2024-01-08 14:52:15 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

६०२
 
कादम्बरी ।
 
[कथायाम्-
वनहेतुनापि जीवित [^१]वितसंदेहदोलामारोपितो जलदकालेन, उत्कूलगामिषु विधिविलसितेषु सरि-
त्पूरेषु चोप्लवमानः, [^२]अन-
वरतवर्षाजलजनितेषु मूर्च्छागमेषु पंङ्कपटलेषु च निमज्जन्, जलभ
-
स्थगितवर्त्मनि [^३]विलोचने च [^४]स्खलन्, विकासिनीषु काद- म्बरी प्राप्तिचिन्तासु धारा कदम्बरजो-
वृष्टिषु [^५]चामीलयन्, अनु- बन्धिषु गमन विघ्नेषु जलरध्वनितेषु च [^६]मुह्यन्, सुदुर्लङ्घ्यवे- गान्यु-
त्कण्ठितानि सहस्रशः स्रोतांसि चोल्लङ्घयन्, घनो [^७]पाहि-
तवृद्धिना कादम्बरीसमागमौत्सुक्येन पय:-
प्लवरयेण चोह्यमानः, जीवित प्रत्याशामव [^८]हन्, तुरङ्गमांश्च परित्यजन्, तर्ज्यमान इव तडिद्भिः;
अवष्टभ्यमान इव जलधरैः, निर्भर्त्स्यमान इव विस्फूर्जितैः शकलीक्रियमाण इत्र शतशो
निस्त्रिंशवृत्तिभिर्धारासारैः, निरुद्धा- स्वपि जलदकालेनैवाशुगमन विघ्नभूतास्वाशासु कादम्बरी-
समाग- माशा सुतरां नारुध्यतास्य, ये[^९]यया तादृशेऽपि यथास्थान निगनिग- डित समस्त प्राणिनि प्रावृद्वाट्काले
कलामध्प्यकृतपरिलम्बोऽनीयंय- [^१०]त तं पन्थानम् । धाराहति विकूणिताक्षेण च मुहुर्मुहुर्बलवलि [^११]तान-

 
-
 
423
 
4
 

 
[ टि ]--
जगतः समग्र विश्वस्य जीवन हेतुनापि प्राणित करेणापि जीवितस्य संदेहो द्वापरः स एव दोला प्रेङ्खा तां जलद.
कालेन मेघसमयेनारोपितः स्थापितः । कूलस्योर्ध्वमु [^1]त्कूलं गच्छन्ती- त्येवंशीलान्युत्कूलगामी नि तेषूत्कूलगामिषु
विधेर्विधातुरेव विलसितं चेष्टितं येष्वेतादृशेषु सरित्पूरेषु च नदीप्लवेषु चोलवमानस्तरन्जनत्प्लवमानस्तरन्नन- वरतं निरन्तरं वर्षा-
जलैर्वृष्टिपानी यैर्जनितेषु विहितेषु मूर्च्छागमेषु मोहागमेषु पङ्कपटलेषु च कर्दमसमूहेषु च निमज्जन्ब्रुडन्, जल-

भरेण स्थगित आच्छादिते वर्त्मनि मार्गे लोचने नेत्रे च स्खलन्स्खल- नां प्राप्नुवन् । विकासिनीषु विनिद्रासु
कादम्बरीप्राप्तिचिन्तासु, धा- राकदम्बाः येषां धारया पुष्पोद्गमो भवति ते धाराकदम्बाः, तेषां रजोवृष्टिष्वेत.
त्परागवर्षासु चामीलयैन य [^2]न्नसंकुचन् अनुबन्धोऽ- न्योन्यं सापेक्षभावः स विद्यते येष्वेवं विधेषु गमन विघ्नेषु यात्रा -
प्रति- बन्धेषु जलरस्य मेघस्य ध्वनितेषु गर्जितेषु च मुह्यन्मोहं प्राप्नुवन्, सुतरां दुर्लङ्घ्यो वेगो रयो येषामेवं भू-
तान्युत्कण्ठितानि सहस्रशः स्रोतांसि तटिन्यादीनि चोल्लङ्घयन्नतिक्रामन् । घं[^3]घनो मेघो जल- दस्तेनोपहिता स्थापिता
वृद्धिर्येनैवंभूतेन कादम्बर्याः समागमस्यौ- त्सुक्येन रणरणकेन पयसः लवः पुरस्तस्य रयो वेगस्तेन चोह्यमानो
बद्द

वह
मानो जीवितप्रत्याशां प्राणितसमीहा [^4]मवहन्नधारयन् । तुरं- गमानश्वश्च परित्यजन्परिहरन्, तडिद्भिर्विद्युद्भिस्त-
र्ज्यमान इव तिरस्क्रियमाण इव, जलधरैर्मेघैरवष्टभ्यमान इव प्रतिरुध्यमान इव, [^5]विस्फूर्जितैर्जलद चेष्टितैर्निर्भर्त्स्य-
मान इव मिर्भर्त्सनां क्रियमाण इव । शतशो निखिस्त्रिंशाः खड्गास्तेषां वृत्तिरिव वृत्तिर्वर्तनं येषामेवं भूतैर्धारासारैर्धाराया
आसारैर्वेगवद्वषैः शकलीक्रियमाण इव खण्डी क्रियमाण इव, अस्य चन्द्रापीडस्य जलदकालेन मेघसमयेनैवाशु-

गमनस्य शीघ्रयात्राया विघ्नभूतासु प्रतिबन्धकारिणीष्वाशासु दिशासु निरुद्धास्वपि कादम्बरीसमागमाशा सुत
रामत्यर्थं नारुध्यत न प्रत्यवध्यत, ययाऽऽशया तादृशेऽपि पूर्वोत्तलक्षणेऽपि यथास्थानं यथास्थलं निगडिताः
संनाहिताः समस्ताः प्राणिनो येनैवंभूते प्रावृद्रट्- काले वर्षासमये कलामपि घटिकामात्रमपि न कृतो विहितः परि-

लम्बो विलम्बो येनैवंभूतस्तं पन्थानमनीयत प्राप्यत । कथंभूतः । अनुगम्यमानोऽनुयायमानः । केन । वाजि -
सैन्येनाश्वबलेन । एतदेव विशेषयायन्नाह – धारेति । धाराणामाहत्याभिघातेन विकूणितेऽर्धमी- लिते अक्षिणी
 
टिप्प० –

 
[^
1]F. उत्कूलं प्रतिकूलं गच्छन्ति तादृशानि विधिविलसितानि, कूलम् अतिक्रम्य गच्छन्ति
तादृशाः सरित्पूराः इति बोध्यम् ।
[^
2]F. 'आमीलन्' नेत्रे संकोचयन्, इत्येव पाठस्तदर्थश्च । टीका- कारस्तु
दूरतः प्रणभ्यःम्य:
[^
3]F. घनं घना ( प्रचुरा ) वा उपाहिता वृद्धिर्यस्य ईदृशेन समाग- मौत्सुक्येन ।
[^
4]F. 'जीवित-
प्रत्याशामनिर्वहतस्तुरङ्गमांश्च परित्यजन्', मार्गगम- नखेदेन अग्रे चलनशक्तिमवद्दतोऽश्वांस्तत्रैव त्यजन्निति
पाठः अर्थश्च
[^
5]F. वज्रनिर्घोषैरित्यर्थः, 'स्फूर्जथुर्वज्र निर्घोषः' इत्यमरः ।
 
पाठा० -

 
[^
]G. जीवनसंदेह.
[^
]G. वर्ष.
[^
]G. लोचने .
[^
]G. स्वबलविकासिनीपु. षु.
[^
]G. अमीलन्.
[^
]G. विमुह्यन्, .
[^
]G. उपाहृत.

[^
]G. अनिर्वह॑हंस्तुरंगमांश्च; अनिर्वहस्तुरंगमांश्च .
[^
]G. आशया तया; यथा.
[^
१०]G. असौ.
[^
११ बि]G. विवलित; चलित.