2024-01-07 16:58:05 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मेघनादसंदेशेन विषादः ]
 
उत्तरभागः ।
 
इत्युक्तवति मेघनादे नसमयवर्धिताभोगमकरध्वजार्णव संध्[^१]म- थ्यपातिनीं स्वानुमानात्कादम्ब-
रीमुत्प्रेक्ष्योत्प्रेक्ष्य विक्लवीभवतः [^२]पर्यवर्त्यन्त इवास्य जलधराः कालपुरुषैः, तडितो मदना-
नल
नल- शिखाभिः, अवरस्फूर्जितं प्रेतपतिपटद्दखहस्वनैः, आसारधाराः स्मरे-षुभिः, [^३]आमन्द्रगर्जितं
मकरध्वजधनुर्ज्यागुञ्जिताभोगेन, कला- पिकेकाः कालदूतालापैः, केतकामोदो विषपरिमलेन,
खद्योताः प्रलयानलस्फुलिङ्ग [^४]राशिभिः, अलिवलयानि कालपाशेःशै:, बलाका - काश्रेणय: प्रेतपतिप-
ताकाभिः, आपगाः सर्वक्षयमहापूरप्लवैः, दुर्दि- नानि कालराज्त्र्या, कुटजतरवः कृतान्तहा सैः ।
अपि च शरीरेऽपि सत्वं कातरतया, बलं क्षामतया, कान्तिर्वैवर्ण्येन, मतिर्मोहेन, धैर्
यं
विषादेन, हसितं छुशुचा, नयनमधुश्रुणा, आलपनं मौनेन, अङ्गान्ये [^५]न्य सहतया, करणान्यपाटवेन,
[^६]सर्वमे [^७]वारत्या ।
 

 
9
 
.
 
६०५
 
,
 
'
 

 
[ टि ]--
मेघनाद उक्तवति कथितवति सति घनसमयो वर्षाकाल- स्तेन वर्धितो वृद्धिधिं प्रापित आभोगो विस्तारो यस्यैवं-
भूतो यो मकर- ध्वज एवार्णवः समुद्रस्तस्य मध्यपातिनीं तदन्तर्गतां खास्वानुमानादपि । यथा तस्या दुःखेन विरहे-
जा
णाहं दुःखवान्, तथा मद्विरहेण सापि भविष्यतीत्यनुमानं तस्मादित्यर्थः । कादम्बरीमुत्प्रेक्ष्योत्प्रेक्ष्य हृदय-

वर्तिनी विलोक्य बिविलोक्य विक्लवीभवतो विह्वलीभवतोऽस्य चन्द्रा- पीडस्य जलधरा मेघाः कालपुरुषैर्यम किंकरैः
[^1]पर्यवर्त्यन्त इवात्मसात्क्रियन्त इव । स्वखरूपमापाद्यन्त इवेति यावत् । अतो जलधराः कालपुरुषा एव
बभूवुरित्यर्थः । एबमप्वमग्रेऽपि पर्यवर्त्यन्त इवेति यथायोग्यं योज्यम् । तडितो विद्युतो मदन एवानलो वह्निस्तस्य
- स्तस्य शिखाभिर्व्ज्वालाभिः पर्यवर्त्यन्त इव । अवस्फूर्जितं कराल- गर्जितं प्रेतपतिर्यमस्तस्य पटहो ढक्का तस्य स्वनैः
शब्देदै: पर्यवर्त्यत इव । क्वचित् 'प्रेतपुरीपटहस्वनेन' इत्यपि पाठः । आसारधारा वेगवदृ- वद्वृष्टिधाराः स्मरस्य
कंदर्पस्येषवो बाणास्तैः पर्यवर्त्यन्त इव । आमंद्रगर्जितं गम्भीरस्नितं मकरध्वजधनुषो ज्या प्रत्यञ्चा तस्या

गुझिञ्जितं शब्दितं तस्याभोगेन विस्तारेण पर्यवर्त्यत इव । कलापिके- का मयूरवाण्यः कालदूता यमप्रहितजना-
स्तेषामालापैः संभाषणैः । केतकस्य क्रकचच्छदस्यामोदः परिमलो विषं गरलं तस्य परिमलेन । खद्योता
ज्योतिरिङ्गणाः प्रलयस्य कल्पान्तस्यानलो वहिह्निस्तस्य स्फुलिङ्गा अमिग्निकणास्तेषां राशिभिः समूहै: पर्यवर्त्यन्त
इव । 'खद्यो- तो ज्योतिरिङ्गणः" इति हैमः । अलिवलयानि भ्रमर [^2]टेकानि कालपारौशैर्यमबन्धनैः । बलाका-
श्रेणयो बिसकण्ठिकासमूहाः प्रेत- पतिर्यमस्तस्य पताकाभिर्वैजयन्तीभिः । आपगा नद्यः सर्वेषां क्षयो विनाशो
येभ्य एवंविधैर्महापूरस्य हवे प्लवै: प्रवाहैः । दुर्दिनानि मेघज- निततमांसि कालरात्र्या मृत्युप्रदनिशया 'कादम्बिनी
मेघमाला दुर्दिनं मेघजं तमः' इति हैमः । कुटजतरवो गिरिमल्लिकाः कुटज- वृक्ष पुष्पाणि कृतान्तस्य यमस्य
हासैः स्मितैः । पर्यवर्त्यन्त इवेत्यर्थः । अपि चेति । अन्यदपि शरीरेऽपि देहेऽपि सत्त्वं साहसं कातरतया

भीरुकतै [^3]तया, बलं स्थानं क्षामतया क्षीणतया, कान्तिर्द्युतिः । शरीरस्येति शेषः । वैवर्ण्येन कालिकया । विच्छा-
यतयेत्यर्थः । मति- र्बुद्धिर्मोहेनाज्ञानेन, धैर्यं धीरिमा विषादेनावसादेन, हसितं हास्यं शुचा शोकेन, नयनं नेत्र-
मश्रुणा बाष्पेण, आलपनं जल्पनं मौनेन जोषेण, अज्ञाङ्गानि प्रतीका असहतयाक्षमतया, करणानीन्द्रियाण्य-

पाटवेनापटुतया, सर्वमेव समग्रमेवारत्योद्वेगेन कृत्वा ।
 
टिप्प० -

 
[^
1]F. पर्यवर्त्यन्त परस्परं विनिमयं प्राप्यन्तेव, जलधराः काल- पुरुषा अबुध्यन्तेत्याशयः । एवं
डितो मदनानलशिखा अज्ञा- यन्तेत्यादिः सर्वत्रार्थो बोद्धव्यः ।
[^
2]F. अन्धवत् वलयस्य कटकपर्यायकरणम नि-
पं
र्वचनीयां व्युत्पत्तितिं सूचयति । भ्रमरसमूहा इत्यर्थः ।
[^
3]F. पर्यवर्त्यत, साहसस्य परिवर्ते कातरत्वमभवदित्यर्थः ।
 

 
[^१]G. मध्य
पाठा० - १ मध्यपातिनी .
[^
]G. परिवर्तन्ते; परिवर्त्यन्ते; .
[^
]G. आमन्द्रम् .
[^
]G. रश्मिभिः .
[^
]G. असहितया .
[^
]G. सर्
 
वं च.
[^
]G. रजन्या.