This page has not been fully proofread.

7
 
[ कथायाम-
६००
 
कादम्बरी ।
 

 
तीक्ष्णतरकोटिभिः केतकी सूचिभिरेवात्रुट्यन्त मर्माणि । उच्छिखैः शिखिभिरेवादह्यन्त
गात्राणि । अन्धकारितदिशा मेघैतमसैवावर्धत मोहान्धकारम् । तिरस्कृतवान्तेन तडिदात-
घेनैवातन्यत संतापः । भरेणैव गम्भीरगर्जितैकसंतानोत्कम्पितधेरापीठबन्धैर्नभसि नवधनैः,
धंनजलधारातिपातवाचालितचञ्चुभिरन्तराले चातकैः, उद्दाममेहारावरा विभिरवर्निर्मूले दर्दुरैः,
अनवरतज्ञांकाररवजर्जरितधाराम्बुभिराशासु जलदानिलैः उन्मुक्तमदकलकेका कोलाहलैः
काननेषु कलापिभिः, असमशिखरोपलस्खलनकलकलमुखरैर्गिरिषु निर्झरैः, उल्लोलकल्लोला-
स्फालविस्फारितविषमनिर्घोषझाङ्कारिभिः सरित्सु पूरैः सर्वतश्च विततेन स्थलीषु, संहतेन
कन्दरेषु, उचण्डेन शिखरिषु, कलेनाम्बुषु, पटुना पर्वततटेषु, मृदुना शाहलेषु चारुणा
 
"
 
9
 

 
अभिलाषा अभज्यन्त भङ्गमापुः । तीक्ष्णतरातिशयेन तीक्ष्णा कोटिरग्रभागो येषामेवंभूतैः केतकीसूचिभिर्व-
लीविशेषकण्टकैरेव सह मर्माणि मर्मस्थानान्यत्रुट्येन्ताच्छिद्यन्त । उदूर्ध्वं शिखा येषामेवंभूतैः शिखिंभिर्म
यूरैरेव गात्राण्यङ्गान्यदह्यन्त प्राज्वलन् । अन्धकारितदिशा मेघतमसैव मोहान्धकारमवर्धतैधिष्ट । तिरस्कृतं
न्यकृतं ध्वान्तं तिमिरं येनैवंभूतेन तडिदातपेनैव विद्युदालोकेनैव संतापः संज्वरोऽतन्यत व्यस्तार्यत । भरेण
न्चेति । भरो भारस्तेन गम्भीरं गभीरं यद्गर्जितं स्तनितं तस्यैकं प्रधानं संतानं परम्परा तेनोत्प्राबल्येन कम्पि-
तश्चलितो धरायाः पृथ्व्याः पीठबन्धो यैस्ते यथा तैर्नवघनैर्नवीनजलधरैर्नभसि व्योनि । अन्तराले विचाले चात-
कैर्नभोम्बुपैः । कीदृशैः । घना निबिडा या जलधारास्तासामतिपातोऽतिपतनं तेन वाचालिता मुखरा-
श्चञ्चवश्चऋपुटिका येषां ते तथा तैः । अवनिमूले पृथिव्यां दर्दुरैर्भेकैः । कीदृशैः । उद्दामः कठिनो यो महा-
रावो महाध्वनिस्तस्य राविभिर्जल्पिभिः । आशासु दिशासु जलदानिलैर्मेघमारुतैः । कीदृशैः । अनवरतं निरन्तरं
झांकाररवो झंझावातध्वनिस्तेन जर्जरितानि शिथिलितानि धाराम्बूनि यैस्ते तथा तैः । काननेष्वरण्येषु कला-
पिभिर्मयूरैः । कथंभूतैः । उन्मुक्तो यो मदस्तेन कलो मनोहरः केकाया मयूरवाण्याः कोलाहलः कलकलो
येषां ते तथा तैः । गिरिषु पर्वतेषु निर्झरैर्झरैः । 'उत्सः प्रस्रवरणं वारिप्रवाहो निर्झरो झरः' इत्यमरः । किंवि-
शिष्टैः । असमा विषमा ये शिखरोपलाः सानुप्रस्तरास्तेषु स्खलनेन भ्रंशेन यः कलकलः कोलाहलस्तेन मुखरैर्वा -
चालैः
ः । सरित्सु तटिनीषु पूरैः प्लवैरम्बुवृद्धिभिः । किंभूतैः । उल्लोला उत्प्राबल्येन चञ्चला ये कल्लोलास्तरंगास्ते-
बामास्फालोन्योन्याघातस्तेन विस्फारितो विस्तारितो यो विषमनिर्घोषोऽसमध्वनिस्तेन झांकारिभिर्द्यौतिभिः ।
एवं सर्वतश्च स्थलीष्वकृत्रिमस्थलभूमिषु विततेन विस्तृतेन, कंदरेषु दरीषु संहतेन प्रतिहतेन, शिखरिषु
पर्वतेषूच्चण्डेनात्युग्रेण, अम्बुषु पानीयेषु कलेन मनोहरेण, पर्वततटेष्वद्रिवप्रेषु पटुना स्पष्टेन, शाद्वलेषु
शादहरितेषु मृदुना कोमलेन, कपोलेषु गल्लात्परप्रदेशेषु चारुणा मनोहरेण, शाखिषु वृक्षेषु सान्द्रेण निबिडेन,
 
टिप्प० -1 'अतुधन्त' अपीड्यन्त, इत्येव पाठ उचितः । त्रुट्यतेः परस्मैपदित्वात् । 2 ध्वनिर्न
ज्ञातष्टीकाकारेण । शिखिभिरतिभिरित्यपि व्यज्यते । उच्छिखैः उद्गतज्वालैरिति तत्रार्थः । 3 अनवरत-
झांकाररवेण ( झांकाररवपूर्वकम् ) जर्जरितानि धाराजलानि यैः । 4 नभसि धनैः, अन्तराले चातकैर्वित-
तेन स्थलीषु च सर्वतो विततेन धारारवेण, इत्यन्वयः ।
 
.
 
पाठा० - १ तीक्ष्णान्तर २ अतुट्यन्त ३ शिखरै : ४ निशामेघ. ५ मोहान्धकार : ६ भरेण च. ७ धारापीठ,
८ घनजलधरधारानिपातरभसवाचालित; घनजललवा चातिरभसवाचालितं. ९ महारावहारिभिः; महावारराविभिः
१० तले. ११ झंकार, १२ विस्फुटित १३ उद्गारिभिः १४ सरित्पूरै: १५ संभृतेन.
 
0