2024-01-09 05:32:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

7
 
[ कथायाम-
६००
 
कादम्बरी ।
 

 
[^१]तीक्ष्णतरकोटिभिः केतकी सूचिभिरेवा [^२]त्रुट्यन्त मर्माणि । उच्छिखैः [^३]शिखिभिरेवादह्यन्त
गात्राणि । अन्धकारितदिशा [^४]मेघैतमसैवावर्धत [^५]मोहान्धकारम् । तिरस्कृध्वान्तेन तडि- दात-
घे
पेनैवातन्यत संतापः । [^६]भरेणैव गम्भीरगर्जितैकसंतानोत्क- म्पितधे [^७]धरापीठबन्धैर्नभसि नवनैः,
धं
[^८]घनजलधारातिपात- वाचालितचञ्चुभिरन्तराले चातकैः, उद्दाममे [^९]महारावरा विभिरवर्निर्-
वर्नि [^१०]
मूले दर्दुरैः,
अनवरतज्ञां [^११]झांकाररवजर्जरितधाराम्बु-
भिराशासु जलदानिलैः उन्मुक्तमदकलकेका कोलाहलैः
, काननेषु कलापिभिः, असमशिखरोपलस्खलनकलकलमुखरैर्गिरिषु निर्झरैः, उल्लोलकल्लोला-
स्फाल [^१२]विस्फारितविषमनिर्घोष [^१३]झा- ङ्कारिभिः सरित्सु पूरैः, सर्वतश्च विततेन स्थलीषु, [^१५]संहतेन

कन्दरेषु, उच्चण्डेन शिखरिषु, कलेनाम्बुषु, पटुना पर्वततटेषु, मृदुना शाद्वलेषु चारुणा
 
"
 
9
 

 

 
[ टि ]--
अभिलाषा अभज्यन्त भङ्गमापुः । तीक्ष्णतरातिशयेन तीक्ष्णा कोटिरग्रभागो येषामेवंभूतैः केतकीसूचिभिर्व-
ल्लीविशेष- कण्टकैरेव सह मर्माणि मर्मस्थानान्यत्रु [^1]ट्येन्ताच्छिद्यन्त । उदूर्ध्वं शिखा येषामेवंभूतैः शिखिंखि [^2]भिर्म
यूरैरेव गात्राण्यङ्गान्य- दह्यन्त प्राज्वलन् । अन्धकारितदिशा मेघतमसैव मोहान्धकारमव-
र्धतैधिष्ट । तिरस्कृतं
न्य
न्यक्कृतं ध्वान्तं तिमिरं येनैवंभूतेन तडिदात- पेनैव विद्युदालोकेनैव संतापः संज्वरोऽतन्यत व्यस्तार्यत । भरेण
न्

चेति । भरो भारस्तेन गम्भीरं गभीरं यद्गर्जितं स्तनितं तस्यैकं प्रधानं संतानं परम्परा तेनोत्प्राबल्येन कम्पि-
तश्चलितो धरायाः पृथ्व्याः पीठ बन्धो यैस्ते यथा तैर्नवघनैर्नवीनजलधरैर्नभसि व्योम्नि । अन्तराले विचाले चात-
कैर्नभोम्बुपैः । कीदृशैः । घना निबिडा या जलधारा- स्तासामतिपातोऽतिपतनं तेन वाचालिता मुखरा-
श्चञ्चवश्चञ्चुपुटिका येषां ते तथा तैः । अवनिमूले पृथिव्यां दर्दुरैर्भेकैः । कीदृशैः । उद्दामः कठिनो यो महा-
रावो महाध्वनिस्तस्य राविभिर्जल्पिभिः । आशासु दिशासु जलदानिलैर्मेघमारुतैः । कीदृशैः । अनवरतं निरन्तरं
झांकाररवो झंझावातध्वनिस्तेन [^3]जर्जरितानि शिथि- लितानि धाराम्बूनि यैस्ते तथा तैः । काननेष्वरण्येषु कला-
पिभि- र्मयूरैः । कथंभूतैः । उन्मुक्तो यो मदस्तेन कलो मनोहरः केकाया मयूरवाण्याः कोलाहलः कलकलो
येषां ते तथा तैः । गिरिषु पर्वतेषु निर्झरैर्झरैः । 'उत्सः प्रस्रवरणं वारिप्रवाहो निर्झरो झरः' इत्यमरः । किंवि-
शिष्टैः । असमा विषमा ये शिखरोपलाः सानुप्रस्तरास्तेषु स्खलनेन भ्रंशेन यः कलकलः कोलाहलस्तेन मुखरैर्वा -
चालैः
। सरित्सु तटिनीषु पूरैः प्लवैरम्बुवृद्धिभिः । किंभूतैः । उल्लोला उत्प्राबल्येन चञ्चला ये कल्लोलास्तरंगास्ते-
बा
वामास्फालोन्योन्या- घातस्तेन विस्फारितो विस्तारितो यो विषमनिर्घोषोऽसमध्वनिस्तेन झांकारिभिर्द्यौतिभिः ।
एवं [^४]सर्वतश्च स्थलीष्वकृत्रिमस्थलभूमिषु विततेन विस्तृतेन, कंदरेषु दरीषु संहतेन प्रतिहतेन, शिखरिषु

पर्वतेषूच्चण्डेनात्युग्रेण, अम्बुषु पानीयेषु कलेन मनोहरेण, पर्वत- तटेष्वद्रिवप्रेषु पटुना स्पष्टेन, शाद्वलेषु
शादहरितेषु मृदुना कोमलेन, कपोलेषु गल्लात्परप्रदेशेषु चारुणा मनोहरेण, शाखिषु वृक्षेषु सान्द्रेण निबिडेन,
 
टिप्प० -

 
[^
1]F. 'अतुद्यन्त' अपीड्यन्त, इत्येव पाठ उचितः । त्रुट्यतेः परस्मैपदित्वात् ।
[^
2]F. ध्वनिर्न
ज्ञातष्टीकाकारेण । शिखिभिरतिग्निभिरित्यपि व्यज्यते । उच्छिखैः उद्गतज्वालैरिति तत्रार्थः ।
[^
3]F. अनवरत-
झांकाररवेण ( झांकाररवपूर्वकम् ) जर्जरितानि धाराजलानि यैः ।
[^
4]F. नभसि नैः, अन्तराले चातकैर्वित-
तेन स्थलीषु च सर्वतो विततेन धारारवेण, इत्यन्वयः ।
 
.
 
पाठा० -

 
[^
]G. तीक्ष्णान्तर .
[^
]G. अतुट्यन्त .
[^
]G. शिखरै : .
[^
]G. निशामेघ.
[^
]G. मोहान्धकार : .
[^
]G. भरेण च.
[^
]G. धारापीठ,
.
[^
]G. घनजलधरधारानिपातरभसवाचालित; घनजललवा चातिरभसवाचालितं.
[^
]G. महारावहारिभिः; महावारराविभिः
.
[^
१०]G. तले.
[^
११]G. झंकार, .
१२ विस्फुटित .
१३ उद्गारिभिः .
१४ सरित्पूरै: .
१५ संभृतेन.
 
0