कादम्बरी /632
This page has not been fully proofread.
मार्गे प्रावृदूकालः ]
उत्तरभागः ।
धरैः । अग्रतः स॑मुत्युतेन चेतसा काव्यगम्यत, पृष्ठतो हंसैः । पुरस्तात्परिमलिनोऽस्य
निःश्वास मेरुतः प्रावर्तन्त, पश्चात्कदम्बवाताः । पूर्व तुलितनीलोत्पल वनकान्ति नयनयुगलमस्य
सलिलं समुत्ससर्ज, चरममम्भोमुचां वृन्दम् । आदावापूर्यमाणमुद्वेगेनोत्कलिकासहस्रपर्याकुलं
मनोऽस्याभवत्, अवसाने स्रोतस्विनीनां पात्रम् । अपि च दुस्तरैर्नदीपूरैरेव सहावर्धन्त
मन्मथोन्माथाः । वर्षाजलविलुलितैः कमलाकरैरेव सह मंमज्ज कादम्बरीसमागमप्रत्याशा ।
धारारयासहैः कन्दलैरेव सहाभिद्यत हृदयम् । अम्भोदवाताहतैर्धारा कदम्बकुडालैरेव सहा-
कम्पतोत्कण्टकिता तनुः । अनवरतजलपतनजर्जरितपक्ष्मभिः शिलीन्धैरेव सह तात्रता-
मधत्त नयनयुगलैम् । उत्कूलसलिलोत्खन्यमानमूलैः सरित्तटैरेव सहापतन्प्राणाः । परिम-
लमयैर्मालतीमुकुलैरेव सह व्यजृम्भन्त रैणरणकाः। तैंथातिगुरुनिर्घातैरेवाभज्यन्त मनोरथाः ।
(.
ततस्तदनन्तरं जलधरैघैः । अग्रतः प्रथमतः समुत्तेन सम्यगुत्पतितेन चेतसा हृदयेन क्काप्यनिर्दिष्टस्थले -
गम्यत गमनमकार्यत । पृष्ठतः पृष्ठभागे हंसैश्चक्राङ्गैर्गतम् । पुरस्तात्पूर्वमस्य चन्द्रापीडस्य परिमलिनः परि-
मलयुक्ता निःश्वासमरुतः घ्राणवायवः प्रावर्तन्त । पश्चात्कदम्बवाताः प्रवर्तितवन्तः । पूर्वं तुलिता सदृशीकृता
नीलोत्पलानां नीलकमलानां वनं काननं तस्य कान्तिर्धुतिर्येनैवंभूतं नयनयुगलं नेत्रयुग्ममस्य चन्द्रापीडस्य
सलिलं जलं समुत्ससर्जोन्मुमोच । चरमं पश्चादम्भोमुचां मेघानां वृन्दं समूहम् । आदौ च प्रथमं चास्य
चन्द्रापीडस्योद्वेगेनाऽरत्याऽऽपूर्यमाणं भ्रियमाणमुत्कलिका हल्लेखास्तासां सहस्रं तेन पर्याकुलं व्याप्तमेतादृशं
मनश्चित्तमभवत् । अवसाने प्रान्ते । पश्चादित्यर्थः । स्रोतस्विनीनां नदीनां पात्रं तीरद्वयान्तरम् । 'पात्रं च
भाजने योग्ये पात्रं तीरद्वयान्तरे' इति विश्वः । उद्वेगेनोद्वाहुलकेनापूर्यमाणम् । जलैरिति शेषः। 'उद्वेगः
क्रमुकीफले । उद्वेगोऽप्युद्वा हुलकोद्वेजनोद्गमनेषु च' इति विश्वः । उत्कलिका वीच यस्तासां सहस्रं तेन पर्या-
कुलं चाभवत् । अपि चेति प्रकारान्तरे । दुःखेन तर्तुं शक्यन्त इति दुस्तरा स्तै रेतादृ शैर्नदी पूरैस्तटिनीप्लवै रेव
सह मन्मथस्य कंदर्पस्योन्माथा उन्मथनान्य वर्धन्तैधिषत । वर्षाजलानि वृष्टिपानीयानि तैर्विलुलितैरितस्ततः
पर्यस्तैः कमलाकरैरेव पद्मसमूहैरेव सह कादम्बर्या गन्धर्वपुत्र्याः समागमो मेलापस्तस्य प्रत्याशा वाञ्छा
ममज्जाब्रुडत् । धारा वेगेन जलपातास्तासां रयो वेगस्तमसहेन्त इति धारारयासहास्तैः कन्दव सह
हृदयं चेतोऽभिद्यत भेदमापादितवान् । अम्भोदवातेन जलदवायुनाहतास्ताडिता ये धाराकदम्बा धारया
ये विकसन्ति ते धाराकदम्बास्तेषां कुमलैर्मुकुलैरेव सहोत्कण्टकिता सरोमाञ्चा तनुः शरीरमकम्पत
कम्पयुक्ता बभूव । अनवरतं निरन्तरं यजलपतनमम्भोनिपतनं तेन जर्जरितं शिथिलीकृतं पक्ष्मोपरि-
वर्ति रोम येषामेव॑भूतैः शिलीन्त्रैर्भूमिस्फोटैः सह नयनयुगलं नेत्रयुग्मं ताम्रतामीषद्रक्ततामधत्त बभार ।
उत्प्राबल्येन यानि कुलसलिलानि तैरुत्खन्यमानानि पात्यमानानि मूलान्यधोभागा येषामेवंभूतैः सरित्तटैस्त-
टिनीतीरैः : सह प्राणा असवोऽपतभ्रंशमापुः । परिमलप्रधानानि परिमलमयानि मालतीनां वल्लिविशेषाणां
मुकुलैः कुड्मलैरेव सह रणरणका उत्कण्ठा व्यजृम्भन्त विकासमभजन्त । तथातिगुरुनिघतैरेव मनोरथा
4
टिप्प०-1 न सहन्ते इत्युचितम् । 2 रक्तवर्णैः कन्दल्याख्यलतायाः पुष्पै: 'विडम्ब्यमाना नवक
न्दलैस्ते' इति कालिदासः । 3 परस्परमानतोर्वातयोर्यो वेगो नीचैर्निष्पतति सशब्दः स निर्धात उच्यते ।
'कुरुकुलनिधनोत्पातनिर्घातवातः' इति वेणी० ।
पाठा० -१ समुपलतेन. २ निःश्वसित ३ आदावपूर्वम् ४ उद्वेग ५ अवर्धत ६ वर्ष ७ लुलितैः . ८ प्राभि-
यत हृदयं कादम्बरीसमागमप्रत्याशाधारया सह रयात्कन्दलैरुद्भिद्यत नवाम्भोदवाताहतैर्थाराकादम्बकुकालैरेव ९ भारा-
यासकन्दलैरेवामिहतहृदयम्, नवाम्भोदवाताहतैः कदम्ब कुमलैरेव सहोदकम्पोत्कण्ठिता. १० जर्जरितैः पक्ष्मभिः.
११ युगलं च, युगम्. १२ अपतन्त कामबाणा: अपतन्. १३ कुसुमैः, १४ उज्जृम्भन्त. १५ रणरणकः, १६ तथा-
तिगुरुभिर्घातैरेव; तथापि गुरुभिर्यातैरेव; तथा गुरुभिर्घनैरेव