कादम्बरी /631
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
मकरध्वजकुञ्जरस्य, मरणान्धतमसप्रवेशो विरहातुराणाम्, अमोघ कालपाशवागुरोत्कण्ठित
कामिहरिणानाम्, अभेद्यलोहार्गलदण्डो दिग्वारणानाम्, अच्छेचहि जीरशृङ्खला वाहानाम्,
अनुम्योच्यनिगलबन्धोऽध्वगानाम्, अलक्ष्य कान्तारलेखा प्रोषितानाम् कालायसपञ्जरोप-
रोधो जीवलोकस्य, उद्गर्जन्नेलिकुलगवलमलिनघनघटाभोगमीषणो विषमबिस्फूर्जितध्वनिर्वि-
षमतरतडिद्गुणाकर्षी मण्डलित विकटशक्र कार्मुको ऽनवरैतधाराशरासारवर्ष
प्रहारी पुरोमार्ग -
परुन्धन्विरुद्ध इवान्धकारितमुखो निर्खिशशतसहस्रसंपातदुष्प्रेक्ष्योऽक्षिणी प्रतिघ्नन्निवाशुग -
मनविघ्नकारी बभूव जलदकालः ।
तेत्र च प्रथममस्य चेतनाहारिभिर्मूच्छवेगैरँन्धकारतामनीयन्त दश दिशः, ततो जड-
५९८
.9
दर्पागमः । कामोद्दीपकत्वात्तस्येति भावः । विरहातुराणां वियोगपीडितानां मरणमेवान्धतमसं निविडं तमस्तस्य
प्रवेशः । विरहिजनस्य प्राणापहारित्वात् । उत्कण्ठोत्कलिका जाता येषां त उत्कण्ठिताः । इतो जातार्थे । एतादृशाः
कामिन एव हरिणाः कुरङ्गास्तेषाममोघः सफलः कालः श्यामवर्णः पाशवागुरा बन्धनरज्जुः । दिग्वारणानां दिग्ग-
जानामभेद्यो भेत्तुमशक्यो लोहस्यायसोऽर्गलदण्डः परिघयष्टिः । तत्करौघातैर्दुर्भेयत्वात् । वाहानामश्वाना मच्छेय-
रछेत्तुमशक्यो यो हिजीरः पादपाशस्तस्य शृला। अध्वगानां पथिकानामनुन्मोच्यस्त्यक्तुमशक्यो निगलबन्धो
निगडबन्धः । विघ्नकारित्वात् । प्रोषितानां गतभर्तृकाणामलङ्ख्या लङ्घितुमशक्या कान्तारलेखा वनराजिः । जीवलो-
कस्य जीवाधारक्षेत्रस्य कालायसस्य लोहविशेषस्य पञ्जरं लोकप्रसिद्धं तेनोपरोधो गमनप्रतिबन्धः । जीवलोकम-
भितो वर्तमानत्वेन गतेः प्रतिरोधकत्वेन च पञ्जरोपमानं मेघसमयस्येति भावः । किं कुर्वन् । उत्प्राबल्येन गर्ज-
न्गर्जितं शब्दं कुर्वन् । अलिकुलानि भ्रमरकुलानि, गवला अरण्यमहिषाः, तद्वन्मलिनाः कृष्णा घनघटा मेघपङ्क्षय-
स्तासामाभोगो विस्तारस्तेन भीषणो भयानकः । विषमा वका विस्फूर्जितस्य विजृम्भितस्य ध्वनिर्यस्य स तथा ।
विषमतरोऽतिकठिनो यस्तडिद्गुणो विद्युगुणस्तमाकर्षतीत्येवंशीलः स तथा । मण्डलितं मण्डलाकारं संजातं विकटं
विपुलं शक्रकार्मुकमिन्द्रधनुर्यस्मिन्स तथा । 'विकटं विपुलं बृहत्' इति कोशः । अनवरतं निरन्तरं धारा एव
शरा बाणास्तेषामासारवर्षी वेगवदृष्टिस्तेन प्रहरतीत्येवंशीलः स तथा । पुरोमार्गमग्रपन्थानमुपरुन्धन्प्रतिरोधं
कुर्वन्विरुद्ध इव शत्रुरिवान्धकारितं संजातान्धकारं मुखमाननं यस्य स तथा । नित्रिंशानां खड्गानां यच्छतसहस्रं
लक्षं तस्य संपातः पतनं तद्वद्दुष्प्रेक्ष्यो दुःखेन प्रेक्षितुं शक्यः । अक्षिणी चक्षुषी प्रतिघ्नन्भिव । प्रतिहन्तीति प्रति-
नन् । शत्रन्तः । प्रतिघातं कुर्वन्निव । आशुगमनस्य शीघ्रगतेर्विघ्नकारी प्रतिबन्धजनको वर्षासमयो बभूवेय-
न्वयस्तु प्रागेवोक्तः ।
तत्र च जलदकाले प्रथममादावस्य चन्द्रापीडस्य चेतोहारिभिश्चित्तग्राहिभिर्मूर्च्छावेगैर्मोहसंवेगैर्दश दिशो दश
ककुभोऽन्धकारं तिमिरं तस्य भावस्तत्ता तामनीयन्त प्रापितवन्तः । दश दिशोऽन्धकारतां प्रापिता इत्यर्थः ।
टिप्प० - 1 तंत्र, इत्युचितम् । 2 कामिहरिणानाम् अमोघा कालपाश एव ( यमसंबन्धिनी गल-
बन्धनरज्जुरेव ) वागुरा बन्धनयन्त्रम् । 3 वर्षासु पकिलभूमौ हस्तिनां पादाः प्रोथन्तीति तेषां गम-
नदुष्करत्वादर्गलेत्यर्थः । 4 सबेगं गमनाभावात् । 5 शत्रुः कथमन्धकारितमुखः ? अत एव विरुद्धः
( दस्यु: 'डाकू') परिज्ञातो मा भवेयमिति स्वरूपविलोपार्थ मस्यादिना समाच्छादितमुखो भवति । जलद-
कालस्तु - अन्धकारितम् अन्धकाराच्छन्नम् ( दृष्टिशक्तिविहीनम् ) मुखम् ( लोकानाम् ) यस्मिन्
तादृशः । स्थगितसूर्याचन्द्रतया अन्धकारयुकं वदनं लोकानामन्त्रेत्याशयः । 6 दस्युस्तु खङ्गशतसहज.
संपातभीषणः । 7 प्राप्यन्त, इत्यर्थ उचितः ।
पाठा० -१ पाशोत्कण्ठित; पाशविरहोत्कण्ठित २ अलिगवय; अलिगणकुवलय. ३ धाससार. ४ अवरुन्धत्.
५ ततः. ६ चेत:. ७ अन्धकारम्.