This page has not been fully proofread.

शूद्रकस्नानम् ]
 
पूर्वभागः ।
 
'वैशम्पायनः प्रवेश्यतामभ्यन्तरम्' इति ताम्बूलकरङ्कवाहिनीमादिश्य, कतिपयाप्त राजपुत्रपरि-
वृतो नरपतिरभ्यन्तरं प्राविशत् । अपनीताभरणश्च दिवसकर इव विगलितकिरणजालः, चन्द्र-
तारकासमूहशून्य इव गगनाभोगः, समुपाहृतसमुचितव्यायामोपकरणां व्यायामभूमिमया-
सीत् । स तस्यां च समानवयोभिः सह राजपुत्रैः कृतमधुरव्यायामः, श्रमवशादुन्मिषन्ती-
भिः कपोलयोरीपर्दे वदलित सिन्दुवा र कुसुम मञ्जरी विभ्रमाभिहरसि निर्दयश्र मैच्छिन्नहारविग-
लितमुक्ताफलप्रकरानुकारिणीभिर्ललाटपट्टकेऽष्टमी चन्द्रशकलतलोल्लसदमृतबिन्दु विडम्बिनीभिः
स्वेदजल कणिका संततिभिरलंक्रियमाणमूर्तिः, इतस्ततः स्नानोपकरणसंपादनसत्वरेण पुरः
प्रधावता पॅरिजनेन तत्कालं विरॅलजनेऽपि राजकुले समुत्सारणाधिकारमुचितं समाच-
रद्भिर्दण्डिभिरुपदिश्यमानमार्गः, विततसितवितानाम्, अनेकचारणगणनिबंध्यमानमण्ड-
न्तरम् । अर्थाद्गृहस्य । प्राविशत्प्रवेशं चकार । तदनन्तरं स राजा व्यायामः श्रमस्तत्करणयोग्यां भृमि वसुंधरा-
मयासीदगच्छत् । इतो राजानं विशेषयन्नाह - अपेति । अपनीतानि दूरीकृतान्याभरणानि भूषणानि येन स
तथा । क इव दिवसकर इव सूर्य इव । कीदृशः । विगलितानि स्रस्तानि किरणजालानि दीधितिवृन्दानि
यस्य स तथा । तत एवैतयोः साम्यम् । पुनः क इव । गगनाभोग इव घनाश्रयविस्तार इव । कीदृशः ।
चन्द्रः शशी, तारका नक्षत्राणि, तेषां समूहः संघातस्तेन शून्यः । अथ व्यायामभूमिं विशिनष्टि - समु-
पाहतेति । समुपाहतान्येकत्रीकृतानि समुचितानि योग्यानि व्यायामे श्रम उपकरणानि साधनानि यस्यां
सा तथा ताम् । स राजा तस्यां भूमौ समानं तुल्यं वयः कौमारादि येषामेवंविधै राजपुत्रैर्नृपसुतैः सह सार्धं कृतो
विहितो मधुरो लक्षणया शरीरपीडाजनको व्यायामो येन स तथा । अलंक्रियमाणा भूष्यमाणा मूर्तिः शरीरं तस्य
स तथा। राज्ञो विशेषणद्वयम् । काभिः । स्वेदेति । कपोलयोर्गल्लात्परभागयोः स्वेदजलस्य श्रमजनितदेहजलस्य
कणिकाः सूक्ष्म बिन्दवस्तषां संततयः परंपरास्ताभिः । इतः स्वदजलकणिकासंततिं विशेषयन्नाह - अमेति ।
श्रमवशाव्यायामवशादुन्मिषन्तीभिः प्रकाशं प्राप्नुवतीभिः । कपोलयोः । ईषदिति । ईषत्किंचिदवदलितं मर्दितं
सिन्दुवारस्य निर्गुंड्याः कुसुमं पुष्पं तस्या मञ्जरी वल्लरी तस्या विभ्रमो भ्रान्तिर्यासु तास्तथा ताभिः । उरसीति ।
उरसि वक्षस्थले निर्दयश्रमेण कठिनप्रयासेनान्यैः कर्तुमशक्यव्यायामेनेति यावत् । तेन छिन्नश्छेदं प्राप्तो यो हारो
मुक्तास्रक्तस्माद्विगलितथ्युतो यो मुक्ताफलानां मौक्तिकानां प्रकरः समूहस्तमनुकारिण्यस्त मनुकुर्वन्त्यस्ताभिः ।
ललादेति । ललाटपट्टके भालस्थलेऽष्टमीचन्द्र एव शकलं तस्य तलमुत्तानस्थलं तत्रोल्लसन्तो दीप्यमाना येऽमृ-
तबिन्दवः सुधापृषतास्तान्विडम्बयन्ति तिरस्कुर्वन्तीत्येवंशीलास्तास्तथा ताभिः कीदृशो राजा । परिजनेन सेवक -
जनेन । कीदृशेन । पुरतोऽग्रे प्रधावता त्वरितं गच्छता । पुनः किंविशिष्टेन । इतस्ततः समन्तात्स्नानमालवस्त-
स्योपकरणानि जलादीनि तेषां संपादनं निष्पादनं तत्र सत्वरेण शीघ्रण । तत्कालं तत्समयावच्छेदेन विरल-
जनेsपि स्वल्पजनेऽपि राजलोके राजगृहे सत्युचितं योग्यं समुत्सारणं निवारणं तत्र योऽधिकारो नियोगरतं
समाचरद्भिः कुर्वद्भिर्दण्डिभिवैत्रिभिश्चोपदिश्यमानः प्रदर्श्यमानो मार्गो यस्य स तथा । इतः परं स्नानभूमेर्वि-
शेषणानि । विततेति । विततो विस्तीर्णः सितः शुभ्रो वितान उल्लोचो यस्यां सा तथा ताम् । अनेकेति ।
 
टिप्प० -- 1 किञ्चित्स्फुटितम् ( विकसितम् ) इत्यर्थ उचितः ।
 
पाठा -१ अभ्यन्तरं स्नानपानाशनादिना च सुखिनमेनं कारयेति; अभ्यन्तरमशनादिना चोपचर्यताम्. २ करण्ड.
३ अपनीताशेषभूषणश्च. ४ अवगलितसितसिन्दुवार ५ रतिश्रम; रतिविभ्रम ६ प्रधाविना ७ परिजनेनानुगम्यमानः
८ विरलतरेऽपि, ९ आचरद्भिः १० आबध्यमान.