कादम्बरी /635
This page has not been fully proofread.
६०२
कादम्बरी ।
[कथायाम्-
वनहेतुनापि जीवित संदेहदोलामारोपितो जलदकालेन, उत्कूलगामिषु विधिविलसितेषु सरि-
त्पूरेषु चोप्लवमानः, अनवरतवर्षाजलजनितेषु मूर्च्छागमेषु पंङ्कपटलेषु च निमज्जन्, जलभर
स्थगितवर्त्मनि विलोचने च स्खलन्, विकासिनीषु कादम्बरी प्राप्तिचिन्तासु धारा कदम्बरजो-
वृष्टिषु चामीलयन्, अनुबन्धिषु गमन विघ्नेषु जलघरध्वनितेषु च मुन्, सुदुर्लङ्घयवेगान्यु-
त्कण्ठितानि सहस्रशः स्रोतांसि चोल्लङ्घयन्, घनोपाहितवृद्धिना कादम्बरीसमागमौत्सुक्येन पय:-
प्लवरयेण चोह्यमानः, जीवित प्रत्याशामवईन्, तुरङ्गमांश्च परित्यजन, तर्ज्यमान इव तडिद्भिः;
अवष्टभ्यमान इव जलधरैः, निर्भर्त्स्यमान इव विस्फूर्जितैः शकलीक्रियमाण इत्र शतशो
निस्त्रिंशवृत्तिभिर्धारासारैः, निरुद्धास्वपि जलदकालेनैवाशुगमन विघ्नभूतास्वाशासु कादम्बरी-
समागमाशा सुतरां नारुध्यतास्य, येया तादृशेऽपि यथास्थान निगडित समस्त प्राणिनि प्रावृद्वाले
कलामध्यकृतपरिलम्बोऽनीयंत तं पन्थानम् । धाराहति विकूणिताक्षेण च मुहुर्मुहुर्बलतान-
१
-
423
4
जगतः समग्र विश्वस्य जीवन हेतुनापि प्राणित करेणापि जीवितस्य संदेहो द्वापरः स एव दोला प्रेङ्खा तां जलद.
कालेन मेघसमयेनारोपितः स्थापितः । कूलस्योर्ध्वमुत्कूलं गच्छन्तीत्येवंशीलान्युत्कूलगामी नि तेषूत्कूलग मिषु
विधेर्विधातुरेव विलसितं चेष्टितं येष्वेतादृशेषु सरित्पूरेषु च नदीलवेषु चोलवमानस्तरन्जनवरतं निरन्तरं वर्षा-
जलैर्वृष्टिपानी यैर्जनितेषु विहितेषु मूर्च्छागमेषु मोहागमेषु पङ्कपटलेषु च कर्दमसमूहेषु च निमजन्ब्रुडन्, जल-
भरेण स्थगित आच्छादिते वर्त्मनि मार्गे लोचने नेत्रे च स्खलन्स्खलनां प्राप्नुवन् । विकासिनीषु विनिद्रासु
कादम्बरीप्राप्तिचिन्तासु, धाराकदम्बाः येषां धारया पुष्पोद्गमो भवति ते धाराकदम्बाः, तेषां रजोवृष्टिष्वेत.
त्परागवर्षासु चामीलयैन संकुचन् । अनुबन्धोऽन्योन्यं सापेक्षभावः स विद्यते येष्वेवं विधेषु गमन विघ्नेषु यात्रा -
प्रतिबन्धेषु जलघरस्य मेघस्य ध्वनितेषु गर्जितेषु च मुह्यन्मोहं प्राप्नुवन्, सुतरां दुर्लङ्घयो वेगो रयो येषामेवं भू-
तान्युत्कण्ठितानि सहस्रशः स्रोतांसि तटिन्यादीनि चोल्लङ्घयन्नतिक्रामन् । घंनो मेघो जलदस्तेनोपहिता स्थापिता
वृद्धिर्येनैवंभूतेन कादम्बर्याः समागमस्यौत्सुक्येन रणरणकेन पयसः लवः पुरस्तस्य रयो वेगस्तेन चोह्यमानो
बद्दमानो जीवितप्रत्याशां प्राणितसमीहामवहन्नधारयन् । तुरंगमानश्वश्च परित्यजन्परिहरन्, तडिद्भिर्विद्युद्भिस्त-
ऊर्ज्यमान इव तिरस्क्रियमाण इव, जलधरैर्मेघैरवष्टभ्यमान इव प्रतिरुध्यमान इव, विस्फूर्जितैर्जलद चेष्टितैर्निर्भर्त्स्य-
मान इव मिर्भर्त्सनां क्रियमाण इव । शतशो निखिशाः खड्गास्तेषां वृत्तिरिव वृत्तिर्वर्तनं येषामेवं भूतैर्धारासारैर्धाराया
आसारैर्वेगवद्वषैः शकलीक्रियमाण इव खण्डीक्रियमाण इव, अस्य चन्द्रापीडस्य जलदकालेन मेघसमयेनैवाशु-
गमनस्य शीघ्रयात्राया विघ्नभूतासु प्रतिबन्धकारिणीष्वाशासु दिशासु निरुद्धास्वपि कादम्बरीसमागमाशा सुत
रामत्यर्थं नारुध्यत न प्रत्यवध्यत, ययाऽऽशया तादृशेऽपि पूर्वोत्तलक्षणेऽपि यथास्थानं यथास्थलं निगडिताः
संनाहिताः समस्ताः प्राणिनो येनैवंभूते प्रावृद्रकाले वर्षासमये कलामपि घटिकामात्रमपि न कृतो विहितः परि-
लम्बो विलम्बो येनैवंभूतस्तं पन्थानमनीयत प्राप्यत । कथंभूतः । अनुगम्यमानोऽनुयायमानः । केन । वाजि -
सैन्येनाश्वबलेन । एतदेव विशेषयाह – धारेति । धाराणामाहत्याभिघातेन विकूणितेऽर्धमीलिते अक्षिणी
टिप्प० – 1 उत्कूलं प्रतिकूलं गच्छन्ति तादृशानि विधिविलसितानि, कूलम् अतिक्रम्य गच्छन्ति
ताडशाः सरितपूराः इति बोध्यम् । 2 'आमीलन्' नेत्रे संकोचयन्, इत्येव पाठस्तदर्थश्च । टीकाकारस्तु
दूरतः प्रणभ्यः । 3 घनं घना ( प्रचुरा ) वा उपाहिता वृद्धिर्यस्य ईदृशेन समागमौत्सुक्येन । 4 'जीवित-
प्रत्याशामनिर्वहतस्तुरङ्गमांश्च परित्यजन्', मार्गगमनखेदेन अग्रे चलनशक्तिमवद्दतोऽश्वांस्तत्रैव त्यजन्निति
पाठः अर्थश्च । 5 वज्रनिर्घोषैरित्यर्थः, 'स्फूर्जथुर्वज्र निर्घोषः' इत्यमरः ।
पाठा० -१ जीवनसंदेह. २ वर्ष. ३ लोचने ४ स्वबलविकासिनीपु. ५ अमीलन्. ६ विमुह्यन्, ७ उपाहृत.
८ अनिर्वह॑स्तुरंगमांश्च; अनिर्वहस्तुरंगमांश्च ९ आशया तया; यथा. १० असौ. ११ बिवलित; चलित.