This page has not been fully proofread.

उत्तरभागः ।
 
६०९
 
महाश्वेताश्रमे गमनम् ]
 
www.
 
तंत्र च प्रविशन्नेवावतीर्य महाश्वेतावलोकनकुतूहलात्पश्चादाकृष्टेनेन्द्रायुधपरिजनेनानुग-
म्यमानो विवेश । प्रविश्य च गुहाद्वार एव धवलशिलातले समुपविष्टामधोमुखीमसहामन्युवेगो-
कम्पित सर्वावयवामनवरतनयन
जलवर्षिणीमुचण्डवाताहतां लतामिवोद्वाष्पदीनदृष्ट्या कथं-
कथमपि तरलिकया विवृतशरीरां महाश्वेतामपश्यत् । दृष्ट्वा च तां तादृशीमस्योदगादि हृदये-
'मा नाम देव्याः कादम्बर्या एव किमप्यनिष्टमुत्पन्नं भवेत् । येनेयमीदृश्यवस्था हर्षहेतावपि
मदागमनेऽनुभूयते महाश्वेतया ।' इत्याशङ्काभिनंहृदयोऽयमुड्डीनैरिव प्राणैः पदे पदे स्खल-
शिव पतन्निव मुह्यन्निवोपसृत्योपविश्य च तस्यैव शिलातलस्यैकदेशे प्रोद्वाष्पविषण्णवदनः
किमेतदिति तरलिकामपृच्छत् । सा तु तथावस्थाया अपि महाश्वेताया एव मुखमवलोकितवती ।
 
अथानुपसंहृतमन्युवेगापि गद्गदिकावगृह्यमाणकण्ठा महाश्वेतैव प्रत्यवादीत् – "महाभाग,
किमियमावेदयति बराकी । यया दुःखाभिघातैककठिनहृदयया पुनरध्यदुःखश्रवणार्हेऽपि
 
तत्र च तदाश्रमे प्रविशन्नेव प्रवेश कुर्वन्नेवावती यवतरणं कृत्वा । अश्वादिति शेषः । महाश्वेताया अवलो
कनं निरीक्षणं तस्मिन्यत्कुतूहलमाश्चर्य तस्मात्पश्चादाकृष्टेनाकर्षितेनेन्द्रायुधस्य परिजनः परिच्छदस्तेनानुंगम्य-
मानोऽनुयायमानो विवेश प्रवेशं कृतवान् । प्रविश्य च प्रवेशं कृत्वा च गुहाद्वारे या धवलशिला तस्यास्तले
समुपविष्टां निषण्णामधोमुखीं नीचैर्मुखीं महाश्वेतामपश्ययलोकयत् । कीदृशीम् । असह्यो विसोढुमशक्यो यो
मन्युः क्रोधः शोको वा । 'मन्युशोकौ तु शुक् स्त्रियाम्' इत्यमरः । तस्य वेगो रयस्तेनोत्कम्पिता उच्चलिताः
सर्वावयवाः समग्रापघना यस्याः सा ताम् । अनवरतं निरन्तरं नयनजलं नेत्राम्बु वर्षतीत्येवंशीला सा ताम् ।
अत एवोत्प्रेक्ष्यते - उच्चण्डोऽत्युग्रो यो वातो वायुस्तेनाहतां ताडितां लतामिव । 'उच्चण्डस्त्वतिकोपनः' इति
हैमः । उद्वाष्पोद्गताश्रुरेवंविधा दीना दुःखिता दृष्टिर्हग्यस्या एतादृश्या तरलिकया कथंकथमपि महता कष्टेन
विधृतं धारितं शरीरं यस्याः सा ताम् दृष्ट्वा च निरीक्ष्य च तादृशीं तथावस्थां महाश्वेताम् अस्य चन्द्रापीडस्य
हृदय उदपाद्युत्पन्नम् । तदेव प्रकटयन्नाह – नामेति कोमलामन्त्रणे । देव्याः कादम्बर्या एव किमप्यनिर्दिष्ट-
नाम कमनिष्ट
मशिवमुत्पन्नं प्रादुर्भूतं भवेत् । येन हेतुनेयं प्रत्यक्षोपलभ्येदृश्येतत्प्रकारावस्था दशा महाश्वेतया
हर्षहेतावपि प्रमोदनिदानभूतेऽपि मदागमने अनुभूयतेऽनुभवविषयीक्रियते इत्याशङ्कारेका तया भिन्नं विदीर्ण
हृदयं चेतो यस्यैवंभूतोऽयं चन्द्रापीड उड्डीनैरिवोड्डीयगतैरिव प्राणैरसुभिरत एव पदे पढे स्खलन्निष स्खलनां
प्राप्नुवनिव, पतन्निव भ्रश्यन्निव, मुह्यन्निव मोहं गच्छन्निव, उपसृत्य समीप आगत्य तस्यैव शिलातलस्यैकदेश
एकप्रदेश उपविश्य च प्रोद्वाष्पेण प्रकृष्टाश्रुणा विषण्णं विलक्षं वदनमाननं यस्यैवंभूतः किमेतदिति तरलिकाम-
पृच्छदप्रश्नयत् । सा तरलिका । तु पुनरर्थे । तथावस्थाया अपि तथाविधदुःखदग्धाया अपि महाश्वेताया एव
मुखमाननमवलोकितवती निरीक्षितवती ।
 
9
 
अथेति । तदनन्तरम् । अनुपसंहृतोऽदूरीकृतो मन्युवेगो यया सैवंविधापि गद्गदिकया गनुदध्वनिनाव-
गृह्यमाणो रुध्यमानः कण्ठो यस्याः सा महाश्वेतैय प्रत्यवादीत्प्रत्यब्रवीत् । हे महाभाग, किमियं वराकी शोचना ।
'वराकः संगरे शोच्ये' इति विश्वः । आवेदयति कथयति । दुःखस्याभिघातः प्रहारस्तेनैकमद्वितीयं कठिनं
कठोरं हृदयं भुजान्तरं यस्या एवंविधया यया मया पुनरप्यदुःखश्रवणार्हेऽपि दुःखं श्रोतुमयोग्येऽप्यात्मीयं
 
टिप्प० - 1 प्रोद्वाष्पः प्रकृष्टा थुरित्येवोचितम् । 2 'अदुःखश्रवणार्हः' इति प्रथमान्त मेवोचितम् ।
 
-
 
पाठा० - १ तत्र च प्रवेश एव; तत्राप्रविशन्नेव. २ इन्द्रायुधेन परिजनेन च; इन्द्रायुधेन परिजनेन राजपुत्रैश्च.
३ किमिति नावेदयते; किमपि नावेदयते ४ पुनरदुःखश्रवणार्होऽप्यात्मीयदुःखं प्रापितः, पुनरध्यदुःखश्रवणार्होऽप्या-
त्मीयदुःखं श्रावितः.
 
७७