कादम्बरी /638
This page has not been fully proofread.
मेघनादसंदेशेन विषादः ]
उत्तरभागः ।
इत्युक्तवति मेघनादे धनसमयवर्धिताभोगमकरध्वजार्णव संध्यपातिनीं स्वानुमानात्कादम्ब-
रीमुत्प्रेक्ष्योत्प्रेक्ष्य विवीभवतः पर्यवर्त्यन्त इवास्य जलधराः कालपुरुषैः, तडितो मदना-
नलशिखाभिः, अवरफूर्जितं प्रेतपतिपटद्दखनैः आसारधाराः स्मरेषुभिः, आमन्द्रगर्जितं
मकरध्वजधनुर्ज्यागुञ्जिताभोगेन, कलापिकेकाः कालदूतालापैः केतकामोदो विषपरिमलेन,
खद्योताः प्रलयानलस्फुलिङ्गशिभिः, अलिवलयानि कालपाशेः बलाका श्रेणय: प्रेतपतिप-
ताकाभिः, आपगाः सर्वक्षयमहापूरवैः दुर्दिनानि कालराज्या, कुटजतरवः कृतान्तहा सैः ।
अपि च शरीरेऽपि सत्वं कातरतया, बलं क्षामतया, कान्तिर्वैवर्ण्यन, मतिर्मोहेन, धैर्य
विषादेन, हसितं छुचा, नयनमधुणा, आलपनं मौनेन, अङ्गान्येसहतया, करणान्यपाटवेन,
सर्वमेवारत्या ।
१
9
.
६०५
,
'
। मेघनाद उक्तवति कथितवति सति घनसमयो वर्षाकालस्तेन वर्धितो वृद्धि प्रापित आभोगो विस्तारो यस्यैवं-
भूतो यो मकरध्वज एवार्णवः समुद्रस्तस्य मध्यपातिनीं तदन्तर्गतां खानुमानादपि । यथा तस्या दुःखेन विरहे-
जाहं दुःखवान्, तथा मद्विरहेण सापि भविष्यतीत्यनुमानं तस्मादित्यर्थः । कादम्बरीमुत्प्रेक्ष्योत्प्रेक्ष्य हृदय-
वर्तिनी विलोक्य बिलोक्य विक्लवीभवतो विह्वलीभवतोऽस्य चन्द्रापीडस्य जलधरा मेघाः कालपुरुषैर्यम किंकरैः
पर्यवर्त्यन्त इवात्मसात्क्रियन्त इव । स्वखरूपमापाद्यन्त इवेति यावत् । अतो जलधराः कालपुरुषा एव
बभूवुरित्यर्थः । एबमप्रेऽपि पर्यवर्त्यन्त इवेति यथायोग्यं योज्यम् । तडितो विद्युतो मदन एवानलो वह्निस्तस्य
शिखाभिर्व्वालाभिः पर्यवर्त्यन्त इव । अवस्फूर्जित करालगर्जित प्रेतपतिर्यमस्तस्य पटहो ढक्का तस्य खनैः
शब्दे: पर्यवर्त्यत इव । कचित् 'प्रेतपुरीपटहवनेन' इत्यपि पाठः । आसारधारा वेगवदृष्टिधाराः स्मरस्य
कंदर्पस्येषवो बाणास्तैः पर्यवर्त्यन्त इव । आमंद्रगर्जितं गम्भीरस्खनितं मकरध्वजधनुषो ज्या प्रत्यञ्चा तस्या
गुझितं शब्दितं तस्याभोगेन विस्तारेण पर्यवर्त्यत इव । कलापिकेका मयूरवाण्यः कालदूता यमप्रहितजना-
तेषामालापैः संभाषणैः । केतकस्य क्रकचच्छदस्यामोदः परिमलो विषं गरलं तस्य परिमलेन । खद्योता
ज्योतिरिङ्गणाः प्रलयस्य कल्पान्तस्यानलो वहिस्तस्य स्फुलिङ्गा अमिकणास्तेषां राशिभिः समूहै: पर्यवर्त्यन्त
इव । 'खयोतो ज्योतिरिङ्गणः" इति हैमः । अलिवलयानि भ्रमरकटेकानि कालपारौर्यमबन्धनैः । बलाका-
श्रेणयो बिसकण्ठिकासमूहाः प्रेतपतिर्यमस्तस्य पताकाभिवैजयन्तीभिः । आपगा नद्यः सर्वेषां क्षयो विनाशो
येभ्य एवंविधैर्महापूरस्य हवे : प्रवाहैः । दुर्दिनानि मेघजनिततमांसि कालरात्र्या मृत्युप्रदनिशया 'कादम्बिनी
मेघमाला दुर्दिनं मेघजं तमः' इति हैमः । कुटजतरवो गिरिमल्लिकाः कुटजवृक्ष पुष्पाणि कृतान्तस्य यमस्य
हासैः स्मितैः । पर्यवर्त्यन्त इवेत्यर्थः । अपि चेति । अन्यदपि शरीरेऽपि देहेऽपि सत्त्वं साहसं कातरतया
भीरुकतैया, बलं स्थानं क्षामतया क्षीणतया, कान्तिर्द्युतिः । शरीरस्येति शेषः । वैवर्ण्यन कालिकया । विच्छा-
यतयेत्यर्थः । मतिर्बुद्धिर्मोहेनाज्ञानेन, धैर्य धीरिमा विषादेनावसादेन, हसितं हास्यं शुचा शोकेन, नयनं नेत्र-
मश्रुणा बाष्पेण, आलपनं जल्पनं मौनेन जोषेण, अज्ञानि प्रतीका असहतयाक्षमतया करणानीन्द्रियाण्य-
पाटवेनापटुतया, सर्वमेव समग्रमेवारत्योद्वेगेन कृत्वा ।
टिप्प० - 1 पर्यवर्त्यन्त परस्परं विनिमयं प्राप्यन्तेव, जलधराः कालपुरुषा अबुध्यन्तेत्याशयः । एवं
खडितो मदनानलशिखा अज्ञायन्तेत्यादिः सर्वत्रार्थो बोद्धव्यः । 2 अन्धवत् वलयस्य कटकपर्यायकरणम नि-
पंचनीयां व्युत्पत्ति सूचयति । भ्रमरसमूहा इत्यर्थः । 3 पर्यवर्त्यत, साहसस्य परिवर्ते कातरत्वमभवदित्यर्थः ।
पाठा० - १ मध्यपातिनी २ परिवर्तन्ते; परिवर्त्यन्ते; ३ आमन्द्रम् ४ रश्मिभिः ५ असहितया ६ सर्व
च. ७ रजन्या.