This page has not been fully proofread.

प्रावृषा कुमारस्य वैकल्यम् ]
 
उत्तरभागः ।
 
६०१
 
कपोलेषु, सान्द्रेण शाखिषु, तनुना तृणोपलेषु, उल्बणेन तालीवनेषु, यथाधाराश्मपतनमा-
कर्ण्यमानेन. सर्वप्रकार मधुरेण हृदयप्रवेशिना धारारवेणोत्कलिकाकलितो न रात्रौ न दिवा
न प्रामे मारण्ये नान्तर्न बहिर्न बने नोपवने न वर्त्मनि नावासे न बहन्न तिष्ठन्न वैशम्पा-
यनस्मरणेन न कादम्बरीसमागमानुध्यानेन कथंचिदपि न कचिदपि निर्वृतिमेवाध्यगच्छत् ।
 
अनधिगत निर्वृतिश्चाति
कष्टतया वजानलस्येव जलद समयेन्धनस्य मदनहुतभुजो भस्मसा-
त्कर्तुमेवोद्यतस्य धीरस्वभावोऽपि प्रकृतिमेवोत्ससर्ज । प्लावितैसकलघरातलैर्धारा जलैरव्यशो -
ध्यत । योतितदशदिशा शतहदालोकेनापि मूर्च्छान्धकारेऽक्षिष्यत । आह्वादितजीवलोकैर्ज-
लदानिलैरप्यदलत । पयोभारमेदुरैनैरपि तनुतामानीयत । पाटलितशाद्वलैः शक्रगोपकैरपि
पाण्डुतां प्रत्यपद्यत । कुसुमधवलैः कुटजैरपि रागपरवशोऽक्रियत । तथापि सकलजगजी-
तृणानामुपलाः समूहास्तेषु तनुना तुच्छेन, साळीवनेषूल्बणेनोप्रेण, धारयाइमर्पतनं यथा भवति तथाकर्ण्यमानेन
श्रयमाणेन, सर्वप्रकारैमधुरेण मिष्टेन, हृदयप्रवेशिना चित्तप्रविष्टेन, धारारवेण जलसंपातध्वनिनोत्कलिका हल्लेख
स्तेन कलितो व्याप्त एवंभूतश्चन्द्रापीडो न रात्रौ निशायाम्, न दिवा दिवसे, न प्रामेऽवसथे, नारण्ये बने,
नान्तरे मध्ये गृहस्य, न बहिर्गृहादन्यत्र, न बने कानने, नोपवने नगराभ्यर्णवर्तिवाटिकायाम्, न वर्त्मनि मार्गे,
नावासे सौधे, न वहन्गच्छन्, न तिष्ठन् स्थितिं कुर्वन, न वैशम्पायनस्य स्मरणेन स्कृत्या, न कादम्बर्याः
समागमस्य मेलापकस्यानुध्यानेनानुचिन्तनेन कथंचिदपि महता कष्टेन न कचिदपि न कुत्रापि निर्वृतिमेव
चित्तस्वास्थ्य
मेवाध्यगच्छदप्रापत् ।
 
अनधिगताऽप्राप्ता निर्घृतिश्चित्तस्वास्थ्य यस्यैवंभूतश्चातिकटतयातिकृच्छ्रतया वज्रानलस्येव जिंदुरात्रेरिव जल-
दकालः प्रावृद् तस्य समयोऽवसरः स एवेन्धनमिष्मा यस्यैवंभूतस्य मदनहुतभुजः कामामेर्भस्मसात्कर्तुमेवोद्य.
तस्य कृतोद्यमस्यै धीरखभावोऽपि स्थर्यप्रकृतिरपि प्रकृतिमेव स्वभावमेव चन्द्रापीड उत्ससर्ज तत्याज । तदेव
दर्शयन्नाह - प्लावितेति । प्लावितं जलसात्कृतं सकलं धारातलं यैरेवंभूतैर्धाराजलैरप्यशोष्यत शोषं प्राप्तवान् ।
अपिशब्दः सर्वत्र विरोधालंकृतियोतनार्थः । योतिताः प्रकाशिता दश दिशो थेनैवंभूतेन शतहदालो केन
विद्युत्प्रकाशेनापि मूर्च्छा मोहः सैवान्धकारं तमिस्रं तस्मिन्नक्षिप्त चिक्षिपे । आह्लादितः प्रमोदितो जीवलोको
यैरे वंभूतैर्जलदानिलैर्झञ्झावायुभिरपदस्थत प्राज्वल्यत । पयोभारेण जलवीवधेन मेदुरैः पुष्टैरपि घनैमै घैस्तनुतां
क्षीणतामानीयताप्राप्यत । पाटलितानि श्वेतरक्तीकृतानि शाद्वलानि शादहरितानि यैरीदृशैः शक्रगोपकैरप्यभिरं
जोभिरपि पाण्डतां धवलतां प्रत्यपद्यत स्त्रीचक्रे । 'श्वेतरक्तस्तु पाटलः' इत्यमरः । कुसुमैः पुष्पैः कृत्वा धवलैः
शुम्रैरेतादृशैः कुटजैर्गिरिमल्लिकाभिरपि रागपरवशोऽनुरक्तयधीनोऽक्रियताकल्प्यत । तथाप्येवं सत्यपि सकल-
टिप्प० - 1 समूहार्थे उपलोऽप्रसिद्धः । अत एव 'तृणोलपेषु तृणेषु उलमेषु (गुल्मागितालु लतासु)
'गुल्मिन्युलप इत्यपि' इत्यमरः । 2 अहमपतने वक्ष्यमाणं माधुर्य न भवति, अत एव 'यथाधारासंप-
तनम्' इत्येव पाठः । 3 न वर्त्मनि नावासे इत्यादि पूर्व सप्तम्यन्तमुपात्तम्, अग्रेपि 'न क्वचिदपि' इति
अधिकरण निर्देशेनैवोपसंहारः कृत इति 'स्मरणेन' 'अनुध्यानेन' इति तृतीयान्तपाठः स्थूल एव । 'न
वैशम्पायनस्मरणे, न कादम्बरीसमागमानुध्याने, न कथंचिदपि ' इत्येव पाठः । 4 ईदृशस्य मदनहुतभुजः
अतिकष्टतया अतिक्लेशदायकत्वेन, इत्यम्वयः प्रहैलीकृतष्टीकाकृता । 5 'बीरबहुट्टी' इति भाषाख्यातैर्वर्वा
की ढैः । 6 'तथाहि' इति पाठ उचितः ।
 
•१ परवलेषु. २ तृणोलपेषु. ३ यथाधारापतम; यथाधारासंपतन ४ हृदयं प्रविशता धारा ५ सकल-
:. ६ तथा च.
 
पाठा०
 
धाराजलैः.