कादम्बरी /636
This page has not been fully proofread.
६०३
परावर्तमानस्य मेघनादस्य दर्शनम् ] उत्तरभागः ।
मिताननेन भ्योतदासचिसंपिण्डित केसरामेणैकसंतान कर्दमानुभनखुरेणादृश्यनिन्नोन्नतस्खल-
द्वतिना विशीर्यमाणपर्याण समायोगेनोपर्युपरिवाहिनीतीरोत्तारसँताना वानपृष्ठेनापचीयमानब-
लजवोत्साहेन बाजिसैन्येनानुगम्यमानो जीवितसंधारणाय यथा तथा निर्वर्तिताशनमा-
नकोऽभ्यर्हितराजलोकवचसाध्यप्रति
पन्नशरीरसंस्कारो दिवसमेव केवलमबहत् ।
वहंय त्रिभागमात्रावशिष्टेऽध्वनि निवेर्तमानं मेघनादमद्राक्षीत् । दृष्ट्वा दूरत एव
कृतनमस्कारं तमप्राक्षीत् - 'तिष्ठतु तावत्पुरखात्पत्रलेखाग मनवृत्तान्त प्रश्नः । वैशम्पायनवृ
तान्तमेव तावत्पृच्छामि । अयि, याच्छोदसरलि वैशम्पायनः ? पृष्ठो बोषस्थानका-
रणम् ? पृष्टेन वा किंचित्कथितं न ना ? पञ्चात्तापी बास्मत्परित्यागेन ? समरति वास्मा-
कम् ? पृष्टोऽसि वानेन किन्दिन्मदीयम् १ उपलब्धो वाभिप्रायः ? उत्पन्नो वालापो
युवयोः ? मातापित्रोर्वा संदिष्टं किचित् ? 'प्रतियोधितो वा त्वयागमनाय ? आवेदितं वास्य
येन तत्तथा । मुहुर्मुहुवरिवार वलितानि परावर्तितान्यानमितानि चाननानि मुखानि चैन तत्तथा । ध्योततीति
थ्योतत्प्रेखेदस्तस्यासक्तिः संपर्क शेन संपिण्डितानि मिलितानि केसराणां स्कन्धरोम्णाममाणि प्रान्तानि यि
स्वतथा । एकं संतानं परम्परा यस्मिन्नेवंभूतः कर्दमः पनुमा बुडिताः खुराः शफा यस्य तत्तथा ।
भरइयं यन्निन्नोजतस्थलं तत्र स्खलन्ती गतिर्गमनं यस्य तत्तथा । विशीर्यमाणो विदीर्यमाणः पर्याणसमायोगः
पल्ययन संबन्धो यस्य तत्तथा । उपर्युपरि वाहिनीनां नहीनां तीराणां तठानामुत्तारस्तेषां तानानि तैरवाना
अशुष्काः पृष्ठयो यस्य तत्तथा । बलं सामर्थ्यम्, जवो बेगः, उत्साहः प्रगल्भता, एतेषां द्वः पत्रादपची-
यमानानि प्रतिक्षणं हीनतां प्राप्यमाणानि बलजबोत्साहादीनि यस्य तत्तथा, जीवितसंधारणाय प्राणितधारणाकृते
यथा तथा येन केन प्रकारेण निर्वर्तितं विहितमशनमात्रं केवलं भोजनं येन सः । अभ्यर्हितः पूजितो यो
राजलोकस्तस्य वचत्रापि बाक्येनाप्ल प्रतिपन्नोऽनङ्गीकृतः शरीरसंस्कारो देहशुश्रूषा येनैवंभूतः । केनलं
दिवसमेवावहदचलत् ।
वहंश्च त्रिभागमात्रमवशिष्टमुद्वरितं यस्मिन्नेवं विधेऽध्वनि मार्गे निवर्तमानं पश्चाद्वलमानं मेघनादं खसपर्या -
कारिणमाक्षीद्व्यलोकयत् । दृष्ट्वा च विलोक्य च दूरत एव कृतो विहितो नमस्कारः प्रणामो येनैवंभूतं तमप्रा-
क्षीदपृच्छत् । तावदादौ पुरस्तात् पत्रलेखागमनवृत्तान्तप्रश्नस्तिष्ठतु । वैशम्पायनस्य वृत्तान्तमुदन्तमेव ताव-
तपृच्छामि प्रश्नविषयी करोमि । अयीति । अयीति विषादे । 'अयि क्रोधे विषादे च संभ्रान्तस्मरणेऽपि च'
इति विश्वः । अच्छोद सरस्यच्छं निर्मलमुदकं जलं यस्मिन् । उदकस्योदादेशः । एवं विधे तदाके वैशम्पायन-
स्त्वया दृष्टो विलोकितः । अवस्थान कारणं तत्रावस्थाननिदानं पृष्टो वा पृच्छाविषयीकृतो वा । पृष्टेन वा तेन
किंचित्कथितं प्रोक्तं न वा । अस्मत्परित्यागेन तस्य पश्चात्तापोऽनुतापोऽस्ति बा, अस्माकं स्मरति स्मृतिगोचरीक-
रोति वा । कर्मणि षष्ठी । अनेन वैशम्पायनेन किंचित्त्वं मदीयं मत्संबन्धि पृष्टोऽसि वा । उपलब्धी ज्ञातो वा
तस्याभिप्राय आशयः । युवयोर्भवतोरुत्पन्नः संजातो वालापः संलापः । मातापित्रोर्जननीजनकयोः किंचित्सं-
दिष्टं कथितं वा । त्वया भवताऽऽगमनाय प्रतिबोधितो वा प्रतिबोधं प्रापितो वा । अस्य वैशम्पायनस्य मदीय-
टिप्प० - 1 प्रस्वेदपदं न डइयते मूले, अत एव ज्योतत् स्खलत् भासतया अन्योन्यसंश्लेषेण
पिण्डितं घनतां गतं केसराग्रं यस्य तथोकनेत्यर्थः । 2 तेन, इत्यर्थः ।
पाठा - १ पिण्डित; संपीडित. २ अनुलन; मनोन्मन्न ३ पूर. ४ विशीर्यता बाजी. ५ निवर्तित ६ अभ्युद्गत.
७ दिवसमवहदेव केवलम् ८ त्रिभागावशिष्टे. ९ वर्तमानम्. १० परस्तात्. ११ अपि. १२ च. १३ उपालब्धो
वाभिप्रायो वाक्यम्; उपलक्षितो वाभिप्रायस्त्वया १४ परिबोधितः