कादम्बरी /631
This page has been fully proofread once and needs a second look.
मकरध्वजकुञ्जरस्य, मरणान्धतमसप्रवेशो विरहातुराणाम्, अमोघ- काल [^१]पाशवागुरोत्कण्ठितकामिहरिणानाम्, अभेद्यलोहार्गल- दण्डो दिग्वारणानाम्, अच्छेद्यहिञ्जीरशृङ्खला वाहानाम्, अनुन्यो- च्यनिगलबन्धोऽध्वगानाम्, अलङ्घ्यकान्तारलेखा प्रोषितानाम्, कालायसपञ्जरोपरोधो जीवलोकस्य, उद्गर्ज [^२]न्नलिकुलगवलम- लिनघनघटाभोगमीषणो विषमविस्फूर्जितध्वनिर्विषमतरतडिद्गु-
णाकर्षी मण्डलितविकटशक्रकार्मुकोऽनव [^३]रतधाराशरासार- वर्षप्रहारी पुरोमार्ग [^४]मुपरुन्धन्विरुद्ध इवान्धकारितमुखो निस्त्रिंशशतसहस्रसंपातदुष्प्रेक्ष्योऽक्षिणी प्रतिघ्नन्निवाशुगमनविघ्न- कारी बभूव जलदकालः ।
[^५]तत्र च प्रथममस्य [^६]चेतनाहारिभिर्मूच्छावेगै [^७]रन्धकार- तामनीयन्त दश दिशः, ततो जड-
[ टि ]-- दर्पागमः । कामोद्दीपकत्वात्तस्येति भावः । विरहातुराणां वियोगपीडितानां मरणमेवान्धतमसं निबिडं तमस्त [^१]स्य प्रवेशः । विरहिजनस्य प्राणापहारित्वात् । उत्कण्ठोत्कलिका जाता येषां त उत्कण्ठिताः । इतो जातार्थे । एतादृशाः कामिन एव हरिणाः कुर- ङ्गास्तेषाममोघः सफलः कालः श्याम [^2]वर्णः पाशवागुरा बन्ध- नरज्जुः । दिग्वारणानां दिग्गजानामभेद्यो भेत्तुमशक्यो लोहस्याय- सोऽर्गलदण्डः परिघयष्टिः । तत्क [^3]राघातैर्दुर्भेद्यत्वात् । वाहा- नामश्वानामच्छेद्यश्छेत्तुमशक्यो यो हिञ्जीरः पादपाशस्तस्य [^4]शृ- ङ्खला । अध्वगानां पथिकानामनुन्मोच्यस्त्यक्तुमशक्यो निगल- बन्धो निगडबन्धः । विघ्नकारित्वात् । प्रोषितानां गतभर्तृकाणामल- ङ्घ्या लङ्घितुमशक्या कान्तारलेखा वनराजिः । जीवलोकस्य जीवाधारक्षेत्रस्य कालायसस्य लोहविशेषस्य पञ्जरं लोकप्रसिद्धं तेनोपरोधो गमनप्रतिबन्धः । जीवलोकमभितो वर्तमानत्वेन गतेः प्रतिरोधकत्वेन च पञ्जरोपमानं मेघसमयस्येति भावः । किं कुर्वन् । उत्प्राबल्येन गर्जन्गर्जितं शब्दं कुर्वन् । अलिकुलानि भ्रमरकुलानि, गवला अरण्यमहिषाः, तद्वन्मलिनाः कृष्णा घनघटा मेघपङ्क्तय-
स्तासामाभोगो विस्तारस्तेन भीषणो भयानकः। विषमा वक्रा वि- स्फूर्जितस्य विजृम्भितस्य ध्वनिर्यस्य स तथा । विषमतरोऽतिकठि- नो यस्तडिद्गुणो विद्युगुणस्तमाकर्षतीत्येवंशीलः स तथा । मण्ड- लितं मण्डलाकारं संजातं विकटं विपुलं शक्रकार्मुकमिन्द्रधनुर्य- स्मिन्स तथा । 'विकटं विपुलं बृहत्' इति कोशः । अनवरतं निरन्तरं धारा एव शरा बाणास्तेषामासारवर्षी वेगवदृष्टिस्तेन प्रहरतीत्येवंशी- लः स तथा । पुरोमार्गमग्रपन्थानमुपरुन्धन्प्रतिरोधं कुर्वन्विरुद्ध इव शत्रुरिवान्धकारितं संजा [^5]तान्धकारं मुखमाननं यस्य स तथा । निस्त्रिंशानां खड्गानां यच्छतसहस्रं लक्षं तस्य संपातः पतनं तद्व-
द्दुष्प्रेक्ष्यो दुःखेन प्रेक्षितुं [^6]शक्यः । अक्षिणी चक्षुषी प्रतिघ्नन्निव । प्रतिहन्तीति प्रतिघ्नन् । शत्रन्तः । प्रतिघातं कुर्वन्निव । आशुगम- नस्य शीघ्रगतेर्विघ्नकारी प्रतिबन्धजनको वर्षासमयो बभूवेयन्वयस्तु प्रागेवोक्तः ।
तत्र च जलदकाले प्रथममादावस्य चन्द्रापीडस्य चेतोहारिभिश्चित्त-
ग्राहिभिर्मूर्च्छावेगैर्मोहसंवेगैर्दश दिशो दश ककुभोऽन्धकारं तिमिरं तस्य भावस्तत्ता तामनीयन्त [^7]प्रापितवन्तः । दश दिशोऽन्धका- रतां प्रापिता इत्यर्थः ।
[^1]F. तत्र, इत्युचितम् ।
[^2]F. कामिहरिणानाम् अमोघा कालपाश एव ( यमसंबन्धिनी गलबन्धनरज्जुरेव ) वागुरा बन्धनयन्त्रम् ।
[^3]F. वर्षासु पङ्किलभूमौ हस्तिनां पादाः प्रोथन्तीति तेषां गमनदु- ष्करत्वादर्गलेत्यर्थः ।
[^4]F. सवेगं गमनाभावात् ।
[^5]F. शत्रुः कथमन्धकारितमुखः ? अत एव विरुद्धः ( दस्यु: 'डाकू') परिज्ञातो मा भवेयमिति स्वरूपविलोपार्थमस्यादिना समा- च्छादितमुखो भवति । जलदकालस्तु - अन्धकारितम् अन्धकारा- च्छन्नम् ( दृष्टिशक्तिविहीनम् ) मुखम् ( लोकानाम् ) यस्मिन्तादृशः । स्थगितसूर्याचन्द्रतया अन्धकारयुक्तं वदनं लोकानामत्रेत्याशयः ।
[^6]F. दस्युस्तु खङ्गशतसहस्रसंपातभीषणः ।
[^7]F. प्राप्यन्त, इत्यर्थ उचितः ।
[^१]G. पाशोत्कण्ठित; पाशविरहोत्कण्ठित.
[^२]G. अलिगवय; अलिगणकुवलय.
[^३]G. धाससार.
[^४]G. अवरुन्धन्.
[^५]G. ततः.
[^६]G. चेत:.
[^७]G. अन्धकारम्.