्नुवन्निव, पतन्निव भ्रश्यन्निव, मुह्यन्निव मोहं गच्छन्निव, उपसृत्य समीप आगत्य तस्यैव शिलातलस्यैकदेश
एकप्रदेश उपविश्य च [^1]प्रोद्वाष्पेण प्रकृष्टा- श्रुणा विषण्णं विलक्षं वदनमाननं यस्यैवंभूतः किमेतदिति तरलिका-
पृच्छदप्रश्नयत् । सा तरलिका । तु पुनरर्थे । तथावस्थाया अपि तथाविधदुःखदग्धाया अपि महाश्वेताया एव
मुखमाननमवलोकित- वती निरीक्षितवती ।
 
9
 

 
अथेति । तदनन्तरम् । अनुपसंहृतोऽदूरीकृतो मन्युवेगो यया सैवं- विधापि गद्गदिकया गनुद्गदध्वनिनाव-
गृह्यमाणो रुध्यमानः कण्ठो यस्याः सा महाश्वेतै प्रत्यवादीत्प्रत्यब्रवीत् । हे महाभाग, किमियं वराकी शोचना ।
'वराकः संगरे शोच्ये' इति विश्वः । आवेदयति कथयति । दुःखस्याभिघातः प्रहारस्तेनैकमद्वितीयं कठिनं
कठोरं हृदयं भुजान्तरं यस्या एवंविधया यया मया पुनरप्यदुःखश्रव[^2]णा र्हेऽपि दुःखं श्रोतुमयोग्येऽप्यात्मीयं
 
टिप्प० -

 
[^
1]F. प्रोद्वाष्पः प्रकृष्टा थुश्रुरित्येवोचितम् ।
[^
2 ]F.'अदुःखश्रवणार्हः' इति प्रथमान्त मेवोचितम् ।
 
-
 
पाठा० -

 
[^
]G. तत्र च प्रवेश एव; तत्राप्रविशन्नेव.
[^
]G. इन्द्रायुधेन परिजनेन च; इन्द्रायुधेन परिजनेन राजपुत्रैश्च.

[^
]G. किमिति नावेदयते; किमपि नावेदयते .
[^
]G. पुनरदुःखश्रवणार्होऽप्यात्मीयदुःखं प्रापितः, पुनरध्यदुःख- श्रवणार्होऽप्या-
त्मीयदुःखं श्रावितः.
 

७७
 
काo