2024-01-08 10:38:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

[^१]मदीयमागमनम् ? नापयास्यति वा तस्मात्प्रदेशात् ? दास्यति वा दर्शनम् ? महीष्यति वास्मदनुनयम् ? आगमिष्यति वा पुनर्मया सह ? किं कुर्वन्दिवसमास्ते ? को वा विनोदोऽस्य तिष्ठतः' इति ।
 
[^२]स त्वेवं पृष्टो [^३]व्यज्ञपयत् - "देव, देवेन तु 'वैशम्पायनमा-
लोक्यानुपदमेव तुरंगमैरागत एवाहम्' इत्यादिश्य विसर्जितोऽहम् । [^४]अच्छोदसरसः प्रतीपं वैशम्पायनो गत इत्येषान्तरा वार्तैव नो- पया [^५]ता । चिरयति च देवे जलदसमयारम्भमालोक्य कदाचि- देतेषु दिवसेषु देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च कृतप्रयत्नोऽपि न [^६]मुच्यत एवागन्तुं देवश्चन्द्रापीड:। त्वया चैका किना न स्थातव्यमेवास्यां भूमौ । परागतप्रायाश्च वयम् । तन्निव-
[^७]र्तयास्मादेव प्रदेशादित्यभिधाय पत्रलेखया केयूरकेण च त्रिच- तुरैः प्रयाणकैरप्राप्त एवाच्छोदं यावद्बला [^८]न्निवर्तितोऽस्मि" इति एवमावेद्य विरराम । विरतवचनं च तं पुनरपृच्छत् । कि [^९]मा-
कलयस्य [^१०]द्यतनेनाह्ना यावत्परापतिता पत्रलेखा नेति । स तु व्यज्ञपयत् - 'देव, यद्यन्तरा कश्चिदन्तरायो न [^११]भवति विलम्ब- कारी, तदा विना संदेहेन परापतितैवेत्यवगच्छति मे हृदयम् ।'
 
[ टि ]-- 'मागमनमावेदितं निवेदितं वा तस्मात्प्रदेशात्स्थानान्नापया- स्यति न गमिष्यति वा । दर्शनं दास्यति वा । अस्माकमिति शेषः । अस्माकमनुनयं प्रणतिं ग्रहीष्यति वा । पुनर्मया सहागमिष्यति वागमनं करिष्यति वा । किं कुर्वन्कि विदधद्दिवसं दिनमास्ते तिष्ठति । अस्य वैशम्पायनस्यात्र तिष्ठतः स्थितिं कुर्वतः को विनोदः का केलिरिति ।
 
स तु मेघनाद एवं पृष्टः सव्यज्ञपयद्विज्ञप्तिं चकार । किं कथितवा नित्याशयेनाह - देव इति । हे देव हे स्वामिन्, देवेनैव भवतैव वैश- म्पायनमालोक्य निरीक्ष्यानुपदमनुचरणन्यासं तुरंगमैरश्वैरहमागत एवेत्यादिश्येत्युक्त्वाहं मेघनादाभिधो विसर्जितो गमनायानुज्ञातः । अच्छोदसरसः [^1]प्रतीपं वामं प्रदेशं वैशम्पायनो गत इत्येषा वार्तैव किंवदन्त्येवान्तरी विचाले । मार्गस्येति शेषः । नोपयाता न प्राप्ता । 'प्रतिकूलं तु विलोममपसव्यमपष्टु-
रम् । वामप्रसव्यप्रतीपं प्रतिलोममपष्टुठु च ' इति हैमः । मया पूर्वं त्वं विसर्जितः कथमत्रा- गत इत्याकाङ्क्षाया-
माह - चिरयति चेति । जलदसमयारम्भं वर्षा- प्रारम्भमालोक्य निरीक्ष्य देवे चिरयति विलम्बं कुर्वति
सति एतेषु दिवसेषु वर्षावास रेष्वागन्तुमागमनाय कृतप्रयत्नोऽपि विहितोद्य मोऽपि देवश्चन्द्रापीडो देवेन तारा-
पीडेन जनकेन, देव्या विलास- वत्या मात्रा, आर्यशुकनासेन वृद्धमन्त्रिणा च कदाचिन्न मुच्यत एव । न स्वस-
भी
मीपाहूद्दूरीक्रियत एव । त्वया चास्यां भूमावेका किनाऽस- हायेन न स्थातव्यमेव न स्थेयमेव । परागतप्रायाश्च प्राप्त-
प्रायाश्च वयं पत्रलेखाकेयूरका ख्याः । ततोऽस्मादेव प्रदेशात्त्वं निवर्तयै [^2]य पश्चाद्वलेत्यभिधायेत्युक्त्वा पत्रलेखया
केयूरकेण च त्रिचतुरैः प्रया- णकैः प्रस्थान कैरच्छोदं यावत् , [^3]अप्रौराप्त एव बलाद्धठान्निवर्तितः पश्चाद्वलितोऽस्मी-
त्यावेद्य निवेद्य विरराम विरतो बभूव । विरतवचनं मौनावलम्बिनं च तं मेघनादं पुनरपृच्छत् । किं तदि-
त्याह – किमि- ति । किमाकलयति किकिं जानासि । अद्यतनेनाहाह्ना दिवसेन यावत्, पत्रलेखा परापतिता प्राप्ता
नेति न प्राप्ता वा । स तु मेघनादो व्यज्ञपयत् - हे देव, यद्यन्तरा मध्ये कश्चिदन्तरायः प्रत्यूहो विलम्ब -
क्राकारी परिलम्बकृन्न भवति न स्यात्, तदा संदेहेन विना निःसंदेहं परापतितैव तत्र गतैव मे मम हृदयं चेत
इत्यवगच्छति जानातीति ।
 
-
 
टिप्प० -
[^1]F. 'अच्छोदसरसः समीपे' इति पाठः स्पष्टः ।
[^
2]F. 'निवर्तस्त्र' ( परावर्तस्त्र ) इत्येव पाठः ।
प्रेरणार्थस्तु टीका- कृतो विचार दारिद्र्यम् ।
[^
3]F. त्रिचतुर्दिवससाध्यैः प्रयाणकैः अप्राप्तः अर्थात् यावता त्रिचतु-
रदिवसैरच्छोदसरः प्राप्यते ततः स्थानात्पूर्वमेवाहं परावर्तित इत्याशयः ।
 
पाठा० - [^]G. आगमनम् .
[^
]G. एवमापृष्टः; एवमादिष्ट: .
[^
]G. विशपयेत् .
[^
]G. अथाच्छोद.
[^
]G. नोपयाता; चोपजाता.
[^]G. मुच्येत.
[^
]G. निवर्तस्व.
[^
]G. विनिर्वर्तितः, .
[^
]G. किमु कलयसि.
[^
१०]G. अद्य तेन.
[^
११]G. भविष्यतिं.
 
ति.